🪷 युद्धकाण्ड · Sarga 51

Yuddha-Kāṇḍa · The Book of War · Sarga 51 · 36 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.51.1
तेषां सुतुमुलं शब्दं वानराणां तरस्विनाम् ।नदतां राक्षसैः सार्धं तदा शुश्राव रावणः ।। ६.५१.१ ।।।। ॥६-५१-१॥
Vālmīki 6.51.2
स्निग्धगम्भीरनिर्घोषं श्रुत्वा स निनदं भृशम् ।सचिवानां ततस्तेषां मध्ये वचनमब्रवीत् ।। ६.५१.२ ।।।। ॥६-५१-२॥
Vālmīki 6.51.3
यथा ऽसौ सम्प्रहृष्टानां वानराणां समुत्थितः ।बहूनां सुमहानादो मेघानामिव गर्जताम् ।व्यक्तं सुमहती प्रीतिरेतेषां नात्र संशयः ।। ६.५१.३ ।।।। ॥६-५१-३॥
Vālmīki 6.51.4
तथा हि विपुलैर्नादश्चुक्षुभे वरुणालयः ।। ६.५१.४ ।।ूनां सुमहानादो मेघानामिव गर्जताम् ।तौ तु बद्धौ शरैस्तीक्ष्णैर्भ्रातरौ रामलक्ष्मणौ ।अयं च सुमहान्नादः शङ्कां जनयतीव मे ।। ६.५१.५ ।।।। ॥६-५१-४॥
Vālmīki 6.51.5
एतत्तु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः ।उवाच नैर्ऋतांस्तत्र समीपपरिवर्तिनः ।। ६.५१.६ ।।।। ॥६-५१-५॥
Vālmīki 6.51.6
ज्ञायतां तूर्णमेतेषां सर्वेषां वनचारिणाम् ।शोककाले समुत्पन्ने हर्षकारणमुत्थितम् ।। ६.५१.७ ।।।। ॥६-५१-६॥
Vālmīki 6.51.7
तथोक्तास्तेन सम्भ्रान्ताः प्राकारमधिरुह्य ते ।ददृशुः पालितां सेनां सुग्रीवेण महात्मना ।। ६.५१.८ ।।।। ॥६-५१-७॥
Vālmīki 6.51.8
तो च मुक्तौ सुघोरेण शरबन्धेन राघवौ ।समुत्थितौ महावेगौ विषेदुः प्रेक्ष्य राक्षसाः ।। ६.५१.९ ।।।। ॥६-५१-८॥
Vālmīki 6.51.9
सन्त्रस्तहृदयाः सर्वे प्राकारादवरुह्य ते ।विषण्णवदना घोरा राक्षसेन्द्रमुपस्थिताः ।। ६.५१.१० ।।।। ॥६-५१-९॥
Vālmīki 6.51.10
तदप्रियं दीनमुखा रावणस्य निशाचराः ।कृत्स्नं निवेदयामासुर्यथावद्वाक्यकोविदाः ।। ६.५१.११ ।।।। ॥६-५१-१०॥
Vālmīki 6.51.11
यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ ।निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ ।। ६.५१.१२ ।।।। ॥६-५१-११॥
Vālmīki 6.51.12
विमुक्तौ शरबन्धेन तौ दृश्येते रणाजिरे ।पाशानिव गजौ छित्त्वा गजेन्द्रसमविक्रमौ ।। ६.५१.१३ ।।।। ॥६-५१-१२॥
Vālmīki 6.51.13
तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः ।चिन्ताशोकसमाक्रान्तो विषण्णवदनो ऽब्रवीत् ।। ६.५१.१४ ।।।। ॥६-५१-१३॥
Vālmīki 6.51.14
घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोपमैः ।अमोघैः सूर्यसङ्काशैः प्रमथ्येन्द्रजिता युधि ।। ६.५१.१५ ।।।। ॥६-५१-१४॥
Vālmīki 6.51.15
तदस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम ।संशयस्थमिदं सर्वमनुपश्याम्यहं बलम् ।। ६.५१.१६ ।।।। ॥६-५१-१५॥
Vālmīki 6.51.16
निष्फलाः खलु संवृत्ताः शरा वासुकितेजसः ।आदत्तं यैः सुसङ्ग्रामे रिपूणां मम जीवितम् ।। ६.५१.१७ ।।।। ॥६-५१-१६॥
Vālmīki 6.51.17
एवमुक्त्वा तु सङ्क्रुद्धो निःश्वसन्नुरगो यथा ।अब्रवीद्रक्षसां मध्ये धूम्राक्षं नाम राक्षसम् ।। ६.५१.१८ ।।।। ॥६-५१-१७॥
Vālmīki 6.51.18
बलेन महता युक्तो रक्षसां भीमविक्रम ।त्वं वधायाभिनिर्याहि रामस्य सह वानरैः ।। ६.५१.१९ ।।।। ॥६-५१-१८॥
Vālmīki 6.51.19
एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता ।कृत्वा प्रणामं संहृष्टो निर्जगाम नृपालयात् ।। ६.५१.२० ।।।। ॥६-५१-१९॥
Vālmīki 6.51.20
अभिनिष्कम्य तद्द्वारं बलाध्यक्षमुवाच ह ।त्वरयस्व बलं तूर्णं किं चिरेण युयुत्सतः ।। ६.५१.२१ ।।।। ॥६-५१-२०॥
Vālmīki 6.51.21
धूम्राक्षवचनं श्रुत्वा बलाध्यक्षो बलानुगः ।बलमुद्योजयामास रावणस्याज्ञया द्रुतम् ।। ६.५१.२२ ।।।। ॥६-५१-२१॥
Vālmīki 6.51.22
ते बद्धघण्टाबलिनो घोररूपा निशाचराः ।विगर्जमानाः संहृष्टा धूम्राक्षं पर्यवारयन् ।विविधायुधहस्ताश्च शूलमुद्गरपाणयः ।। ६.५१.२३ ।।।। ॥६-५१-२२॥
Vālmīki 6.51.23
गदाभिः पट्टिशैर्दण्डैरायसैर्मुसलैर्भृशम् ॥६-५१-२३॥
Vālmīki 6.51.24
ृष्टा धूम्राक्षं पर्यवारयन् ।परिघैर्बिन्दिपालैश्च भल्लैः प्रासैः परश्वधैः ।निर्ययू राक्षसा दिग्भ्योनर्दन्तो जलदा यथा ।। ६.५१.२५ ।।।। ॥६-५१-२४॥
Vālmīki 6.51.25
रथैः कवचिनस्त्वन्ये ध्वजैश्च समलङ्कृतैः ।सुवर्णजालविहितैः खरैश्च विविधाननैः ।। ६.५१.२६ ।।।। ॥६-५१-२५॥
Vālmīki 6.51.26
हयैः परमशीघ्रैश्च गजैन्द्रैश्च मदोत्कटैः ।निर्ययू राक्षसव्याघ्रा व्याघ्रा इव दुरासदाः ।। ६.५१.२७ ।।।। ॥६-५१-२६॥
Vālmīki 6.51.27
वृकसिंहमुखैर्युक्तं खरैः कनकभूषणैः ।आरुरोह रथं दिव्यं धूम्राक्षः खरनिस्वनः ।। ६.५१.२८ ।।।। ॥६-५१-२७॥
Vālmīki 6.51.28
स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतः ।प्रहसन् पश्चिमद्वारं हनूमान् यत्र यूथपः ।रथप्रवरमास्थाय खरयुक्तं खरस्वनम् ।। ६.५१.२९ ।।।। ॥६-५१-२८॥
Vālmīki 6.51.29
प्रयान्तं तु महाघोरं राक्षसं भीमविक्रमम् ।अन्तरिक्षगता घोराः शकुनाः प्रत्यवारयन् ।। ६.५१.३० ।।।। ॥६-५१-२९॥
Vālmīki 6.51.30
रथशीर्षे महान् भीमो गृध्रश्च निपपात ह ।ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः ।। ६.५१.३१ ।।।। ॥६-५१-३०॥
Vālmīki 6.51.31
रुधिरार्द्रो महान् श्वेतः कबन्धः पतितो भुवि ।विस्वरं चोत्सृजन्नादं धूम्नाक्षस्य समीपतः ।। ६.५१.३२ ।।।। ॥६-५१-३१॥
Vālmīki 6.51.32
ववर्ष रुधिरं देवः सञ्चचाल च मेदिनी ।प्रतिलोभं ववौ वायुर्निर्घातसमनिस्वनः ।। ६.५१.३३ ।।।। ॥६-५१-३२॥
Vālmīki 6.51.33
तिमिरौघावृतास्तत्र दिशश्च न चकाशिरे ।। ६.५१.३४ ।।।। ॥६-५१-३३॥
Vālmīki 6.51.34
स तूत्पातांस्तदा दृष्ट्वा राक्षसानां भयावहान् ।प्रादुर्भूतान् सुघोरांश्च धूम्राक्षो व्यथितो ऽभवत् ।। ६.५१.३५ ।।।। ॥६-५१-३४॥
Vālmīki 6.51.35
मुमुहू राक्षसाः सर्वे धूम्राक्षस्य पुरस्सराः ।। ६.५१.३६ ।।।। ॥६-५१-३५॥
Vālmīki 6.51.36
ततः सुभीमो बहुभिर्निशाचरैर्वृतो ऽभिनिष्क्रम्य रणोत्सुको बली ।ददर्श तां राघवबाहुपालितां महौघकल्पां बहुवानरीं चमूम् ॥६-५१-३६॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷