🪷 युद्धकाण्ड · Sarga 50

Yuddha-Kāṇḍa · The Book of War · Sarga 50 · 65 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.50.1
अथोवाच महातेजा हरिराजो महाबलः ।किमियं व्यथिता सेना मूढवातेव नौर्जले ।। ६.५०.१ ।।।। ॥६-५०-१॥
Vālmīki 6.50.2
सुग्रीवस्य वचः श्रुत्वा वालिपुत्रो ऽङ्गदो ऽब्रवीत् ।। ६.५०.२ ।।।। ॥६-५०-२॥
Vālmīki 6.50.3
न त्वं पश्यसि रामं च लक्ष्मणं च महाबलम् ।शरजालाचितौ वीरावुभौ दशरथात्मजौ ।शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ ।। ६.५०.३ ।।।। ॥६-५०-३॥
Vālmīki 6.50.4
अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम् ।नानिमित्तमिदं मन्ये भवितव्यं भयेन तु ।। ६.५०.४ ।।।। ॥६-५०-४॥
Vālmīki 6.50.5
विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः ।प्रपलायन्ति हरयस्त्रासादुत्फुल्ललोचनाः ।। ६.५०.५ ।।।। ॥६-५०-५॥
Vālmīki 6.50.6
अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः ।विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च ।। ६.५०.६ ।।।। ॥६-५०-६॥
Vālmīki 6.50.7
एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः ।सुग्रीवं वर्धयामास राघवं च निरैक्षत ।। ६.५०.७ ।।।। ॥६-५०-७॥
Vālmīki 6.50.8
विभीषणं तं सुग्रीवो दृष्ट्वा वानरभीषणम् ।ऋक्षराजं समीपस्थं जाम्बवन्तमुवाच ह ।। ६.५०.८ ।।।। ॥६-५०-८॥
Vālmīki 6.50.9
विभीषणो ऽयं सम्प्रप्तो यं दृष्ट्वा वानरर्षभाः ।विद्रवन्ति परित्रस्ता रावणात्मजशङ्कया ।। ६.५०.९ ।।।। ॥६-५०-९॥
Vālmīki 6.50.10
शीघ्रमेतान् सुसन्त्रस्तान् बहुधा विप्रधावितान् ।प्रर्यवस्थापयाख्याहि विभीषणमुपस्थितम् ।। ६.५०.१० ।।।। ॥६-५०-१०॥
Vālmīki 6.50.11
सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः ।वानरान् सान्त्वयामास सन्निरुध्य प्रधावतः ।। ६.५०.११ ।।।। ॥६-५०-११॥
Vālmīki 6.50.12
ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसम्भ्रमाः ।ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम् ।। ६.५०.१२ ।।।। ॥६-५०-१२॥
Vālmīki 6.50.13
विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम् ।लक्ष्मणस्य च धर्मात्मा बभूव व्यथितेन्द्रियः ।। ६.५०.१३ ।।।। ॥६-५०-१३॥
Vālmīki 6.50.14
जलक्लिन्नेन हस्तेन तयोर्नेत्रे प्रमृज्य च ।शोकसम्पीडितमना रुरोद विललाप च ।। ६.५०.१४ ।।।। ॥६-५०-१४॥
Vālmīki 6.50.15
इमौ तौ सत्त्वसम्पन्नौ विक्रान्तौ प्रियसंयुगौ ।इमामवस्थां गमितौ राक्षसैः कूटयोधिभिः ।। ६.५०.१५ ।।।। ॥६-५०-१५॥
Vālmīki 6.50.16
भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना ।राक्षस्या जिह्मया बुद्ध्या चालितावृजुविक्रमौ ।। ६.५०.१६ ।।।। ॥६-५०-१६॥
Vālmīki 6.50.17
शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ ।वसुधायामिमौ सुप्तौ दृश्येते शल्यकाविव ।। ६.५०.१७ ।।।। ॥६-५०-१७॥
Vālmīki 6.50.18
ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया ।तावुभौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ ।। ६.५०.१८ ।।।। ॥६-५०-१८॥
Vālmīki 6.50.19
जीवन्नद्य विपन्नो ऽस्मि नष्टराज्यमनोरथः ।प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः ।। ६.५०.१९ ।।।। ॥६-५०-१९॥
Vālmīki 6.50.20
एवं विलपमानं तं परिष्वज्य विभीषणम् ।सुग्रीवः सत्त्वसम्पन्नो हरिराजो ऽब्रवीदिदम् ।। ६.५०.२० ।।।। ॥६-५०-२०॥
Vālmīki 6.50.21
राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयः ।रावणः सह पुत्रेण सकामं नेह लप्स्यते ।। ६.५०.२१ ।।।। ॥६-५०-२१॥
Vālmīki 6.50.22
न रुजा पीडितावेतावुभौ राघवलक्ष्मणौ ।त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे ।। ६.५०.२२ ।।।। ॥६-५०-२२॥
Vālmīki 6.50.23
तमेनं सान्त्वयित्वा तु समाश्वास्य च राक्षसम् ।सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह ।। ६.५०.२३ ।।।। ॥६-५०-२३॥
Vālmīki 6.50.24
सह शूरैर्हरिगणैर्लब्धसञ्ज्ञावरिन्दमौ ।गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ ।। ६.५०.२४ ।।।। ॥६-५०-२४॥
Vālmīki 6.50.25
अहं तु रावणं हत्वा सपुत्रं सहबान्धवम् ।मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम् ।श्रुत्वैतद्वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत् ।। ६.५०.२५ ।।।। ॥६-५०-२५॥
Vālmīki 6.50.26
दैवासुरं महद्युद्धमनुभूतं सुदारुणम् ।तदा स्म दानवा देवान् शरसंस्पर्शकोविदाः ।। ६.५०.२६ ।।।। ॥६-५०-२६॥
Vālmīki 6.50.27
निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः ।। ६.५०.२७ ।।।। ॥६-५०-२७॥
Vālmīki 6.50.28
तानार्तान्नष्टसञ्ज्ञांश्च परासूंश्च बृहस्पतिः ।विद्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति ।। ६.५०.२८ ।।।। ॥६-५०-२८॥
Vālmīki 6.50.29
तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम् ।जवेन वानराः शीघ्रं सम्पातिपनसादयः ।हरयस्तु विजानन्ति पार्वतीस्ता महौषधीः ।। ६.५०.२९ ।।।। ॥६-५०-२९॥
Vālmīki 6.50.30
सञ्जीवकरणीं दिव्यां विशल्यां देवनिर्मिताम् ।। ६.५०.३० ।।.५०.२ ।। सम्पातिपनसादयः ।चन्द्रश्च नाम द्रोणश्च क्षीरोदे सागरोत्तमे ।अमृतं यत्र मथितं तत्र ते परमौषधी ।। ६.५०.३१ ।।।। ॥६-५०-३०॥
Vālmīki 6.50.31
अयं वायुसुतो राजन् हनुमांस्तत्र गच्छतु ।। ६.५०.३२ ।।।। ॥६-५०-३१॥
Vālmīki 6.50.32
एतस्मिन्नन्तरे वायुर्मेघांश्चापि सविद्युतः ।पर्यस्यन् सागरे तोयं कम्पयन्निव मेदिनीम् ।। ६.५०.३३ ।।।। ॥६-५०-३२॥
Vālmīki 6.50.33
महता पक्षवातेन सर्वद्वीपमहाद्रुमाः ।निपेतुर्भिन्नविटपाः समूला लवणाम्भसि ।। ६.५०.३४ ।।।। ॥६-५०-३३॥
Vālmīki 6.50.34
अभवन् पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः ।शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम् ।। ६.५०.३५ ।।।। ॥६-५०-३४॥
Vālmīki 6.50.35
ततो मुहूर्ताद्गरुडं वैनतेयं महाबलम् ।।।। ॥६-५०-३५॥
Vālmīki 6.50.36
वानरा ददृशुः सर्वेज्वलन्तमिव पावकम् ।। ६.५०.३६ ।।।। ॥६-५०-३६॥
Vālmīki 6.50.37
तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः ।यैस्तौ सत्पुरुषौ बद्धौ शरभूतैर्महाबलौ ।। ६.५०.३७ ।।।। ॥६-५०-३७॥
Vālmīki 6.50.38
ततः सुपर्णः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्दितः ।विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे ।। ६.५०.३८ ।।।। ॥६-५०-३८॥
Vālmīki 6.50.39
वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः ।सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः ।। ६.५०.३९ ।।।। ॥६-५०-३९॥
Vālmīki 6.50.40
तेजो वीर्यं बलं चौज उत्साहश्च महागुणः ।प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणं तयोः ।। ६.५०.४० ।।।। ॥६-५०-४०॥
Vālmīki 6.50.41
तावुत्थाप्य महावीर्यौ गरुडो वासवोपमौ ।उभौ तौ सस्वजे हृष्टौ रामश्चैनमुवाच ह ।। ६.५०.४१ ।।।। ॥६-५०-४१॥
Vālmīki 6.50.42
भवत्प्रसादाद्व्यसनं रावणिप्रभवं महत् ।आवामिह व्यतिक्रान्तौ पूर्ववद्बलिनौ कृतौ ।। ६.५०.४२ ।।।। ॥६-५०-४२॥
Vālmīki 6.50.43
यथा तातं दशरथं यथा ऽजं च पितामहम् ।तथा भवन्तमासाद्य हृदयं मे प्रसीदति ।। ६.५०.४३ ।।।। ॥६-५०-४३॥
Vālmīki 6.50.44
को भवान् रूपसम्पन्नो दिव्यस्रगनुलेपनः ।वसानो विरजे वस्त्रे दिव्याभरणभूषितः ।। ६.५०.४४ ।।।। ॥६-५०-४४॥
Vālmīki 6.50.45
तमुवाच महातेजा वैनतेयो महाबलः ।पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः ।। ६.५०.४५ ।।।। ॥६-५०-४५॥
Vālmīki 6.50.46
अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः ।गरुत्मानिह सम्प्राप्तो युवाभ्यां साह्यकारणात् ।। ६.५०.४६ ।।।। ॥६-५०-४६॥
Vālmīki 6.50.47
असुरा वा महावीर्या दानवा वा महाबलाः ।सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम् ।। ६.५०.४७ ।।।। ॥६-५०-४७॥
Vālmīki 6.50.48
नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम् ।मायाबलादिन्द्रजिता निर्मितं क्रूरकर्मणा ।। ६.५०.४८ ।।।। ॥६-५०-४८॥
Vālmīki 6.50.49
एते नागाः काद्रवेया स्तीक्ष्णदंष्ट्रा विषोल्बणाः ।रक्षोमायाप्रभावेन शरा भूत्वा त्वदाश्रिताः ।। ६.५०.४९ ।।।। ॥६-५०-४९॥
Vālmīki 6.50.50
सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम ।लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना ।। ६.५०.५० ।।।। ॥६-५०-५०॥
Vālmīki 6.50.51
इमं श्रुत्वा तु वृत्तान्तं त्वरमाणो ऽहमागतः ।सहसा युवयोः स्नेहात् सखित्वमनुपालयन् ।। ६.५०.५१ ।।।। ॥६-५०-५१॥
Vālmīki 6.50.52
मोक्षितौ च महाघोरादस्मात् सायकबन्धनात् ।अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि ।। ६.५०.५२ ।।।। ॥६-५०-५२॥
Vālmīki 6.50.53
प्रकृत्या राक्षसाः सर्वे सङ्ग्रामे कूटयोधिनः ।शूराणां शुद्धभावानां भवतामार्जवं बलम् ।। ६.५०.५३ ।।।। ॥६-५०-५३॥
Vālmīki 6.50.54
तन्न विश्वसितव्यं वो राक्षसानां रणाजिरे ।एतेनैवोपमानेन नित्यं जिह्मा हि राक्षसाः ।। ६.५०.५४ ।।।। ॥६-५०-५४॥
Vālmīki 6.50.55
एवमुक्त्वा ततो रामं सुपर्णः सुमहाबलः ।परिष्वज्य सुहृत् स्निग्धमाप्रष्टुमुपचक्रमे ।। ६.५०.५५ ।।।। ॥६-५०-५५॥
Vālmīki 6.50.56
सखे राघव धर्मज्ञ रिपूणामपि वत्सल ।अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथागतम् ।। ६.५०.५६ ।।।। ॥६-५०-५६॥
Vālmīki 6.50.57
न च कौतूहलं कार्यं सखित्वं प्रति राघव ।कृतकर्मा रणे वीरः सखित्वमनुवेत्स्यसि ।। ६.५०.५७ ।।।। ॥६-५०-५७॥
Vālmīki 6.50.58
बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः ।रावणं च रिपुं हत्वा सीतां समुपलप्स्यसे ।। ६.५०.५८ ।।।। ॥६-५०-५८॥
Vālmīki 6.50.59
इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः ।रामं च विरुजं कृत्वा मध्ये तेषां वनौकसाम् ।। ६.५०.५९ ।।।। ॥६-५०-५९॥
Vālmīki 6.50.60
प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान् ।जगामाकाशमाविश्य सुपर्णः पवनो यथा ।। ६.५०.६० ।।।। ॥६-५०-६०॥
Vālmīki 6.50.61
विरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः ।सिंहनादांस्तदा नेदुर्लाङ्गूलान् दुधुवुस्तदा ।। ६.५०.६१ ।।।। ॥६-५०-६१॥
Vālmīki 6.50.62
ततो भेरीः समाजघ्नुर्मृदङ्गांश्चाप्यनादयन् ।दध्मुः शङ्खान् सम्प्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम् ।। ६.५०.६२ ।।।। ॥६-५०-६२॥
Vālmīki 6.50.63
आस्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनः ।द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः ।। ६.५०.६३ ।।।। ॥६-५०-६३॥
Vālmīki 6.50.64
विसृजन्तो महानादांस्त्रासयन्तो निशाचरान् ।लङ्काद्वारण्युपाजग्मुर्योद्धुकामाः प्लवङ्गमाः ।। ६.५०.६४ ।।।। ॥६-५०-६४॥
Vālmīki 6.50.65
ततस्तु भीमस्तुमुलो निनादो बभूव शाखामृगयूथपानाम् ।क्षये निदाघस्य यथा घनानां नादः सुभीमो नदतां निशीथे ॥६-५०-६५॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷