🪷 युद्धकाण्ड · Sarga 49

Yuddha-Kāṇḍa · The Book of War · Sarga 49 · 33 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.49.1
घोरेण शरबन्धेन बद्धौ दशरथात्मजौ ।निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ ।। ६.४९.१ ।।।। ॥६-४९-१॥
Vālmīki 6.49.2
सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः ।परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः ।। ६.४९.२ ।।।। ॥६-४९-२॥
Vālmīki 6.49.3
एतस्मिन्नन्तरे रामः प्रत्यबुध्यत वीर्यवान् ।स्थिरत्वात् सत्त्वयोगाच्च शरैः सन्दानितो ऽपि सन् ।। ६.४९.३ ।।।। ॥६-४९-३॥
Vālmīki 6.49.4
ततो दृष्ट्वा सरुधिरं विषण्णं गाढमर्पितम् ।भ्रातरं दीनवदनं पर्यदेवयदातुरः ।। ६.४९.४ ।।।। ॥६-४९-४॥
Vālmīki 6.49.5
किं नु मे सीतया कार्यं किं कार्यं जीवितेन वा ।शयानं यो ऽद्य पश्यामि भ्रातरं युधि निर्जितम् ।। ६.४९.५ ।।।। ॥६-४९-५॥
Vālmīki 6.49.6
शक्या सीतासमा नारी मर्त्यलोके विचिन्वता ।न लक्ष्मणसमो भ्राता सचिवः साम्परायिकः ।। ६.४९.६ ।।।। ॥६-४९-६॥
Vālmīki 6.49.7
परित्यक्ष्याम्यहं प्राणं वानराणां तु पश्यताम् ।यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः ।। ६.४९.७ ।।।। ॥६-४९-७॥
Vālmīki 6.49.8
किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम् ।कथमम्भां सुमित्रां च पुत्रदर्शनलालसाम् ।। ६.४९.८ ।।।। ॥६-४९-८॥
Vālmīki 6.49.9
विवत्सां वेपमानां च क्रोशन्तीं कुररीमिव ।कथमाश्वासयिष्यामि यदा यास्यामि तं विना ।। ६.४९.९ ।।।। ॥६-४९-९॥
Vālmīki 6.49.10
कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम् ।। ६.४९.१० ।।।। ॥६-४९-१०॥
Vālmīki 6.49.11
मया सह वनं यातो विना तेन गतः पुनः ।उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया ।। ६.४९.११ ।।।। ॥६-४९-११॥
Vālmīki 6.49.12
इहैव देहं त्यक्ष्यामि न हि जीवितुमुत्सहे ।। ६.४९.१२ ।।।। ॥६-४९-१२॥
Vālmīki 6.49.13
धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ ।लक्ष्मणः पतितः शेते शरतल्पे गतासुवत् ।। ६.४९.१३ ।।।। ॥६-४९-१३॥
Vālmīki 6.49.14
त्वं नित्यं स विषण्णं मामाश्वासयसि लक्ष्मण ।गतासुर्नाद्य शक्नोषि मामार्तमभिभाषितुम् ।। ६.४९.१४ ।।।। ॥६-४९-१४॥
Vālmīki 6.49.15
येनाद्य निहता युद्धे राक्षसा विनिपातिताः ।तस्यमेव क्षितौ वीरः स शेते निहतः परैः ।। ६.४९.१५ ।।।। ॥६-४९-१५॥
Vālmīki 6.49.16
शयानः शरतल्पे ऽस्मिन् स्वशोणितपरिप्लुतः ।शरजालैश्चितो भाति भास्करो ऽस्तमिव व्रजन् ।। ६.४९.१६ ।।।। ॥६-४९-१६॥
Vālmīki 6.49.17
बाणाभिहतमर्मत्वान्न शक्नोत्यभिभाषितुम् ।रुजा चाब्रुवतो ऽप्यस्य दृष्टिरागेण सूच्यते ।। ६.४९.१७ ।।।। ॥६-४९-१७॥
Vālmīki 6.49.18
यथैव मां वनं यान्तमनुयातो महाद्युतिः ।अहमप्यनुयास्यामि तथैवैनं यमक्षयम् ।। ६.४९.१८ ।।।। ॥६-४९-१८॥
Vālmīki 6.49.19
इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः ।इमामद्य गतो ऽवस्थां ममानार्यस्य दुर्नयैः ।। ६.४९.१९ ।।।। ॥६-४९-१९॥
Vālmīki 6.49.20
सुरुष्टेनापि वीरेण लक्ष्मणेन न संस्मरे ।परुषं विप्रियं वापि श्रावितं तु कदाचन ।। ६.४९.२० ।।।। ॥६-४९-२०॥
Vālmīki 6.49.21
विससर्जैकवेगेन पञ्चबाणशतानि यः ।इष्वस्त्रेष्वधिकस्तस्मात् कार्तवीर्याच्च लक्ष्मणः ।। ६.४९.२१ ।।।। ॥६-४९-२१॥
Vālmīki 6.49.22
अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः ।सो ऽयमुर्व्यां हतः शेते महार्हशयनोचितः ।। ६.४९.२२ ।।।। ॥६-४९-२२॥
Vālmīki 6.49.23
यन्मया न कृतो राजा राक्षसानां विभीषणः ।तच्च मिथ्याप्रलप्तं मां प्रधक्ष्यति न संशयः ।। ६.४९.२३ ।।।। ॥६-४९-२३॥
Vālmīki 6.49.24
अस्मिन्मुहूर्ते सुग्रीव प्रतियातुमितो ऽर्हसि ।मत्वा हीनं मया राजन् रावणो ऽभिद्रवेद्बली ।। ६.४९.२४ ।।।। ॥६-४९-२४॥
Vālmīki 6.49.25
अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृज्जनः ।सागरं तर सुग्रीव नीलेन च नलेन च ।। ६.४९.२५ ।।।। ॥६-४९-२५॥
Vālmīki 6.49.26
कृतं हनुमता कार्यं यदन्यैर्दुष्करं रणे ।ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च ।। ६.४९.२६ ।।।। ॥६-४९-२६॥
Vālmīki 6.49.27
अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च ।युद्धं केसरिणा सङ्ख्ये घोरं सम्पातिना कृतम् ।। ६.४९.२७ ।।।। ॥६-४९-२७॥
Vālmīki 6.49.28
गवयेन गवाक्षेण शरभेण गजेन च ।अन्यैश्च हरिभिर्युद्धं मदर्थे त्यक्तजीवितैः ।न चातिक्रमितुं शक्यं दैवं सुग्रीवमानुषैः ।। ६.४९.२८ ।।।। ॥६-४९-२८॥
Vālmīki 6.49.29
यत्तु शक्यं वयस्येन सुहृदा च परन्तप ।कृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणा ।। ६.४९.२९ ।।।। ॥६-४९-२९॥
Vālmīki 6.49.30
मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः ।अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ ।। ६.४९.३० ।।।। ॥६-४९-३०॥
Vālmīki 6.49.31
शुश्रुवस्तस्य ते सर्वे वानराः परिदेवनम् ।वर्तयाञ्चकुरश्रूणि नेत्रैः कृष्णेतरेक्षणाः ।। ६.४९.३१ ।।।। ॥६-४९-३१॥
Vālmīki 6.49.32
ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः ।आजगाम गदापाणिस्त्वरितो यत्र राघवः ।। ६.४९.३२ ।।।। ॥६-४९-३२॥
Vālmīki 6.49.33
तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम् ।वानरा दुद्रुवुः सर्वे मन्यमानास्तु रावणिम् * ॥६-४९-३३॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷