🪷 युद्धकाण्ड · Sarga 48
Yuddha-Kāṇḍa · The Book of War · Sarga 48 · 37 ślokas
🪷 Devanāgarī Ślokas
भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महावलम् ।विललाप भृशं सीता करुणं शोककर्शिता ।। ६.४८.१ ।।।। ॥६-४८-१॥
ऊचुर्लक्षणिनो ये मां पुत्रिण्यविधवेति च ।ते ऽद्य सर्वे हते रामे ज्ञानिनो ऽनृतवादिनः ।। ६.४८.२ ।।।। ॥६-४८-२॥
यज्वनो महिषीं ये मामूचुः पत्नीं च सत्रिणः ।ते ऽद्य सर्वे हते रामे ज्ञानिनो ऽनृतवादिनः ।। ६.४८.३ ।।।। ॥६-४८-३॥
ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम् ।ते ऽद्य सर्वे हते रामे ज्ञानिनो ऽनृतवादिनः ।। ६.४८.४ ।।।। ॥६-४८-४॥
वीरपार्थिवपत्नी त्वं ये धन्येति च मां विदुः ।ते ऽद्य सर्वे हते रामे ज्ञानिनो ऽनृतवादिनः ।। ६.४८.५ ।।।। ॥६-४८-५॥
इमानि खलु पद्मानि पादयोर्यैः किल स्त्रियः ।आधिराज्ये ऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह ।। ६.४८.६ ।।।। ॥६-४८-६॥
वैधव्यं यान्ति यैर्नार्यो लक्षणैर्भाग्यदुर्लभाः ।नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा ।। ६.४८.७ ।।।। ॥६-४८-७॥
सत्यनामानि पद्मानि स्त्रीणामुक्तानि लक्षणैः ।तान्यद्य निहते रामे वितथानि भवन्ति मे ।। ६.४८.८ ।।।। ॥६-४८-८॥
केशाः सूक्ष्माः समा नीला भ्रुवौ चासङ्गते मम ।वृत्ते चारोमशे जङ्घे दन्ताश्चाविरला मम ।। ६.४८.९ ।।।। ॥६-४८-९॥
शङ्खे नेत्रे करौ पादौ गुल्फावूरू च मे चितौ ।अनुवृत्तनखाः स्निग्धाः समाश्चाङ्गुलयो मम ।। ६.४८.१० ।।।। ॥६-४८-१०॥
स्तनौ चाविरलौ पीनौ ममेमौ मग्नचूचुकौ ।मग्ना चोत्सङ्गिनी नाभिः पार्श्वोरस्काश्च मे चिताः ।। ६.४८.११ ।।।। ॥६-४८-११॥
मम वर्णो मणिनिभो मृदून्यङ्गरुहाणि च ।प्रतिष्ठितां द्वादशभिर्मामूचुः शुभलक्षणाम् ।। ६.४८.१२ ।।।। ॥६-४८-१२॥
समग्रयवमच्छिद्रं पाणिपादं च वर्णवत् ।मन्दस्मितेत्येव च मां कन्यालक्षणिनो द्विजाः ।। ६.४८.१३ ।।।। ॥६-४८-१३॥
आधिराज्ये ऽभिषेको मे ब्राह्मणैः पतिना सह ।कृतान्तकुशलैरुक्तं तत्सर्वं वितथीकृतम् ।। ६.४८.१४ ।।।। ॥६-४८-१४॥
शोधयित्वा जनस्थानं प्रवृत्तिमुपलभ्य च ।तीर्त्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ ।। ६.४८.१५ ।।।। ॥६-४८-१५॥
ननु वारुणमाग्नेयमैन्द्रं वायव्यमेव च ।अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यताम् ।। ६.४८.१६ ।।।। ॥६-४८-१६॥
अदृश्यमानेन रणे मायया वासवोपमौ ।मम नाथावनाथाया निहतौ रामलक्ष्मणौ ।। ६.४८.१७ ।।।। ॥६-४८-१७॥
न हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः ।जीवन् प्रतिनिवर्तेत यद्यपि स्यान्मनोजवः ।। ६.४८.१८ ।।।। ॥६-४८-१८॥
न कालस्यातिभारो ऽस्ति कृतान्तश्च सुदुर्जयः ।यत्र रामः सह भ्रात्रा शेते युधि निपातितः ।। ६.४८.१९ ।।।। ॥६-४८-१९॥
न शोचामि तथा रामं लक्ष्मणं च महाबलम् ।नात्मानं जननीं वापि यथा श्वश्रूं तपस्विनीम् ।। ६.४८.२० ।।।। ॥६-४८-२०॥
सा ऽनुचिन्तयते नित्यं समाप्तव्रतमागतम् ।कदा द्रक्ष्यामि सीतां च लक्ष्मणं च सराघवम् ।। ६.४८.२१ ।।।। ॥६-४८-२१॥
परिदेवयमानां तां राक्षसी त्रिजटा ऽब्रवीत् ।। ६.४८.२२ ।।।। ॥६-४८-२२॥
मा विषादं कृथा देवि भर्ता ऽयं तव जीवति ।। ६.४८.२३ ।।।। ॥६-४८-२३॥
कारणानि च वक्ष्यामि महान्ति सदृशानि च ।यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ ।। ६.४८.२४ ।।।। ॥६-४८-२४॥
नहि कोपपरीतानि हर्षपर्युत्सुकानि च ।भवन्ति युधि योधानां मुखानि निहते पतौ ।। ६.४८.२५ ।।।। ॥६-४८-२५॥
इदं विमानं वैदेहि पुष्पकं नाम नामतः ।दिव्यं त्वां धारयेन्नैवं यद्येतौ गतजीवितौ ।। ६.४८.२६ ।।।। ॥६-४८-२६॥
हतवीरप्रधानां हि हतौत्साहा निरुद्यमा ।सेना भ्रमति सङ्ख्येषु हतकर्णेव नौर्जले ।। ६.४८.२७ ।।।। ॥६-४८-२७॥
इयं पुनरसम्भ्रान्ता निरुद्विग्ना तरस्विनी ।सेना रक्षति काकुत्स्थौ मया प्रीत्या निवेदितौ ।। ६.४८.२८ ।।।। ॥६-४८-२८॥
सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः ।अहतौ पश्य काकुत्स्थौ स्नेहादेतद् ब्रवीमि ते ।। ६.४८.२९ ।।।। ॥६-४८-२९॥
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।चारित्रसुखशीलत्वात् प्रविष्टा ऽसि मनो मम ।। ६.४८.३० ।।।। ॥६-४८-३०॥
नेमौ शक्यौ रणे जेतुं सेन्द्रैरपि सुरासुरैः ।तादृशं दर्शनं दृष्ट्वा मया चावेदितं तव ।इदं च सुमहच्चिह्नं शनैः पश्यस्व मैथिलि ।। ६.४८.३१ ।।।। ॥६-४८-३१॥
निस्सञ्ज्ञावप्युभावेतौ नैव लक्ष्मीर्वियुज्यते ।प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम् ।दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम् ।। ६.४८.३२ ।।।। ॥६-४८-३२॥
त्यज शोकं च मोहं च दुःखं च जनकात्मजे ।रामलक्ष्मणयोरर्थे नाद्य शक्यमजीवितुम् ।। ६.४८.३३ ।।।। ॥६-४८-३३॥
श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा ।कृताञ्जलिरुवाचेदमेवमस्त्विति मैथिली ।। ६.४८.३४ ।।।। ॥६-४८-३४॥
विमानं पुष्पकं तत्तु सन्निवर्त्य मनोजवम् ।दीना त्रिजटया सीता लङ्कामेव प्रवेशिता ।। ६.४८.३५ ।।।। ॥६-४८-३५॥
ततस्त्रिजटया सार्धं पुष्पकादवरुह्य सा ।अशोकवनिकामेव राक्षसीभिः प्रवेशिता ।। ६.४८.३६ ।।।। ॥६-४८-३६॥
प्रविश्य सीता बहुवृक्षषण्डां तां राक्षसेन्द्रस्य विहारभूमिम् ।सम्प्रेक्ष्य सञ्चिन्त्य च राजपुत्रौ परं विषादं समुपाजगाम ॥६-४८-३७॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 47
- Next: Yuddha-Kāṇḍa Sarga 49 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷