🪷 युद्धकाण्ड · Sarga 47
Yuddha-Kāṇḍa · The Book of War · Sarga 47 · 23 ślokas
🪷 Devanāgarī Ślokas
प्रतिप्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे ।राघवं परिवार्यार्ता ररक्षुर्वानरर्षभाः ।। ६.४७.१ ।।।। ॥६-४७-१॥
हनुमानङ्गदो नीलः सुषेणः कुमुदो नलः ।गजो गवाक्षो गवयः शरभो गन्धमादनः ।जाम्बवानृषभः स्कन्धो रम्भः शतवलिः पृथुः ।। ६.४७.२ ।।।। ॥६-४७-२॥
व्यूढानीकाश्च यत्ताश्च द्रुमानादाय सर्वतः ।वीक्षमाणा दिशः सर्वास्तिर्यगूर्ध्वं च वानराः ।तृणेष्वपि च चेष्टत्सु राक्षसा इति मेनिरे ।। ६.४७.३ ।।।। ॥६-४७-३॥
रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम् ।आजुहाव ततः सीतारक्षिणी राक्षसीस्तदा ।। ६.४७.४ ।।।। ॥६-४७-४॥
राक्षस्यस्त्रिजटा चैव शासनात् समुपस्थिताः ।। ६.४७.५ ।।।। ॥६-४७-५॥
ता उवाच ततो हृष्टो राक्षसी राक्षसाधिपः ।। ६.४७.६ ।।।। ॥६-४७-६॥
हताविन्द्रजिता ऽ ऽख्यात वैदेह्या रामलक्ष्मणौ ।पुष्पकं च समारोप्य दर्शयध्वं हतौ रणे ।। ६.४७.७ ।।।। ॥६-४७-७॥
यदाश्रयादवष्टब्धा नेयं मामुपतिष्ठति ।सो ऽस्या भर्त्ता सह भ्रात्रा निरस्तो रणमूर्धनि ।। ६.४७.८ ।।।। ॥६-४७-८॥
निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली ।मामुपस्थास्यते सीता सर्वाभरणभूषिता ।। ६.४७.९ ।।।। ॥६-४७-९॥
अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम् ।अवेक्ष्य विनिवृत्ताशा चान्यां गतिमपश्यती ।निरपेक्षा विशालाक्षी मामुपस्थास्यते स्वयम् ।। ६.४७.१० ।।।। ॥६-४७-१०॥
तस्य तद्वचनं च श्रुत्वा रावणस्य दुरात्मनः ।राक्षस्यस्तास्तथेत्युक्त्वा जग्मुर्वै यत्र पुष्पकम् ।। ६.४७.११ ।।।। ॥६-४७-११॥
ततः पुष्पकमादाय राक्षस्यो रावणाज्ञया ।अशोकवनिकास्थां तां मैथिलीं समुपानयन् ।। ६.४७.१२ ।।।। ॥६-४७-१२॥
तामादाय तु राक्षस्यो भर्तृशोकपराजिताम् ।सीतामारोपयामासुर्विमानं पुष्पकं तदा ।। ६.४७.१३ ।।।। ॥६-४७-१३॥
ततः पुष्पकमारोप्य सीतां त्रिजटया सह ।जग्मुर्दर्शयितुं तस्यै राक्षस्यो रामलक्ष्मणौ ।। ६.४७.१४ ।।।। ॥६-४७-१४॥
रावणो ऽकारयल्लङ्कां पताकाध्वजमालिनीम् ।प्राघोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः ।राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे ।। ६.४७.१५ ।।।। ॥६-४७-१५॥
विमानेनापि सीता तु गत्वा त्रिजटया सह ।ददर्श वानराणां तु सर्वं सैन्यं निपातितम् ।। ६.४७.१६ ।।।। ॥६-४७-१६॥
प्रहृष्टमनसश्चापि ददर्श पिशिताशनान् ।वानरांश्चापि दुःखार्तान् रामलक्ष्मणपार्श्वतः ।। ६.४७.१७ ।।।। ॥६-४७-१७॥
ततः सीता ददर्शोभौ शयानौ शरतल्पयोः ।लक्ष्मणं चापि रामं च विसञ्ज्ञौ शरपीडितौ ।। ६.४७.१८ ।।।। ॥६-४७-१८॥
विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ ।सायकैश्छिन्नसर्वाङ्गौ शरस्तम्बमयौ क्षितौ ।। ६.४७.१९ ।।।। ॥६-४७-१९॥
तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौ ।शयानौ पुण्डरीकाक्षौ कुमाराविव पावकी ।। ६.४७.२० ।।।। ॥६-४७-२०॥
शरतल्पगतौ वीरौ तथाभूतौ नरर्षभौ ।दुःखार्ता सुभृशं सीता सुचिरं विललाप ह ।। ६.४७.२१ ।।।। ॥६-४७-२१॥
भर्तारमनवद्याङ्गी लक्ष्मणं चासितेक्षणा ।प्रेक्ष्य पांसुषु वेष्टन्तौ रुरोद जनकात्मजा ।। ६.४७.२२ ।।।। ॥६-४७-२२॥
सा बाष्पशोकाभिहता समीक्ष्य तौ भ्रातरौ देवसमप्रभावौ ।वितर्कयन्ती निधनं तयोः सा दुःखान्विता वाक्यमिदं जगाद ॥६-४७-२३॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 46
- Next: Yuddha-Kāṇḍa Sarga 48 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷