🪷 युद्धकाण्ड · Sarga 46
Yuddha-Kāṇḍa · The Book of War · Sarga 46 · 50 ślokas
🪷 Devanāgarī Ślokas
ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः ।ददृशुः सन्ततौ बाणैर्भ्रातरौ रामलक्ष्मणौ ।। ६.४६.१ ।।।। ॥६-४६-१॥
वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे ।आजगामाथ तं देशं ससुग्रीवो विभीषणः ।। ६.४६.२ ।।।। ॥६-४६-२॥
नीलद्विविदमैन्दाश्च सुषेणकुमुदाङ्गदाः ।तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ ।। ६.४६.३ ।।।। ॥६-४६-३॥
अचेष्टौ मन्दनिश्वासौ शोणितौघपरिप्लुतौ ।शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः ।। ६.४६.४ ।।।। ॥६-४६-४॥
निश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ ।रुधिरस्रावदिग्धाङ्गौ तापनीयाविव ध्वजौ ।। ६.४६.५ ।।।। ॥६-४६-५॥
तौ वीरशयने वीरौ शयनौ मन्दचेष्टितौ ।यूथपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः ।। ६.४६.६ ।।।। ॥६-४६-६॥
राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ ।बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः ।। ६.४६.७ ।।।। ॥६-४६-७॥
अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः ।न चैनं मायया च्छन्नं ददृशू रावणिं रणे ।। ६.४६.८ ।।।। ॥६-४६-८॥
त तु मायाप्रतिच्छन्नं माययैव विभीषणः ।वीक्षमाणो ददर्शाथ भ्रातुः पुत्रमवस्थितम् ।। ६.४६.९ ।।।। ॥६-४६-९॥
तमप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ।ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः ।। ६.४६.१० ।।।। ॥६-४६-१०॥
तेजसा यशसा चैव विक्रमेण च संयुतम् ।। ६.४६.११ ।।।। ॥६-४६-११॥
इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च ।उवाच परमप्रीतो हर्षयन् सर्वनैर्ऋतान् ।। ६.४६.१२ ।।।। ॥६-४६-१२॥
दूषणस्य च हन्तारौ खरस्य च महाबलौ ।सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्णौ ।। ६.४६.१३ ।।।। ॥६-४६-१३॥
नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात् ।सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः ।। ६.४६.१४ ।।।। ॥६-४६-१४॥
यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम ।अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वरी ।। ६.४६.१५ ।।।। ॥६-४६-१५॥
कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला ।सो ऽयं मूलहरो ऽनर्थः सर्वेषां निहतो मया ।। ६.४६.१६ ।।।। ॥६-४६-१६॥
रामस्य लक्ष्मणस्यापि सर्वेषां च वनौकसाम् ।विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः ।। ६.४६.१७ ।।।। ॥६-४६-१७॥
एवमुक्त्वा तु तान् सर्वान् राक्षसान् परिपार्श्वतः ।यूथपानपि तान् सर्वांस्ताडयामास रावणिः ।। ६.४६.१८ ।।।। ॥६-४६-१८॥
नीलं नवभिराहत्य मैन्दं च द्विविदं तथा ।त्रिभिस्त्रिभिरमित्रघ्नस्तताप प्रवरेषुभिः ।। ६.४६.१९ ।।।। ॥६-४६-१९॥
जाम्बवन्तं महेष्वासो विद्ध्वा बाणेन वक्षसि ।हनूमतो वेगवतो विससर्ज शरान् दश ।। ६.४६.२० ।।।। ॥६-४६-२०॥
गवाक्षं शरभं चैव द्वावप्यमिततेजसौ ।द्वाभ्यां द्वाभ्यां महावेगो विव्याध युधि रावणिः ।। ६.४६.२१ ।।।। ॥६-४६-२१॥
गोलाङ्गूलेश्वरं चैव वालिपुत्रमथाङ्गदम् ।विव्याध बहुभिर्बाणैस्त्वरमाणो ऽथ रावणिः ।। ६.४६.२२ ।।।। ॥६-४६-२२॥
तान् वानरवरान् भित्त्वा शरैरग्निशिखोपमैः ।ननाद बलवांस्तत्र महासत्त्वः स रावणिः ।। ६.४६.२३ ।।।। ॥६-४६-२३॥
तानर्दयित्वा बाणौघैस्त्रासयित्वा च वानरान् ।प्रजहास महाबाहुर्वचनं चेदमब्रवीत् ।। ६.४६.२४ ।।।। ॥६-४६-२४॥
शरबन्धेन घोरेण मया बद्धौ चमूमुखे ।सहितौ भ्रातरावेतौ निशामयत राक्षसाः ।। ६.४६.२५ ।।।। ॥६-४६-२५॥
एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः ।परं विस्मयमाजग्मुः कर्मणा तेन हर्षिताः ।। ६.४६.२६ ।।।। ॥६-४६-२६॥
विनेदुश्च महानादान् सर्वतो जलदोपमाः ।हतो राम इति ज्ञात्वा रावणिं समपूजयन् ।। ६.४६.२७ ।।।। ॥६-४६-२७॥
निष्पन्दौ तु तदा दृष्ट्वा तावुभौ रामलक्ष्मणौ ।वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत ।। ६.४६.२८ ।।।। ॥६-४६-२८॥
हर्षेण तु समाविष्ट इन्द्रजित् समितिञ्जयः ।प्रविवेश पुरीं लङ्कां हर्षयन् सर्वराक्षसान् ।। ६.४६.२९ ।।।। ॥६-४६-२९॥
रामलक्ष्मणयोर्द्दष्ट्वा शरीरे सायकैश्चिते ।सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत् ।। ६.४६.३० ।।।। ॥६-४६-३०॥
तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः ।सबाष्पवदनं दीनं शोकव्याकुललोचनम् ।। ६.४६.३१ ।।।। ॥६-४६-३१॥
अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम् ।एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः ।। ६.४६.३२ ।।।। ॥६-४६-३२॥
सशेषभाग्यता ऽस्माकं यदि वीर भविष्यति ।मोहमेतौ प्रहास्येते महात्मानौ महाबलौ ।। ६.४६.३३ ।।।। ॥६-४६-३३॥
पर्यवस्थापयात्मानमनाथं मां च वानर ।सत्यधर्माभिरक्तानां नास्ति मृत्युकृतं भयम् ।। ६.४६.३४ ।।।। ॥६-४६-३४॥
एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना ।सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभिषणः ।। ६.४६.३५ ।।।। ॥६-४६-३५॥
ततः सलिलमादाय विद्यया परिजप्य च ।सुग्रीवनेत्रे धर्मात्मा स ममार्ज विभीषणः ।। ६.४६.३६ ।।।। ॥६-४६-३६॥
प्रमृज्य वदनं तस्य कपिराजस्य धीमतः ।अब्रवीत् कालसम्प्राप्तमसम्भ्रममिदं वचः ।। ६.४६.३७ ।।।। ॥६-४६-३७॥
न कालः कपिराजेन्द्र वैक्लव्यमनुवर्तितुम् ।अतिस्नेहो ऽप्यकाले ऽस्मिन् मरणायोपकल्पते ।। ६.४६.३८ ।।।। ॥६-४६-३८॥
तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम् ।हितं रामपुरोगाणां सैन्यानामनुचिन्त्यताम् ।। ६.४६.३९ ।।।। ॥६-४६-३९॥
अथवा रक्ष्यतां रामो यावत् सञ्ज्ञाविपर्ययः ।लब्धसञ्ज्ञौ हि काकुत्स्थौ भयं नो व्यपनेष्यतः ।। ६.४६.४० ।।।। ॥६-४६-४०॥
नैतत् किञ्चन रामस्य न च रामो मुमूर्षति ।न ह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम् ।। ६.४६.४१ ।।।। ॥६-४६-४१॥
तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम् ।यावत् कार्याणि सर्वाणि पुनः संस्थापयाम्यहम् ।। ६.४६.४२ ।।।। ॥६-४६-४२॥
एते हि फुल्लनयनास्त्रासादागतसाध्वसाः ।कर्णे कर्णे प्रकथिता हरयो हरिसत्तम ।। ६.४६.४३ ।।।। ॥६-४६-४३॥
मां तु दृष्ट्वा प्रधावन्तमनीकं सम्प्रहर्षितुम् ।त्यजन्तु हरयस्त्रासं भुक्तपूर्वामिव स्रजम् ।। ६.४६.४४ ।।।। ॥६-४६-४४॥
समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः ।विद्रुतं वानरानीकं तत्समाश्वासयत् पुनः ।। ६.४६.४५ ।।।। ॥६-४६-४५॥
इन्द्रजित्तु महामायः सर्वसैन्यसमावृतः ।विवेश नगरीं लङ्कां पितरं चाभ्युपागमत् ।। ६.४६.४६ ।।।। ॥६-४६-४६॥
तत्र रावणमासीनमभिवाद्य कृताञ्जलिः ।आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ ।। ६.४६.४७ ।।।। ॥६-४६-४७॥
उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे ।रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ ।उपाघ्राय स मूर्ध्न्येनं पप्रच्छ प्रीतमानसः ।। ६.४६.४८ ।।।। ॥६-४६-४८॥
पृच्छते च यथावृत्तं पित्रे सर्वं न्यवेदयत् ।यथा तौ शरबन्धेन निश्चेष्टौ निष्प्रभौ कृतौ ।। ६.४६.४९ ।।।। ॥६-४६-४९॥
स हर्षवेगानुगतान्तरात्मा श्रुत्वा वचस्तस्य महारथस्य ।जहौ ज्वरं दाशरथेः समुत्थितं प्रहृष्य वाचा ऽभिननन्द पुत्रम् ॥६-४६-५०॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 45
- Next: Yuddha-Kāṇḍa Sarga 47 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷