🪷 युद्धकाण्ड · Sarga 46

Yuddha-Kāṇḍa · The Book of War · Sarga 46 · 50 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 6.46local sarga route with all Sanskrit ślokasYuddha-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 6.46.1
ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः ।ददृशुः सन्ततौ बाणैर्भ्रातरौ रामलक्ष्मणौ ।। ६.४६.१ ।।।।
Vālmīki 6.46.2
वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे ।आजगामाथ तं देशं ससुग्रीवो विभीषणः ।। ६.४६.२ ।।।।
Vālmīki 6.46.3
नीलद्विविदमैन्दाश्च सुषेणकुमुदाङ्गदाः ।तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ ।। ६.४६.३ ।।।।
Vālmīki 6.46.4
अचेष्टौ मन्दनिश्वासौ शोणितौघपरिप्लुतौ ।शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः ।। ६.४६.४ ।।।।
Vālmīki 6.46.5
निश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ ।रुधिरस्रावदिग्धाङ्गौ तापनीयाविव ध्वजौ ।। ६.४६.५ ।।।।
Vālmīki 6.46.6
तौ वीरशयने वीरौ शयनौ मन्दचेष्टितौ ।यूथपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः ।। ६.४६.६ ।।।।
Vālmīki 6.46.7
राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ ।बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः ।। ६.४६.७ ।।।।
Vālmīki 6.46.8
अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः ।न चैनं मायया च्छन्नं ददृशू रावणिं रणे ।। ६.४६.८ ।।।।
Vālmīki 6.46.9
त तु मायाप्रतिच्छन्नं माययैव विभीषणः ।वीक्षमाणो ददर्शाथ भ्रातुः पुत्रमवस्थितम् ।। ६.४६.९ ।।।।
Vālmīki 6.46.10
तमप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ।ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः ।। ६.४६.१० ।।।।
Vālmīki 6.46.11
तेजसा यशसा चैव विक्रमेण च संयुतम् ।। ६.४६.११ ।।।।
Vālmīki 6.46.12
इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च ।उवाच परमप्रीतो हर्षयन् सर्वनैर्ऋतान् ।। ६.४६.१२ ।।।।
Vālmīki 6.46.13
दूषणस्य च हन्तारौ खरस्य च महाबलौ ।सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्णौ ।। ६.४६.१३ ।।।।
Vālmīki 6.46.14
नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात् ।सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः ।। ६.४६.१४ ।।।।
Vālmīki 6.46.15
यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम ।अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वरी ।। ६.४६.१५ ।।।।
Vālmīki 6.46.16
कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला ।सो ऽयं मूलहरो ऽनर्थः सर्वेषां निहतो मया ।। ६.४६.१६ ।।।।
Vālmīki 6.46.17
रामस्य लक्ष्मणस्यापि सर्वेषां च वनौकसाम् ।विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः ।। ६.४६.१७ ।।।।
Vālmīki 6.46.18
एवमुक्त्वा तु तान् सर्वान् राक्षसान् परिपार्श्वतः ।यूथपानपि तान् सर्वांस्ताडयामास रावणिः ।। ६.४६.१८ ।।।।
Vālmīki 6.46.19
नीलं नवभिराहत्य मैन्दं च द्विविदं तथा ।त्रिभिस्त्रिभिरमित्रघ्नस्तताप प्रवरेषुभिः ।। ६.४६.१९ ।।।।
Vālmīki 6.46.20
जाम्बवन्तं महेष्वासो विद्ध्वा बाणेन वक्षसि ।हनूमतो वेगवतो विससर्ज शरान् दश ।। ६.४६.२० ।।।।
Vālmīki 6.46.21
गवाक्षं शरभं चैव द्वावप्यमिततेजसौ ।द्वाभ्यां द्वाभ्यां महावेगो विव्याध युधि रावणिः ।। ६.४६.२१ ।।।।
Vālmīki 6.46.22
गोलाङ्गूलेश्वरं चैव वालिपुत्रमथाङ्गदम् ।विव्याध बहुभिर्बाणैस्त्वरमाणो ऽथ रावणिः ।। ६.४६.२२ ।।।।
Vālmīki 6.46.23
तान् वानरवरान् भित्त्वा शरैरग्निशिखोपमैः ।ननाद बलवांस्तत्र महासत्त्वः स रावणिः ।। ६.४६.२३ ।।।।
Vālmīki 6.46.24
तानर्दयित्वा बाणौघैस्त्रासयित्वा च वानरान् ।प्रजहास महाबाहुर्वचनं चेदमब्रवीत् ।। ६.४६.२४ ।।।।
Vālmīki 6.46.25
शरबन्धेन घोरेण मया बद्धौ चमूमुखे ।सहितौ भ्रातरावेतौ निशामयत राक्षसाः ।। ६.४६.२५ ।।।।
Vālmīki 6.46.26
एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः ।परं विस्मयमाजग्मुः कर्मणा तेन हर्षिताः ।। ६.४६.२६ ।।।।
Vālmīki 6.46.27
विनेदुश्च महानादान् सर्वतो जलदोपमाः ।हतो राम इति ज्ञात्वा रावणिं समपूजयन् ।। ६.४६.२७ ।।।।
Vālmīki 6.46.28
निष्पन्दौ तु तदा दृष्ट्वा तावुभौ रामलक्ष्मणौ ।वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत ।। ६.४६.२८ ।।।।
Vālmīki 6.46.29
हर्षेण तु समाविष्ट इन्द्रजित् समितिञ्जयः ।प्रविवेश पुरीं लङ्कां हर्षयन् सर्वराक्षसान् ।। ६.४६.२९ ।।।।
Vālmīki 6.46.30
रामलक्ष्मणयोर्द्दष्ट्वा शरीरे सायकैश्चिते ।सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत् ।। ६.४६.३० ।।।।
Vālmīki 6.46.31
तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः ।सबाष्पवदनं दीनं शोकव्याकुललोचनम् ।। ६.४६.३१ ।।।।
Vālmīki 6.46.32
अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम् ।एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः ।। ६.४६.३२ ।।।।
Vālmīki 6.46.33
सशेषभाग्यता ऽस्माकं यदि वीर भविष्यति ।मोहमेतौ प्रहास्येते महात्मानौ महाबलौ ।। ६.४६.३३ ।।।।
Vālmīki 6.46.34
पर्यवस्थापयात्मानमनाथं मां च वानर ।सत्यधर्माभिरक्तानां नास्ति मृत्युकृतं भयम् ।। ६.४६.३४ ।।।।
Vālmīki 6.46.35
एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना ।सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभिषणः ।। ६.४६.३५ ।।।।
Vālmīki 6.46.36
ततः सलिलमादाय विद्यया परिजप्य च ।सुग्रीवनेत्रे धर्मात्मा स ममार्ज विभीषणः ।। ६.४६.३६ ।।।।
Vālmīki 6.46.37
प्रमृज्य वदनं तस्य कपिराजस्य धीमतः ।अब्रवीत् कालसम्प्राप्तमसम्भ्रममिदं वचः ।। ६.४६.३७ ।।।।
Vālmīki 6.46.38
न कालः कपिराजेन्द्र वैक्लव्यमनुवर्तितुम् ।अतिस्नेहो ऽप्यकाले ऽस्मिन् मरणायोपकल्पते ।। ६.४६.३८ ।।।।
Vālmīki 6.46.39
तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम् ।हितं रामपुरोगाणां सैन्यानामनुचिन्त्यताम् ।। ६.४६.३९ ।।।।
Vālmīki 6.46.40
अथवा रक्ष्यतां रामो यावत् सञ्ज्ञाविपर्ययः ।लब्धसञ्ज्ञौ हि काकुत्स्थौ भयं नो व्यपनेष्यतः ।। ६.४६.४० ।।।।
Vālmīki 6.46.41
नैतत् किञ्चन रामस्य न च रामो मुमूर्षति ।न ह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम् ।। ६.४६.४१ ।।।।
Vālmīki 6.46.42
तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम् ।यावत् कार्याणि सर्वाणि पुनः संस्थापयाम्यहम् ।। ६.४६.४२ ।।।।
Vālmīki 6.46.43
एते हि फुल्लनयनास्त्रासादागतसाध्वसाः ।कर्णे कर्णे प्रकथिता हरयो हरिसत्तम ।। ६.४६.४३ ।।।।
Vālmīki 6.46.44
मां तु दृष्ट्वा प्रधावन्तमनीकं सम्प्रहर्षितुम् ।त्यजन्तु हरयस्त्रासं भुक्तपूर्वामिव स्रजम् ।। ६.४६.४४ ।।।।
Vālmīki 6.46.45
समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः ।विद्रुतं वानरानीकं तत्समाश्वासयत् पुनः ।। ६.४६.४५ ।।।।
Vālmīki 6.46.46
इन्द्रजित्तु महामायः सर्वसैन्यसमावृतः ।विवेश नगरीं लङ्कां पितरं चाभ्युपागमत् ।। ६.४६.४६ ।।।।
Vālmīki 6.46.47
तत्र रावणमासीनमभिवाद्य कृताञ्जलिः ।आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ ।। ६.४६.४७ ।।।।
Vālmīki 6.46.48
उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे ।रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ ।उपाघ्राय स मूर्ध्न्येनं पप्रच्छ प्रीतमानसः ।। ६.४६.४८ ।।।।
Vālmīki 6.46.49
पृच्छते च यथावृत्तं पित्रे सर्वं न्यवेदयत् ।यथा तौ शरबन्धेन निश्चेष्टौ निष्प्रभौ कृतौ ।। ६.४६.४९ ।।।।
Vālmīki 6.46.50
स हर्षवेगानुगतान्तरात्मा श्रुत्वा वचस्तस्य महारथस्य ।जहौ ज्वरं दाशरथेः समुत्थितं प्रहृष्य वाचा ऽभिननन्द पुत्रम् ।। ६.४६.५० ।।

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷