🪷 युद्धकाण्ड · Sarga 45

Yuddha-Kāṇḍa · The Book of War · Sarga 45 · 28 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.45.1
स तस्य गतिमन्विच्छन् राजपुत्रः प्रतापवान् ।दिदेशातिबलो रामो दश वानरयूथपान् ।। ६.४५.१ ।।।। ॥६-४५-१॥
Vālmīki 6.45.2
द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम् ।अङ्गदं वालिपुत्रं च शरभं च तरस्विनम् ।। ६.४५.२ ।।।। ॥६-४५-२॥
Vālmīki 6.45.3
विनतं जाम्बवन्तं च सानुप्रस्थं महाबलम् ।ऋषभं चर्षभस्कन्धमादिदेश परन्तपः ।। ६.४५.३ ।।।। ॥६-४५-३॥
Vālmīki 6.45.4
ते सम्प्रहृष्टा हरयो भीमानुद्यम्य पादपान् ।आकाशं विविशुः सर्वे मार्गमाणा दिशो दश ।। ६.४५.४ ।।।। ॥६-४५-४॥
Vālmīki 6.45.5
तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः ।अस्त्रवित् परमास्त्रैस्तु वारयामास रावणिः ।। ६.४५.५ ।।।। ॥६-४५-५॥
Vālmīki 6.45.6
तं भीमवेगा हरयो नाराचैः क्षतविग्रहाः ।अन्धकारे न ददृशुर्मेघैः सूर्यमिवावृतम् ।। ६.४५.६ ।।।। ॥६-४५-६॥
Vālmīki 6.45.7
रामलक्ष्मणयोरेव सर्वदेहभिदः शरान् ।भृशमावेशयामास रावणिः समितिञ्जयः ।। ६.४५.७ ।।।। ॥६-४५-७॥
Vālmīki 6.45.8
निरन्तरशरीरौ तौ भ्रातरौ रामलक्ष्णौ ।क्रुद्धेनेन्द्रजिता वीरौ पन्नगैः शरतां गतैः ।। ६.४५.८ ।।।। ॥६-४५-८॥
Vālmīki 6.45.9
तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु ।तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ ।। ६.४५.९ ।।।। ॥६-४५-९॥
Vālmīki 6.45.10
ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः ।रावणिर्भ्रातरौ वाक्यमन्तर्धानगतो ऽब्रवीत् ।। ६.४५.१० ।।।। ॥६-४५-१०॥
Vālmīki 6.45.11
युद्ध्यमानमनालक्ष्यं शक्रो ऽपि त्रिदशेश्वरः ।द्रष्टुमासादितुं वापि न शक्तः किं पुनर्युवाम् ।। ६.४५.११ ।।।। ॥६-४५-११॥
Vālmīki 6.45.12
प्रावृताविषुजालेन राघवौ कङ्कपत्रिणा ।एष रोषपरीतात्मा नयामि यमसादनम् ।। ६.४५.१२ ।।।। ॥६-४५-१२॥
Vālmīki 6.45.13
एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ ।निर्बिभेद शितैर्बाणैः प्रजहर्ष ननाद च ।। ६.४५.१३ ।।।। ॥६-४५-१३॥
Vālmīki 6.45.14
भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः ।भूयो भूयः शरान् घोरान् विससर्ज महामृधे ।। ६.४५.१४ ।।।। ॥६-४५-१४॥
Vālmīki 6.45.15
ततो मर्मसु मर्मज्ञो मज्जयन्निशितान् शरान् ।रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः ।। ६.४५.१५ ।।।। ॥६-४५-१५॥
Vālmīki 6.45.16
बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनि ।निमेषान्तरमात्रेण न शेकतुरुदीक्षितुम् ।। ६.४५.१६ ।।।। ॥६-४५-१६॥
Vālmīki 6.45.17
ततो विभिन्नसर्वाङ्गौ शरशल्याचितावुभौ ।ध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ ।। ६.४५.१७ ।।।। ॥६-४५-१७॥
Vālmīki 6.45.18
तौ सम्प्रचलितौ वीरौ मर्मभेदेन कर्शितौ ।निपेततुर्महेष्वासौ जगत्यां जगतीपती ।। ६.४५.१८ ।।।। ॥६-४५-१८॥
Vālmīki 6.45.19
तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ ।शरवेष्टितसर्वाङ्गावार्तौ परमपीडितौ ।। ६.४५.१९ ।।।। ॥६-४५-१९॥
Vālmīki 6.45.20
न ह्यविद्धं तयोर्गात्रे बभूवाङ्गुलमन्तरम् ।नानिर्भिन्नं न चास्तब्धमाकराग्रादजिह्मगैः ।। ६.४५.२० ।।।। ॥६-४५-२०॥
Vālmīki 6.45.21
तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा ।असृक् सुस्रुवतुस्तीव्रं जलं प्रस्रवणाविव ।। ६.४५.२१ ।।।। ॥६-४५-२१॥
Vālmīki 6.45.22
पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः ।क्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः ।। ६.४५.२२ ।।।। ॥६-४५-२२॥
Vālmīki 6.45.23
रुक्मपुङ्खैः प्रसन्नाग्रैरधोगतिभिराशुगैः ।नाराचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि ।विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः क्षुरैस्तथा ।। ६.४५.२३ ।।।। ॥६-४५-२३॥
Vālmīki 6.45.24
स वीरशयने शिश्ये विज्यमादाय कार्मुकम् ।भिन्नमुष्टिपरीणाहं त्रिनतं रत्नभूषितम् ।। ६.४५.२४ ।।।। ॥६-४५-२४॥
Vālmīki 6.45.25
बाणपातान्तरे रामं पतितं पुरुषर्षभम् ।स तत्र लक्ष्मणो दृष्ट्वा निराशो जीविते ऽभवत् ।। ६.४५.२५ ।।।। ॥६-४५-२५॥
Vālmīki 6.45.26
रामं कमलपत्राक्षं शरबन्धपरिक्षतम् ।शुशोच भ्रातरं दृष्ट्वा पतितं घरणीतले ।। ६.४५.२६ ।।।। ॥६-४५-२६॥
Vālmīki 6.45.27
हरयश्चापि तं दृष्ट्वा सन्तापं परमं गताः ।। ६.४५.२७ ।।।। ॥६-४५-२७॥
Vālmīki 6.45.28
बद्धौ तु वीरौ पतितौ शयानौ तौ वानराः सम्परिवार्य तस्थुः ।समागता वायुसुतप्रमुख्या विषादमार्ताः परमं च जग्मुः ॥६-४५-२८॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷