🪷 युद्धकाण्ड · Sarga 44
Yuddha-Kāṇḍa · The Book of War · Sarga 44 · 41 ślokas
🪷 Devanāgarī Ślokas
युद्ध्यतामेव तेषां तु तदा वानररक्षसाम् ।रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी ।। ६.४४.१ ।।।। ॥६-४४-१॥
अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम् ।सम्प्रवृत्तं निशायुद्धं तदा वानररक्षसाम् ।। ६.४४.२ ।।।। ॥६-४४-२॥
राक्षसो ऽसीति हरयो हरिश्चासीति राक्षसाः ।अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे ।। ६.४४.३ ।।।। ॥६-४४-३॥
जहि दारय चैहीति कथं विद्रवसीति च ।एवं सुतुमुलः शब्दस्तस्मिंस्तमसि शुश्रुवे ।। ६.४४.४ ।।।। ॥६-४४-४॥
कालाः काञ्चनसन्नाहास्तस्मिंस्तमसि राक्षसाः ।सम्प्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव ।। ६.४४.५ ।।।। ॥६-४४-५॥
तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूर्च्छिताः ।परिपेतुर्महावेगा भक्षयन्तः प्लवङ्गमान् ।। ६.४४.६ ।।।। ॥६-४४-६॥
ते हयान् काञ्चनापीडान् ध्वजांश्चाग्निशिखोपमान् ।आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन् ।। ६.४४.७ ।।।। ॥६-४४-७॥
वानरा बलिनो युद्धे ऽक्षोभयन् राक्षसीं चमूम् ।कुञ्जरान् कुञ्जरारोहान् पताकाध्वजिनो स्थान् ।चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्च्छिताः ।। ६.४४.८ ।।।। ॥६-४४-८॥
लक्ष्मणश्चापि रामश्च शरैराशीविषोपमैः ।दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः ।। ६.४४.९ ।।।। ॥६-४४-९॥
तुरङ्गखुरविध्वस्तं रथनेमिसमुत्थितम् ।रुरोध कर्णनेत्राणि युद्ध्यतां धरणीरजः ।। ६.४४.१० ।।।। ॥६-४४-१०॥
वर्तमाने महाघोरे सङ्ग्रामे रोमहर्षणे ।रुधिरोदा महाघोरा नद्यस्तत्र प्रसुस्रुवुः ।। ६.४४.११ ।।।। ॥६-४४-११॥
ततो भेरीमृदङ्गानां पणवानां च निस्वनः ।शङ्खवेणुस्वनोन्मिश्रः सम्बभूवाद्भुतोपमः ।। ६.४४.१२ ।।।। ॥६-४४-१२॥
हतानां स्तनमानानां राक्षसानां च निस्वनः ।शस्तानां वानराणां च सम्बभूवातिदारुणः ।। ६.४४.१३ ।।।। ॥६-४४-१३॥
हतैर्वानरवीरैश्च शक्तिशूलपरश्वधैः ।निहतैः पर्वताग्रैश्च राक्षसैः कामरूपिभिः ।। ६.४४.१४ ।।।। ॥६-४४-१४॥
शस्त्रपुष्पोपहारा च तत्रासीद्युद्धमेदिनी ।दुर्ज्ञेया दुर्निवेशा च शोणितास्रावकर्दमा ।। ६.४४.१५ ।।।। ॥६-४४-१५॥
सा बभूव निशा घोरा हरिराक्षसहारिणी ।कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा ।। ६.४४.१६ ।।।। ॥६-४४-१६॥
ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे ।राममेवाभ्यवर्तन्त संसृष्टाः शरवृष्टिभिः ।। ६.४४.१७ ।।।। ॥६-४४-१७॥
तेषामापततां शब्दः क्रुद्धानामपि गर्जताम् ।उद्वर्त इव सप्तानां समुद्राणां प्रशुश्रुवे ।। ६.४४.१८ ।।।। ॥६-४४-१८॥
तेषां रामः शरैष्षङ्भिष्षड् जघान निशाचरान् ।निमेषान्तरमात्रेण शितैरग्निशिखोपमैः ।। ६.४४.१९ ।।।। ॥६-४४-१९॥
यमशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ ।वज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ ।। ६.४४.२० ।।।। ॥६-४४-२०॥
ते तु रामेण बाणौघैः सर्वे मर्मसु ताडिताः ।युद्धादपसृतास्तत्र सावशेषायुषो ऽभवन् ।। ६.४४.२१ ।।।। ॥६-४४-२१॥
तत्र काञ्चनचित्राङ्गैः शरैरग्निशिखोपमैः ।दिशश्चकार विमलाः प्रदिशश्च महाबलः ।। ६.४४.२२ ।।।। ॥६-४४-२२॥
ये त्वन्ये राक्षसा भीमा रामस्याभिमुखे स्थिताः ।ते ऽपि नष्टाः समासाद्य पतङ्ग इव पावकम् ।। ६.४४.२३ ।।।। ॥६-४४-२३॥
सुवर्णपुङ्खैर्विशिखैः सम्पतद्भिः सहस्रशः ।बभूव रजनी चित्रा खद्योतैरिव शारदी ।। ६.४४.२४ ।।।। ॥६-४४-२४॥
राक्षसानां च निनदैर्हरीणां चापि निस्वनैः ।सा बभूव निशा घोरा भूयो घोरतरा तदा ।। ६.४४.२५ ।।।। ॥६-४४-२५॥
तेन शब्देन महता प्रवृद्धेन समन्ततः ।त्रिकूटः कन्दराकीर्णः प्रव्याहरदिवाचलः ।। ६.४४.२६ ।।।। ॥६-४४-२६॥
गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः ।सम्परिष्वज्य बाहुभ्यां भक्षयन् रजनीचरान् ।। ६.४४.२७ ।।।। ॥६-४४-२७॥
अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितः ।रावणिं निजघानाशु सारथिं च हयानपि ।। ६.४४.२८ ।।।। ॥६-४४-२८॥
वर्तमाने तदा घोरे सङ्ग्रामे भृशदारुणे ।इन्द्रजित्तु रथं त्यक्त्वा हताश्वो हतसारथिः ।अङ्गदेन महाकायस्तत्रैवान्तरधीयत ।। ६.४४.२९ ।।।। ॥६-४४-२९॥
तत्कर्म वालिपुत्रस्य सर्वे देवाः सहर्षिभिः ।तुष्टुवुः पूजनार्हस्य तौ चोभौ रामलक्ष्मणौ ।। ६.४४.३० ।।।। ॥६-४४-३०॥
प्रभावं सर्वभूतानि विदुरिन्द्रजितो युधि ।तेन ते तं महात्मानं तुष्टा दृष्ट्वा प्रधर्षितम् ।। ६.४४.३१ ।।।। ॥६-४४-३१॥
ततः प्रहृष्टाः कपयः ससुग्रीवविभीषणाः ।साधु साध्विति नेदुश्च दृष्ट्वा शत्रुं प्रधर्षितम् ।। ६.४४.३२ ।।।। ॥६-४४-३२॥
इन्द्रजित्तु तदा तेन निर्जितो भीमकर्मणा ।संयुगे वालिपुत्रेण क्रोधं चक्रे सुदारुणम् ।। ६.४४.३३ ।।।। ॥६-४४-३३॥
एतस्मिन्नन्तरे रामो वानरान् वाक्यमब्रवीत् ।। ६.४४.३४ ।।।। ॥६-४४-३४॥
सर्वे भवन्तस्तिष्ठन्तु कपिराजेन सङ्गताः ।। ६.४४.३५ ।।।। ॥६-४४-३५॥
स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् ।भवतामर्थसिद्ध्यर्थं कालेन स समागतः ।अद्यैव क्षमितव्यं मे भवन्तो विगतज्वराः ।। ६.४४.३६ ।।।। ॥६-४४-३६॥
सो ऽन्तर्धानगतः पापो रावणी रणकर्कशः ।अदृश्यो निशितान् बाणान् मुमोचाशनिवर्चसः ।। ६.४४.३७ ।।।। ॥६-४४-३७॥
स रामं लक्ष्मणं चैव घोरैर्नागमयैः शरैः ।बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः ।। ६.४४.३८ ।।।। ॥६-४४-३८॥
मायया संवृतस्तत्र मोहयन् राघवौ युधि ।अदृश्यः सर्वभूतानां कूटयोधी निशाचरः ।बबन्ध शरबन्धेन भ्रातरौ रामलक्ष्मणौ ।। ६.४४.३९ ।।।। ॥६-४४-३९॥
तौ तेन पुरुषव्याघ्रौ क्रुद्धेनाशीविषैः शरैः ।सहसा निहतौ वीरौ तदा प्रैक्षन्त वानराः ।। ६.४४.४० ।।।। ॥६-४४-४०॥
प्रकाशरूपस्तु यदा न शक्तस्तौ बाधितुं राक्षसराजपुत्रः ।मायां प्रयोक्तुं समुपाजगाम बबन्ध तौ राजसुतौ महात्मा ॥६-४४-४१॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 43
- Next: Yuddha-Kāṇḍa Sarga 45 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷