🪷 युद्धकाण्ड · Sarga 43
Yuddha-Kāṇḍa · The Book of War · Sarga 43 · 45 ślokas
🪷 Devanāgarī Ślokas
युद्ध्यातां तु ततस्तेषां वानराणां महात्मनाम् ।रक्षसां सम्बभूवाथ बलकोपः सुदारुणः ।। ६.४३.१ ।।।। ॥६-४३-१॥
ते हयैः काञ्चनापीडैर्ध्वजैश्चाग्निशिखोपमैः ।रथैश्चादित्यसङ्काशैः कवचैश्च मनोरमैः ।। ६.४३.२ ।।।। ॥६-४३-२॥
निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश ।राक्षसा भीमकर्माणो रावणस्य जयैषिणः ।। ६.४३.३ ।।।। ॥६-४३-३॥
वानराणामपि चमूर्बृहती जयमिच्छताम् ।अभ्यधावत तां सेनां रक्षसां कामरूपिणाम् ।। ६.४३.४ ।।।। ॥६-४३-४॥
एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम् ।रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत ।। ६.४३.५ ।।।। ॥६-४३-५॥
अङ्गदेनेन्द्रजित् सार्धं वालिपुत्रेण राक्षसः ।अयुध्यत महातेजास्त्र्यम्बकेण यथा ऽन्तकः ।। ६.४३.६ ।।।। ॥६-४३-६॥
प्रजङ्घेन च सम्पातिर्नित्यं दुर्मर्षणो रणे ।जम्बुमालिनमारब्धो हनुमानपि वानरः ।। ६.४३.७ ।।।। ॥६-४३-७॥
सङ्गतः सुमहाक्रोधो राक्षसो रावणानुजः ।समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः ।। ६.४३.८ ।।।। ॥६-४३-८॥
तपनेन गजः सार्धं राक्षसेन महाबलः ।निकुम्भेन महातेजा नीलो ऽपि समयुद्ध्यत ।। ६.४३.९ ।।।। ॥६-४३-९॥
वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः ।सङ्गतः समरे श्रीमान् विरूपाक्षेण लक्ष्मणः ।। ६.४३.१० ।।।। ॥६-४३-१०॥
आग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ।सुप्तघ्नो यज्ञकोपश्च रामेण सह सङ्गताः ।। ६.४३.११ ।।।। ॥६-४३-११॥
वज्रमुष्टिस्तु मैन्देन द्विविदानशनिप्रभः ।राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ ।। ६.४३.१२ ।।।। ॥६-४३-१२॥
वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः ।समरे तीक्ष्णवेगेन नलेन समयुद्ध्यत ।। ६.४३.१३ ।।।। ॥६-४३-१३॥
धर्मस्य पुत्रो बलवान् सुषेण इति विश्रुतः ।स विद्युन्मालिना सार्धमयुध्यत महाकपिः ।। ६.४३.१४ ।।।। ॥६-४३-१४॥
वानराश्चापरे भीमा राक्षसैरपरैः सह ।द्वन्द्वं समीयुर्बहुधा युद्धाय बहुभिः सह ।। ६.४३.१५ ।।।। ॥६-४३-१५॥
तत्रासीत् सुमहद्युद्धं तुमुलं रोमहर्षणम् ।रक्षसां वानराणां च वीराणां जयमिच्छताम् ।। ६.४३.१६ ।।।। ॥६-४३-१६॥
हरिराक्षसदेहेभ्यः प्रभृताः केशशाद्वलाः ।शरीरसङ्घाटवहाः प्रसस्रुः शोणितापगाः ।। ६.४३.१७ ।।।। ॥६-४३-१७॥
आजघानेन्द्रजित् क्रुद्धो वज्रेणेव शतक्रतुः ।अङ्गदं गदया वीरं शत्रुसैन्यविदारणम् ।। ६.४३.१८ ।।।। ॥६-४३-१८॥
तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम् ।जघान समरे श्रीमानङ्गदो वेगवान् कपिः ।। ६.४३.१९ ।।।। ॥६-४३-१९॥
सम्पातिस्तु त्रिभिर्बाणैः प्रजङ्घेन समाहतः ।निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि ।। ६.४३.२० ।।।। ॥६-४३-२०॥
जम्बुमाली रथस्थस्तु रथशक्त्या महाबलः ।बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे ।। ६.४३.२१ ।।।। ॥६-४३-२१॥
तस्य तं रथमास्थाय हनूमान् मारुतत्मजः ।प्रममाथ तलेनाशु सह तेनैव रक्षसा ।। ६.४३.२२ ।।।। ॥६-४३-२२॥
नदन् प्रतपनो घोरो नलं सो ऽप्यन्वधावत ।। ६.४३.२३ ।।।। ॥६-४३-२३॥
नलः प्रतपनस्याशु पातयामास चक्षुषी ।भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा ।। ६.४३.२४ ।।।। ॥६-४३-२४॥
ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः ।सुग्रीवः सप्तपर्णेन निर्बिभेद जघान च ।। ६.४३.२५ ।।।। ॥६-४३-२५॥
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ।सुप्तघ्नो यज्ञकोपश्च रामं निर्बिभिदुः शरैः ।। ६.४३.२६ ।।।। ॥६-४३-२६॥
तेषां चतुर्णां रामस्तु शिरांसि निशितैः शरै ।क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरग्निशिखोपमैः ।। ६.४३.२७ ।।।। ॥६-४३-२७॥
वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे ।पपात सरथः साश्वः पुराट्ट इव भूतले ।। ६.४३.२८ ।।।। ॥६-४३-२८॥
निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम् ।निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान् ।। ६.४३.२९ ।।।। ॥६-४३-२९॥
पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः ।बिभेद समरे नीलं निकुम्भः प्रजहास च ।। ६.४३.३० ।।।। ॥६-४३-३०॥
तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे ।शिरश्चिच्छेद समरे निकुम्भस्य च सारथेः ।। ६.४३.३१ ।।।। ॥६-४३-३१॥
वज्राशनिसमस्पर्शो द्विविदो ऽप्यशनिप्रभम् ।जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम् ।। ६.४३.३२ ।।।। ॥६-४३-३२॥
द्विविदं वानरेन्द्रं तु नगयोधिनमाहवे ।शरैरशनि सङ्काशैः स विव्याधाशनिप्रभः ।। ६.४३.३३ ।।।। ॥६-४३-३३॥
स शरैरतिविद्धाङ्गो द्विविदः क्रोधमूर्च्छितः ।सालेन सरथं साश्वं निजघानाशनिप्रभम् ।। ६.४३.३४ ।।।। ॥६-४३-३४॥
विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः ।सुषेणं ताडयामास ननाद च मुहुर्मुहुः ।। ६.४३.३५ ।।।। ॥६-४३-३५॥
तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः ।गिरिशृङ्गेण महता रथमाशु न्यपातयत् ।। ६.४३.३६ ।।।। ॥६-४३-३६॥
लाघवेन तु संयुक्तो विद्युन्माली निशाचरः ।अपक्रम्य रथात्तूर्णं गदापाणिः क्षितौ स्थितः ।। ६.४३.३७ ।।।। ॥६-४३-३७॥
ततः क्रोधसमाविष्टः सुषेणो हरिपुङ्गवः ।शिलां सुमहतीं गृह्य निशाचरमभिद्रवत् ।। ६.४३.३८ ।।।। ॥६-४३-३८॥
तमापतन्तं गदया विद्युन्माली निशाचरः ।वक्षस्यभिजघानाशु सुषेणं हरिसत्तमम् ।। ६.४३.३९ ।।।। ॥६-४३-३९॥
गदाप्रहारं तं घोरमचिन्त्य प्लवगोत्तमः ।तां शिलां पातयामास तस्योरसि महामृधे ।। ६.४३.४० ।।।। ॥६-४३-४०॥
शिलाप्रहाराभिहतो विद्युन्माली निशाचरः ।निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह ।। ६.४३.४१ ।।।। ॥६-४३-४१॥
एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराः ।द्वन्द्वे विमृदितास्तत्र दैत्या इव दिवौकसैः ।। ६.४३.४२ ।।।। ॥६-४३-४२॥
निहतैः कुञ्जरैर्मत्तैस्तथा वानरराक्षसैः ।चक्राक्षयुगदण्डैश्च भग्नैर्धरणिसंश्रितैः ।बभूवायोधनं घोरं गोमायुगणसङ्कुलम् ।। ६.४३.४३ ।।।। ॥६-४३-४३॥
कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम् ।विमर्दे तुमुले तस्मिन् देवासुररणोपमे ।। ६.४३.४४ ।।।। ॥६-४३-४४॥
विदार्यमाणा हरिपुङ्गवैस्तदा निशाचराः शोणितदिग्धगात्राः ।पुनः सुयुद्धं तरसा समास्थिता दिवाकरस्यास्तमयाभिकाङ्क्षिणः ॥६-४३-४५॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 42
- Next: Yuddha-Kāṇḍa Sarga 44 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷