🪷 युद्धकाण्ड · Sarga 42
Yuddha-Kāṇḍa · The Book of War · Sarga 42 · 47 ślokas
🪷 Devanāgarī Ślokas
ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् ।न्यवेदयन् पुरीं रुद्धां रामेण सह वानरैः ।। ६.४२.१ ।।।। ॥६-४२-१॥
रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः ।विधानं द्विगुणं कृत्वा प्रासादं सो ऽध्यरोहत ।। ६.४२.२ ।।।। ॥६-४२-२॥
स ददर्शावृतां लङ्कां सशैलवनकाननाम् ।असङ्ख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः ।। ६.४२.३ ।।।। ॥६-४२-३॥
स दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम् ।कथं क्षपयितव्याः स्युरिति चिन्तापरो ऽभवत् ।। ६.४२.४ ।।।। ॥६-४२-४॥
स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः ।राघवं हरियूथांश्च ददर्शायतलोचनः ।। ६.४२.५ ।।।। ॥६-४२-५॥
राघवः सह सैन्येन मुदितो नाम पुप्लुवे ।लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसैर्वृताम् ।। ६.४२.६ ।।।। ॥६-४२-६॥
दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् ।जगाम सहसा सीतां दूयमानेन चेतसा ।। ६.४२.७ ।।।। ॥६-४२-७॥
अत्र सा मृगशावाक्षी मत्कृते जनकात्मजा ।पीड्यते शोकसन्तप्ता कृशा स्थण्डिलशायिनी ।। ६.४२.८ ।।।। ॥६-४२-८॥
पीड्यमानां स धर्मात्मा वैदेहीमनुचिन्तयन् ।क्षिप्रमाज्ञापयामास वानरान् द्विषतां वधे ।। ६.४२.९ ।।।। ॥६-४२-९॥
एवमुक्ते तु वचने रामेणाक्लिष्टकर्मणा ।सङ्घर्षमाणाः प्लवगाः सिंहनादैरनादयन् ।। ६.४२.१० ।।।। ॥६-४२-१०॥
शिखरैर्विकिरामैनां लङ्कां मुष्टिभिरेव वा ।इति स्म दधिरे सर्वे मनांसि हरियूथपाः ।। ६.४२.११ ।।।। ॥६-४२-११॥
उद्यम्य गिरिशृङ्गाणि शिखराणि महान्ति च ।तरूंश्चोत्पाट्य विविधांस्तिष्ठन्ति हरियूथपाः ।। ६.४२.१२ ।।।। ॥६-४२-१२॥
प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः ।राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा ।। ६.४२.१३ ।।।। ॥६-४२-१३॥
ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः ।लङ्कामेवाभ्यवर्तन्त सालतालशिलायुधाः ।। ६.४२.१४ ।।।। ॥६-४२-१४॥
ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमाः ।प्राकाराग्राण्यरण्यानि ममन्थुस्तोरणानि च ।। ६.४२.१५ ।।।। ॥६-४२-१५॥
परिखाः पूरयन्ति स्म प्रसन्नसलिलायुताः ।पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः ।। ६.४२.१६ ।।।। ॥६-४२-१६॥
ततः सहस्रयूथाश्च कोटीयूथाश्च वानराः ।कोटीशतयुताश्चान्ये लङ्कामारुरुहुस्तदा ।। ६.४२.१७ ।।।। ॥६-४२-१७॥
काञ्चनानि प्रमृद्नन्तस्तोरणानि प्लवङ्गमाः ।कैलासशिखराभाणि गोपुराणि प्रमथ्य च ।। ६.४२.१८ ।।।। ॥६-४२-१८॥
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ।लङ्कां तामभिधावन्ति महावारणसन्निभाः ।। ६.४२.१९ ।।।। ॥६-४२-१९॥
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।राजा जयति सुग्रीवो राघवेणाभिपालितः ।। ६.४२.२० ।।।। ॥६-४२-२०॥
इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवङ्गमाः ।अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः ।। ६.४२.२१ ।।।। ॥६-४२-२१॥
वीरबाहुः सुबाहुश्च नलश्च वनगोचरः ।निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः ।एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् ।। ६.४२.२२ ।।।। ॥६-४२-२२॥
पूर्वद्वारं तु कुमुदः कोटीभिर्दशभिर्वृतः ।आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः ।। ६.४२.२३ ।।।। ॥६-४२-२३॥
साहाय्यार्थं तु तस्यैव निविष्टः प्रघसो हरिः ।पनसश्च महाबाहुर्वानरैर्बहुभिर्वृतः ।। ६.४२.२४ ।।।। ॥६-४२-२४॥
दक्षिणं द्वारमागम्य वीरः शतवलिः कपिः ।आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः ।। ६.४२.२५ ।।।। ॥६-४२-२५॥
सुषेणः पश्चिमद्वारं गतस्तारापिता हरिः ।आवृत्य बलवांस्तस्थौ षष्टिकोटिभिरावृतः ।। ६.४२.२६ ।।।। ॥६-४२-२६॥
उत्तरं द्वारमासाद्य रामः सौमित्रिणा सह ।आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः ।। ६.४२.२७ ।।।। ॥६-४२-२७॥
गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनः ।वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ।। ६.४२.२८ ।।।। ॥६-४२-२८॥
ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः ।वृतः कोट्या महावीर्यस्तस्थो रामस्य पार्श्वतः ।। ६.४२.२९ ।।।। ॥६-४२-२९॥
सन्नद्धस्तु महावीर्यो गदापाणिर्विभीषणः ।वृतो यत्तैस्तु सचिवैस्तस्थौ तत्र महाबलः ।। ६.४२.३० ।।।। ॥६-४२-३०॥
गजो गवाक्षो गवयः शरभो गन्धमादनः ।समन्तात् परिधावन्तो ररक्षुर्हरिवाहिनीम् ।। ६.४२.३१ ।।।। ॥६-४२-३१॥
ततः कोपपरीतात्मा रावणो राक्षसेश्वरः ।निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत्तदा ।। ६.४२.३२ ।।।। ॥६-४२-३२॥
एतच्छुत्वा ततो वाक्यं रावणस्य मुखोद्गतम् ।सहसा भीमनिर्घोषमुद्घुष्टं रजनीचरैः ।। ६.४२.३३ ।।।। ॥६-४२-३३॥
ततः प्रचोदिता भेर्यश्चन्द्रपाण्डरपुष्कराः ।हेमकोणाहता भीमा राक्षसानां समन्ततः ।। ६.४२.३४ ।।।। ॥६-४२-३४॥
विनेदुश्च महाघोषाः शङ्खाः शतसहस्रशः ।राक्षसानां सुघोराणां मुखमारुतपूरिताः ।। ६.४२.३५ ।।।। ॥६-४२-३५॥
ते बभुः शुभनीलाङ्गाः सशङ्का रजनीचराः ।विद्युन्मण्डलसन्नद्धाः सबलाका इवाम्बुदाः ।। ६.४२.३६ ।।।। ॥६-४२-३६॥
निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः ।समये पूर्यमाणस्य वेगा इव महोदधेः ।। ६.४२.३७ ।।।। ॥६-४२-३७॥
ततो वानरसैन्येन मुक्तो नादः समन्ततः ।मलयः पूरितो येन स सानुप्रस्थकन्दरः ।। ६.४२.३८ ।।।। ॥६-४२-३८॥
शङ्खदुन्दुभिसङ्घुष्टः सिंहनादस्तरस्विनाम् ।पृथिवीं चान्तरिक्षं च सागरं चैव नादयन् ।। ६.४२.३९ ।।।। ॥६-४२-३९॥
गजानां बृंहितैः सार्धं हयानां हेषितैरपि ।रथानां नेमिघोषैश्च रक्षसां वदनस्वनः ।। ६.४२.४० ।।।। ॥६-४२-४०॥
एतस्मिन्नन्तरे घोरः सङ्ग्रामः समवर्तत ।रक्षसां वानराणां च यथा देवासुरे पुरा ।। ६.४२.४१ ।।।। ॥६-४२-४१॥
ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः ।निजघ्नुर्वानरान् घोराः कथयन्तः स्वविक्रमान् ।। ६.४२.४२ ।।।। ॥६-४२-४२॥
राजा जयति सुग्रीव इति शब्दो महानभूत् ।। ६.४२.४३ ।।।। ॥६-४२-४३॥
राजन् जय जयेत्युक्त्वा स्वस्वनामकथान्ततः ।तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः ।निजघ्नुस्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः ।। ६.४२.४४ ।।।। ॥६-४२-४४॥
राक्षसास्त्वपरे भीमाः प्राकारस्था महीगतान् ।भिन्दिपालैश्च खड्गैश्च शूलैश्चैव व्यदारयन् ।। ६.४२.४५ ।।।। ॥६-४२-४५॥
वानराश्चापि सङ्क्रुद्धाः प्राकारस्थान् महीगताः ।राक्षसान् पातयामासुः समाप्लुत्य प्लवङ्गमाः ।। ६.४२.४६ ।।।। ॥६-४२-४६॥
स सम्प्रहारस्तुमुलो मांसशोणितकर्दमः ।रक्षसां वानराणां च सम्बभूवाद्भुतोपमः ॥६-४२-४७॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 41
- Next: Yuddha-Kāṇḍa Sarga 43 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷