🪷 युद्धकाण्ड · Sarga 41

Yuddha-Kāṇḍa · The Book of War · Sarga 41 · 99 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.41.1
अथ तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः ।सुग्रीवं सम्परिष्वज्य तदा वचनमब्रवीत् ।। ६.४१.१ ।।।। ॥६-४१-१॥
Vālmīki 6.41.2
असम्मन्त्र्य मया सार्द्धं तदिदं साहसं कृतम् ।एवं साहसकर्माणि न कुर्वन्ति जनेश्वराः ।। ६.४१.२ ।।।। ॥६-४१-२॥
Vālmīki 6.41.3
संशये स्थाप्य मां चेदं बलं च सविभीषणम् ।कष्टं कृतमिदं वीर साहसं साहसप्रिय ।। ६.४१.३ ।।।। ॥६-४१-३॥
Vālmīki 6.41.4
इदानीं मा कृथा वीर एवंविधमचिन्तितम् ।त्वयि किञ्चित् समापन्ने किं कार्यं सीतया मम ।। ६.४१.४ ।।।। ॥६-४१-४॥
Vālmīki 6.41.5
भरतेन महाबाहो लक्ष्मणेन यवीयसा ।शत्रुघ्नेन च शत्रुघ्न स्वशरीरेण वा पुनः ।। ६.४१.५ ।।पुनःपुनः ।।।। ॥६-४१-५॥
Vālmīki 6.41.6
त्वयि चानागते पूर्वमिति मे निश्चिता मतिः ।जानतश्चापि ते वीर्यं महेन्द्रवरुणोपम ।। ६.४१.६ ।।।। ॥६-४१-६॥
Vālmīki 6.41.7
हत्वा ऽहं रावणं युद्धे सपुत्रबलवाहनम् ।अभिषिच्य च लङ्कायां विभीषणमथापि च ।भरते राज्यमावेश्य त्यक्ष्ये देहं महाबल ।। ६.४१.७ ।।।। ॥६-४१-७॥
Vālmīki 6.41.8
तमेवं वादिनं रामं सुग्रीवः प्रत्यभाषत ।। ६.४१.८ ।।।। ॥६-४१-८॥
Vālmīki 6.41.9
तव भार्यापहर्तारं दृष्ट्वा राघव रावणम् ।मर्षयामि कथं वीर जानन् पौरुषमात्मनः ।। ६.४१.९ ।।।। ॥६-४१-९॥
Vālmīki 6.41.10
इत्येवं वादिनं वीरमभिनन्द्य स राघवः ।लक्ष्मणं लक्ष्मिसम्पन्नमिदं वचनमब्रवीत् ।। ६.४१.१० ।।।। ॥६-४१-१०॥
Vālmīki 6.41.11
परिगृह्योदकं शीतं वनानि फलवन्ति च ।बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण ।। ६.४१.११ ।।।। ॥६-४१-११॥
Vālmīki 6.41.12
लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् ।निबर्हणं प्रवीराणामृक्षवानररक्षसाम् ।। ६.४१.१२ ।।।। ॥६-४१-१२॥
Vālmīki 6.41.13
वाताश्च परुषा वान्ति कम्पते च वसुन्धरा ।पर्वताग्राणि वेपन्ते पतन्ति धरणीरुहाः ।। ६.४१.१३ ।।।। ॥६-४१-१३॥
Vālmīki 6.41.14
मेघाः क्रव्यादसङ्काशाः परुषाः परुषस्वनाः ।क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः ।। ६.४१.१४ ।।।। ॥६-४१-१४॥
Vālmīki 6.41.15
रक्तचन्दनसङ्काशा सन्ध्या परमदारुणा ।ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम् ।। ६.४१.१५ ।।।। ॥६-४१-१५॥
Vālmīki 6.41.16
आदित्यमभिवाश्यन्ति जनयन्तो महद्भयम् ।दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः ।। ६.४१.१६ ।।।। ॥६-४१-१६॥
Vālmīki 6.41.17
रजन्यामप्रकाशश्च सन्तापयति चन्द्रमाः ।कृष्णरक्तान्तपर्यन्तो यथा लोकस्य सङ्क्षये ।। ६.४१.१७ ।।।। ॥६-४१-१७॥
Vālmīki 6.41.18
ह्रस्वो रूक्षो ऽप्रशस्तश्च परिवेषः सुलोहितः ।। ६.४१.१८ ।।।। ॥६-४१-१८॥
Vālmīki 6.41.19
आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते ।दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते ।युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति ।। ६.४१.१९ ।।।। ॥६-४१-१९॥
Vālmīki 6.41.20
काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च ।शिवाश्चाप्यशिवा वाचः प्रवदन्ति महास्वनाः ।। ६.४१.२० ।।।। ॥६-४१-२०॥
Vālmīki 6.41.21
क्षिप्रमद्य दुराधर्षां लङ्कां रावणपालिताम् ।अभियाम जवेनैव सर्वतो हरिभिर्वृताः ।। ६.४१.२१ ।।।। ॥६-४१-२१॥
Vālmīki 6.41.22
इत्येवं संवदन् वीरो लक्ष्मणं लक्ष्मणाग्रजः ।तस्मादवातरच्छीव्रं पर्वताग्रान्महाबलः ।। ६.४१.२२ ।।।। ॥६-४१-२२॥
Vālmīki 6.41.23
अवतीर्यं च धर्मात्मा तस्माच्छैलात् स राघवः ।परैः परमदुर्धर्षं ददर्श बलमात्मनः ।। ६.४१.२३ ।।।। ॥६-४१-२३॥
Vālmīki 6.41.24
सन्नह्य तु ससुग्रीवः कपिराजबलं महत् ।कालज्ञो राघवः काले संयुगायाभ्यचोदयत् ।। ६.४१.२४ ।।।। ॥६-४१-२४॥
Vālmīki 6.41.25
ततः काले महाबाहुर्बलेन महतावृतः ।प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम् ।। ६.४१.२५ ।।।। ॥६-४१-२५॥
Vālmīki 6.41.26
तं विभीषणसुग्रीवौ हनुमान् जाम्बवान्नलः ।ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्वयुस्तदा ।। ६.४१.२६ ।।।। ॥६-४१-२६॥
Vālmīki 6.41.27
ततः पश्चात् सुमहती पृतनर्क्षवनौकसाम् ।प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम् ।। ६.४१.२७ ।।।। ॥६-४१-२७॥
Vālmīki 6.41.28
शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् ।जगृहुः कुञ्जरप्रख्या वानराः परवारणाः ।। ६.४१.२८ ।।।। ॥६-४१-२८॥
Vālmīki 6.41.29
तौ तु दीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ ।रावणस्य पुरीं लङ्कामासेदतुररिन्दमौ ।। ६.४१.२९ ।।।। ॥६-४१-२९॥
Vālmīki 6.41.30
पताकमालिनीं रम्यामुद्यानवनशोभिताम् ।चित्रवप्रां सुदुष्प्रापामुच्चैः प्राकारतोरणाम् ।। ६.४१.३० ।।।। ॥६-४१-३०॥
Vālmīki 6.41.31
तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः ।यथानिवेशं सम्पीड्य न्यविशन्त वनौकसः ।। ६.४१.३१ ।।।। ॥६-४१-३१॥
Vālmīki 6.41.32
लङ्कायास्तूत्तरद्वारं शलशृङ्गमिवोन्नतम् ।रामः सहानुजो धन्वी जुगोप च रुरोध च ।। ६.४१.३२ ।।।। ॥६-४१-३२॥
Vālmīki 6.41.33
लङ्कामुपनिविष्टश्च रामो दशरथात्मजः ।लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम् ।उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः ।। ६.४१.३३ ।।।। ॥६-४१-३३॥
Vālmīki 6.41.34
नान्यो रामाद्धि तद्द्वारं समर्थः परिरक्षितुम् ।रावणाधिष्ठितं भीमं वरुणेनेव सागरम् ।। ६.४१.३४ ।।।। ॥६-४१-३४॥
Vālmīki 6.41.35
सायुधै राक्षसैर्भीमैरभिगुप्तं समन्ततः ।लघूनां त्रासजननं पातालमिव दानवैः ।। ६.४१.३५ ।।।। ॥६-४१-३५॥
Vālmīki 6.41.36
विन्यस्तानि च योधानां बहूनि विविधानि च ।ददर्शायुधजालानि तत्रैव कवचानि च ।। ६.४१.३६ ।।।। ॥६-४१-३६॥
Vālmīki 6.41.37
पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः ।अतिष्ठत् सह मैन्देन द्विविदेन च वीर्यवान् ।। ६.४१.३७ ।।।। ॥६-४१-३७॥
Vālmīki 6.41.38
अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः ।ऋषभेण गवाक्षेण गजेन गवयेन च ।। ६.४१.३८ ।।।। ॥६-४१-३८॥
Vālmīki 6.41.39
हनुमान् पश्चिमद्वारं ररक्ष बलवान् कपिः ।प्रमाथिप्रघसाभ्यां च वीरैरन्यैश्च सङ्गतः ।। ६.४१.३९ ।।।। ॥६-४१-३९॥
Vālmīki 6.41.40
मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत ।सह सर्वैहरिश्रेष्ठैः सुपर्णश्वसनोपमैः ।। ६.४१.४० ।।।। ॥६-४१-४०॥
Vālmīki 6.41.41
वानाराणां तु षट्त्रिंशत् कोट्यः प्रख्यातयूथपाः ।निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः ।। ६.४१.४१ ।।।। ॥६-४१-४१॥
Vālmīki 6.41.42
शासनेन तु रामस्य लक्ष्मणः सविभीषणः ।द्वारे द्वारे हरीणां तु कोटिं कोटिं न्यवेशयत् ।। ६.४१.४२ ।।।। ॥६-४१-४२॥
Vālmīki 6.41.43
पश्चिमेन तु रामस्य सुग्रीवः सहजाम्बवान् ।अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः ।। ६.४१.४३ ।।।। ॥६-४१-४३॥
Vālmīki 6.41.44
ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः ।गृहीत्वा द्रुमशैलाग्रान् हृष्टा युद्धाय तस्थिरे ।। ६.४१.४४ ।।।। ॥६-४१-४४॥
Vālmīki 6.41.45
सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः ।सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः ।। ६.४१.४५ ।।।। ॥६-४१-४५॥
Vālmīki 6.41.46
दशनागबलाः केचित् केचिद्दशगुणोत्तराः ।केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ।। ६.४१.४६ ।।।। ॥६-४१-४६॥
Vālmīki 6.41.47
सन्ति चौघबलाः केचित् केचिच्छतगुणोत्तराः ।अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः ।। ६.४१.४७ ।।।। ॥६-४१-४७॥
Vālmīki 6.41.48
अद्भुतश्च विचित्रश्च तेषामासीत् समागमः ।तत्र वानरसैन्यानां शलभानामिवोद्यमः ।। ६.४१.४८ ।।।। ॥६-४१-४८॥
Vālmīki 6.41.49
परिपूर्णमिवाकाशं सञ्छन्नेव च मेदिनी ।लङ्कामुपनिविष्टैश्च सम्पतद्भिश्च वानरैः ।। ६.४१.४९ ।।।। ॥६-४१-४९॥
Vālmīki 6.41.50
शतं शतसहस्राणां पृथगृक्षवनौकसाम् ।लङ्काद्वाराण्युपाजग्मुरन्ये योद्धुं समन्ततः ।। ६.४१.५० ।।।। ॥६-४१-५०॥
Vālmīki 6.41.51
आवृतः स गिरिः सर्वैस्तैः समन्तात् प्लवङ्गमैः ।। ६.४१.५१ ।।।। ॥६-४१-५१॥
Vālmīki 6.41.52
अयुतानां सहस्रं च पुरीं तामभ्यवर्तत ।। ६.४१.५२ ।।।। ॥६-४१-५२॥
Vālmīki 6.41.53
वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः ।संवृता सर्वतो लङ्का दुष्प्रवेशापि वायुना ।। ६.४१.५३ ।।।। ॥६-४१-५३॥
Vālmīki 6.41.54
राक्षसा विस्मयं जग्मुः सहसा ऽभिनिपीडिताः ।वानरैर्मेघसङ्काशैः शक्रतुल्यपराक्रमैः ।। ६.४१.५४ ।।।। ॥६-४१-५४॥
Vālmīki 6.41.55
महान् शब्दो ऽभवत्तत्र बलौघस्याभिवर्ततः ।सागरस्येव भिन्नस्य यथा स्यात् सलिलस्वनः ।। ६.४१.५५ ।।।। ॥६-४१-५५॥
Vālmīki 6.41.56
तेन शब्देन महता सप्राकारा सतोरणा ।लङ्का प्रचलिता सर्वा सशैलवनकानना ।। ६.४१.५६ ।।।। ॥६-४१-५६॥
Vālmīki 6.41.57
रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी ।बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ।। ६.४१.५७ ।।।। ॥६-४१-५७॥
Vālmīki 6.41.58
राघवः सन्निवेश्यैव सैन्यं स्वं रक्षसां वधे ।सम्मन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनःपुनः ।आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित् ।। ६.४१.५८ ।।।। ॥६-४१-५८॥
Vālmīki 6.41.59
विभीषणस्यानुमते राजधर्मनुस्मरन् ।अङ्गदं वालितनयं समाहूयेदमब्रवीत् ॥६-४१-५९॥
Vālmīki 6.41.60
त्य च पुनःपुनः ।गत्वा सोम्य दशग्रीवं ब्रुहि मद्वचनात् कपे ।लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः ।। ६.४१.६० ।।।। ॥६-४१-६०॥
Vālmīki 6.41.61
भ्रष्टश्रीकगतैश्वर्य मुमूर्षो नष्टचेतन ।ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा ।। ६.४१.६१ ।।।। ॥६-४१-६१॥
Vālmīki 6.41.62
नागानामथ यक्षाणां राज्ञां च रजनीचर ।यच्च पापं कृतं मोहादवलिप्तेन राक्षस ।। ६.४१.६२ ।।।। ॥६-४१-६२॥
Vālmīki 6.41.63
नूनमद्य गतो दर्पः स्वयम्भूवरदानजः ।यस्य दण्डधरस्ते ऽहं दाराहरणकर्शितः ।दण्डं धारयमाणस्तु लङ्काद्वारे व्यवस्थितः ।। ६.४१.६३ ।।।। ॥६-४१-६३॥
Vālmīki 6.41.64
पदवीं देवतानां च महर्षीणां च राक्षस ।राजर्षीणां च सर्वेषां गमिष्यसि मया हतः ।। ६.४१.६४ ।।।। ॥६-४१-६४॥
Vālmīki 6.41.65
बलेन येन वै सीतां मायया राक्षसाधम ।मामतिक्रामयित्वा त्वं हृतवांस्तन्निदर्शय ।। ६.४१.६५ ।।।। ॥६-४१-६५॥
Vālmīki 6.41.66
अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः ।न चेच्छरणमभ्येषि मामुपादाय मैथिलीम् ।। ६.४१.६६ ।।।। ॥६-४१-६६॥
Vālmīki 6.41.67
धर्मात्मा रक्षसां श्रेष्ठः सम्प्राप्तो ऽयं विभीषणः ।लङ्कैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम् ।। ६.४१.६७ ।।।। ॥६-४१-६७॥
Vālmīki 6.41.68
न हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया ।शक्यं मूर्खसहायेन पापेनाविदितात्मना ।। ६.४१.६८ ।।।। ॥६-४१-६८॥
Vālmīki 6.41.69
युद्ध्यस्व वा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस ।मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि ।। ६.४१.६९ ।।।। ॥६-४१-६९॥
Vālmīki 6.41.70
यद्वा विशसि लोकांस्त्रीन् पक्षिभूतो मनोजवः ।मम चक्षुष्पथं प्राप्य न जीवन् प्रतियास्यसि ।। ६.४१.७० ।।।। ॥६-४१-७०॥
Vālmīki 6.41.71
ब्रवीमि त्वां हितं वाक्यं क्रियतामौर्ध्वदैहिकम् ।सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम् ।। ६.४१.७१ ।।।। ॥६-४१-७१॥
Vālmīki 6.41.72
इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा ।जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट् ।। ६.४१.७२ ।।।। ॥६-४१-७२॥
Vālmīki 6.41.73
सो ऽतिपत्य मुहूर्तेन श्रीमान्रावणमन्दिरम् ।ददर्शासीनमव्यग्रं रावणं सचिवैः सह ।। ६.४१.७३ ।।।। ॥६-४१-७३॥
Vālmīki 6.41.74
ततस्तस्याविदूरे स निपत्य हरिपुङ्गवः ।दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः ।। ६.४१.७४ ।।।। ॥६-४१-७४॥
Vālmīki 6.41.75
तद्रामवचनं सर्वमन्यूनाधिकमुत्तमम् ।सामात्यं श्रावयामास निवेद्यात्मानमात्मना ।। ६.४१.७५ ।।।। ॥६-४१-७५॥
Vālmīki 6.41.76
दूतो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।वालिपुत्रो ऽङ्गदो नाम यदि ते श्रोत्रमागतः ।। ६.४१.७६ ।।।। ॥६-४१-७६॥
Vālmīki 6.41.77
आह त्वां राघवो रामः कौसल्यानन्दवर्धनः ।निष्पत्य प्रतियुद्ध्यस्व नृशंस पुरुषो भव ।। ६.४१.७७ ।।।। ॥६-४१-७७॥
Vālmīki 6.41.78
हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम् ।निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि ।। ६.४१.७८ ।।।। ॥६-४१-७८॥
Vālmīki 6.41.79
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम् ।। ६.४१.७९ ।।।। ॥६-४१-७९॥
Vālmīki 6.41.80
विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि ।न चेत् सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि ।। ६.४१.८० ।।।। ॥६-४१-८०॥
Vālmīki 6.41.81
इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुङ्गवे ।अमर्षवशमापन्नो निशाचरगणेश्वरः ।। ६.४१.८१ ।।।। ॥६-४१-८१॥
Vālmīki 6.41.82
ततः स रोषताम्राक्षः शशास सचिवांस्तदा ।गृह्यतामेष दुर्मेधा वध्यतामिति चासकृत् ।। ६.४१.८२ ।।।। ॥६-४१-८२॥
Vālmīki 6.41.83
रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसः ।जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः ।। ६.४१.८३ ।।।। ॥६-४१-८३॥
Vālmīki 6.41.84
ग्राहयामास तारेयः स्वयमात्मानमात्मवान् ।बलं दर्शयितुं वीरो यातुधानगणे तदा ।। ६.४१.८४ ।।।। ॥६-४१-८४॥
Vālmīki 6.41.85
स तान् बाहुद्वये सक्तानादाय पतगानिव ।प्रासादं शैलसङ्कासमुत्पपाताङ्गदस्तदा ।। ६.४१.८५ ।।।। ॥६-४१-८५॥
Vālmīki 6.41.86
ते ऽन्तरिक्षाद्विनिर्धूतास्तस्य वेगेन राक्षसाः ।भूमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः ।। ६.४१.८६ ।।।। ॥६-४१-८६॥
Vālmīki 6.41.87
ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम् ।ददर्श राक्षसेन्द्रस्य वालिपुत्रः प्रतापवान् ।। ६.४१.८७ ।।।। ॥६-४१-८७॥
Vālmīki 6.41.88
तत्पफाल पदाक्रान्तं दशग्रीवस्य पश्यतः ।पुरा हिमवतः शृङ्गं वज्रिणेव विदारितम् ।। ६.४१.८८ ।।।। ॥६-४१-८८॥
Vālmīki 6.41.89
भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः ।विनद्य सुमहानादमुत्पपात विहायसम् ।। ६.४१.८९ ।।।। ॥६-४१-८९॥
Vālmīki 6.41.90
व्यथयन् राक्षसान् सर्वान् हर्षयंश्चापि वानरान् ।स वानराणां मध्ये तु रामपार्श्वमुपागतः ।। ६.४१.९० ।।।। ॥६-४१-९०॥
Vālmīki 6.41.91
रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात् ।विनाशं चात्मनः पश्यन्निश्वासपरमो ऽभवत् ।। ६.४१.९१ ।।।। ॥६-४१-९१॥
Vālmīki 6.41.92
रामस्तु बहुभिर्हृष्टैर्निनदद्भिः प्लवङ्गमैः ।वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत ।। ६.४१.९२ ।।।। ॥६-४१-९२॥
Vālmīki 6.41.93
सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः ।बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः ।। ६.४१.९३ ।।।। ॥६-४१-९३॥
Vālmīki 6.41.94
चतुर्द्वाराणि सर्वाणि सुग्रीववचनात् कपिः ।पर्यक्रामत दुर्धर्षो नक्षत्राणीव चन्द्रमाः ।। ६.४१.९४ ।।।। ॥६-४१-९४॥
Vālmīki 6.41.95
तेषामक्षौहिणिशतं समवेक्ष्य वनौकसाम् ।लङ्कामुपनिविष्टानां सागरं चाभिवर्तताम् ।। ६.४१.९५ ।।।। ॥६-४१-९५॥
Vālmīki 6.41.96
राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथा ऽपरे ।अपरे समरोद्धर्षाद्धर्षमेव प्रपेदिरे ।। ६.४१.९६ ।।।। ॥६-४१-९६॥
Vālmīki 6.41.97
कृत्स्नं हि कपिभिर्व्याप्तं प्राकारपरिखान्तरम् ।ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम् ।। ६.४१.९७ ।।।। ॥६-४१-९७॥
Vālmīki 6.41.98
हाहाकारं प्रकुर्वन्ति राक्षसा भयमोहिताः ।। ६.४१.९८ ।।।। ॥६-४१-९८॥
Vālmīki 6.41.99
तस्मिन् महाभीषणके प्रवृत्ते कोलाहले राक्षसराजधान्याम् ।प्रगृह्य रक्षांसि महायुधानि युगान्तवाता इव संविचेरुः ॥६-४१-९९॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷