🪷 युद्धकाण्ड · Sarga 40

Yuddha-Kāṇḍa · The Book of War · Sarga 40 · 30 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.40.1
ततो रामः सुवेलाग्रं योजनद्वयमण्डलम् ।उपारोहत्ससुग्रीवो हरियूथैः समन्वितः ॥६-४०-१॥
Vālmīki 6.40.2
स्थित्वा मुहूर्तं तत्रैव दिशो दश विलोकयन् ।त्रिख़ूटशिखरे रम्ये निर्मितां विश्वकर्मणा ॥६-४०-२॥
Vālmīki 6.40.3
ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम् ।तस्यां गोपुरशृङ्गस्थं राक्षसेन्द्रं दुरासदम् ॥६-४०-३॥
Vālmīki 6.40.4
श्वेतचामरपर्यन्तं विजयच्चत्रशोभितम् ।रक्तचन्दनसंलिप्तं रक्ताभरणभूषितम् ॥६-४०-४॥
Vālmīki 6.40.5
वीलजीमूतसंकाशं हेमसंचादिताम्बरम् ।ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम् ॥६-४०-५॥
Vālmīki 6.40.6
शशलोहितरागेण सम्वीतं रक्तवाससा ।संध्यातपेन संचन्नं मेघराशिमिवाम्बरे ॥६-४०-६॥
Vālmīki 6.40.7
पश्यतां वानरेन्द्राणाम् राघवस्यापि पश्यतः ।दर्शनाद्राक्षसेन्द्रस्य सुग्रीवः सहसोत्थितः ॥६-४०-७॥
Vālmīki 6.40.8
क्रोधवेगेन सं युक्तः सत्त्वेन च बलेन च ।अचलाग्रादथोत्थाय पुप्लुवे गोपुरस्थले ॥६-४०-८॥
Vālmīki 6.40.9
स्थित्वा मुहूर्तं सम्प्रेक्ष्य निर्भयेनान्तरात्मना ।तृणीकृत्य च तद्रक्षः सोऽब्रवीत्परुषं वचः ॥६-४०-९॥
Vālmīki 6.40.10
लोकनाथस्य रामस्य सखा दासोऽस्मि राक्षस ।न मया मोक्यसे.द्य त्वं पार्थिवेन्द्रस्य तेजसा ॥६-४०-१०॥
Vālmīki 6.40.11
इत्युक्त्वा सहसोत्पत्य प्लुप्लुवे तस्य चोपरि ।आकृष्य मुकुटं चित्रं पातयामास तद्भुवि ॥६-४०-११॥
Vālmīki 6.40.12
समीक्स्य तूर्णमायान्तं बभाषे तं निशाचरः ।सुग्रीवस्त्वं परोक्षे मे हीनग्रीवो भविष्यसि ॥६-४०-१२॥
Vālmīki 6.40.13
इत्युक्त्वोत्थाय तं क्षिप्रं बाहुभ्यामाक्षिपत्तले ।कन्दुवत्स समुत्थाय बाहुभ्यामाक्षिपद्धरिः ॥६-४०-१३॥
Vālmīki 6.40.14
परस्परं स्वेदविदिग्धगात्रौ ।परस्परम् शोणितरक्तदेहौ ।परस्परं श्लिष्टनिरुद्धचेष्टौ ।परस्परं शाल्मलिकिंशुकाविव ॥६-४०-१४॥
Vālmīki 6.40.15
मुष्टिप्रहारैश्च तलप्रहारै ।ररत्निघातैश्च कराग्रघातैः ।तौ चक्रतुर्युद्धमसह्यरूपं ।महाबलौ राक्षसवानरेन्द्रौ ॥६-४०-१५॥
Vālmīki 6.40.16
कृत्वा नियुद्धं भृशमुग्रवेगौ ।कालं चिरं गोपुरवेदिमध्ये ।उत्क्षिप्य चोत्क्षिप्य विनम्य देहौ ।पादक्रमाद्गोपुरवेदिलग्नौ ॥६-४०-१६॥
Vālmīki 6.40.17
अन्योन्यमापीड्य विलग्नदेहौ ।तौ पेतुतुः पालनिखातमध्ये ।उत्पेततुर्भूमितलम् स्पृशन्तौ ।स्थित्वा मुहूर्तं त्वभिनिःश्वसन्तौ ॥६-४०-१७॥
Vālmīki 6.40.18
आलिङ्ग्य चालिङ्ग़्य च बाहुयोक्त्रैः ।संयोजयामासतुराहवे तौ ।सम्रम्भशिक्षाबलसम्प्रयुक्तौ ।सुचेरतुः सम्प्रति युद्धमार्गे ॥६-४०-१८॥
Vālmīki 6.40.19
शार्दूलसिंहविव जातदंष्ट्रौ ।गजेन्द्रपोताविव संप्रयुक्तौ ।संहत्य संवेद्य च तौ कराभ्यां ।तऊ पेतुतुर्वै युगपद्धरायाम् ॥६-४०-१९॥
Vālmīki 6.40.20
उद्यम्य चान्योन्यमधिक्षिपन्तौ ।संचक्रमाते बहु युद्धमार्गे ।व्यायामशिक्षाबलसंप्रयुक्तौ ।क्लमं न तौ जग्मतुराशु वीरौ ॥६-४०-२०॥
Vālmīki 6.40.21
बाहुत्तमैर्वारणवारणाभै ।र्निवारयन्तौ परवारणाभौ।चिरेण कालेन भृशं प्रयुद्धौ ।संचेरतुर्मण्डलमार्गमाशु ॥६-४०-२१॥
Vālmīki 6.40.22
तौ परस्पर मासाद्य यत्तावन्योन्यसूदने ।मार्जाराविव भक्षार्थेऽवतस्थाते मुहुर्मुहुः ॥६-४०-२२॥
Vālmīki 6.40.23
मण्डलानि विचित्राणि स्थानानि विविधानि च ।गोमूत्रकाणि चित्राणि गतप्रत्यागतानि च ॥६-४०-२३॥
Vālmīki 6.40.24
तीर्शीनगतान्येव तथा वक्रगतानि च ।परिमोक्षं प्रहाराणां वर्जनं परिधावनम् ॥६-४०-२४॥
Vālmīki 6.40.25
अभिद्रवणमाप्लावमवस्थानं सविग्रहम् ।परावृत्तमपावृत्तमपद्रुतमवप्लुतम् ॥६-४०-२५॥
Vālmīki 6.40.26
उपन्यस्तमपन्यस्तं युद्धमार्गविशारदौ ।तौ विचेरतुर्न्योन्यं वानरेन्द्रश्च रावणः ॥६-४०-२६॥
Vālmīki 6.40.27
एतस्मिन्नन्तरे रक्षो मायाबलमथात्मनः ।आरब्दुमुपसम् पेदे ज्ञात्वा तम् वानराधिपः ॥६-४०-२७॥
Vālmīki 6.40.28
उत्पपात तदाकाशं जितकाशी जितक्लमः ।रावणः स्थित एवात्र हरिराजेन वञ्चितः ॥६-४०-२८॥
Vālmīki 6.40.29
अथ हरिवरनाथः प्राप्तसंग्रामकीर्ति ।र्निशिचरपतिमाजौ योजयित्वा श्रमेण ।गगनमतिविशालं लङ्घयित्वार्कसूम ।र्हरिगणबलमध्ये रामपार्श्वं जगाम् ॥६-४०-२९॥
Vālmīki 6.40.30
स इति सवितृसूनुस्तत्र तत्कर्म कृत्वा ।पवनगतिरनीकं प्राविशत्संप्रहृष्टः ।रघुवरनृपसूनोद्वर्धयन् युद्धहर्षं ।तरुमृगगणमुख्यैः पूज्यमानो हरीन्द्रः ॥६-४०-३०॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷