🪷 युद्धकाण्ड · Sarga 39
Yuddha-Kāṇḍa · The Book of War · Sarga 39 · 29 ślokas
🪷 Devanāgarī Ślokas
ताम् रात्रिम् उषितास् तत्र सुवेले हरि पुम्गवाः ।लन्कायाम् ददृशुर् वीरा वनान्य् उपवनानि च ॥६-३९-१॥
सम सौम्यानि रम्याणि विशालान्य् आयतानि च ।दृष्टि रम्याणि ते दृष्ट्वा बभूवुर् जात विस्मयाः ॥६-३९-२॥
चम्पक अशोक पुम्नाग साल ताल समाकुला ।तमाल वन संचन्ना नाग माला समावृता ॥६-३९-३॥
हिन्तालैर् अर्जुनैर् नीपैः सप्त पर्णैश् च पुष्पितैः ।तिलकैः कर्णिकारैश् च पटालैश् च समन्ततः ॥६-३९-४॥
शुशुभे पुष्पित अग्रैश् च लता परिगतैर् द्रुमैः ।लन्का बहु विधैर् दिव्यैर् यथा इन्द्रस्य अमरावती ॥६-३९-५॥
विचित्र कुसुम उपेतै रक्त कोमल पल्लवैः ।शाद्वलैश् च तथा नीलैश् चित्राभिर् वन राजिभिः ॥६-३९-६॥
गन्ध आढ्यान्य् अभिरम्याणि पुष्पाणि च फलानि च ।धारयन्त्य् अगमास् तत्र भूषणानि इव मानवाः ॥६-३९-७॥
तच् चैत्र रथ सम्काशम् मनोज्नम् नन्दन उपमम् ।वनम् सर्व ऋतुकम् रम्यम् शुशुभे षट्पद आयुतम् ॥६-३९-८॥
नत्यूह कोयष्टि भकैर् नृत्यमानैश् च बर्हिभिः ।रुतम् पर भृतानाम् च शुश्रुवे वन निर्झरे ॥६-३९-९॥
नित्य मत्त विहम्गानि भ्रमर आचरितानि च ।कोकिल आकुल षण्डानि विहग अभिरुतानि च ॥६-३९-१०॥
भृन्ग राज अभिगीतानि भ्रमरैः सेवितानि च ।कोणालक विघुष्टानि सारस अभिरुतानि च ॥६-३९-११॥
विविशुस् ते ततस् तानि वनान्य् उपवनानि च ।हृष्टाह् प्रमुदिता वीरा हरयः काम रूपिणः ॥६-३९-१२॥
तेषाम् प्रविशताम् तत्र वानराणाम् महा ओजसाम् ।पुष्प संसर्ग सुरभिर् ववौ घ्राण सुखो अनिलः ॥६-३९-१३॥
अन्ये तु हरि वीराणाम् यूथान् निष्क्रम्य यूथपाः ।सुग्रीवेण अभ्यनुज्नाता लन्काम् जग्मुः पताकिनीम् ॥६-३९-१४॥
वित्रासयन्तो विहगांस् त्रासयन्तो मृग द्विपान् ।कम्पयन्तश् च ताम् लन्काम् नादैः स्वैर् नदताम् वराः ॥६-३९-१५॥
कुर्वन्तस् ते महा वेगा महीम् चारण पीडिताम् ।अजश् च सहसा एव ऊर्ध्वम् जगाम चरण उद्धतम् ॥६-३९-१६॥
ऋक्षाः सिम्हा वराहाश् च महिषा वारणा मृगाः ।तेन शब्देन वित्रस्ता जग्मुर् भीता दिशो दश ॥६-३९-१७॥
शिखरम् तु त्रिकूटस्य प्रांशु च एकम् दिवि स्पृशम् ।समन्तात् पुष्प संचन्नम् महा रजत सम्निभम् ॥६-३९-१८॥
शत योजन विस्तीर्णम् विमलम् चारु दर्शनम् ।श्लक्ष्णम् श्रीमन् महच् चैव दुष्प्रापम् शकुनैर् अपि ॥६-३९-१९॥
मनसा अपि दुरारोहम् किम् पुनः कर्मणा जनैः ।निविष्टा तत्र शिखरे लन्का रावण पालिता ॥६-३९-२०॥
दशयोजनविस्तीर्णा विंशद्योजनमायता ।सा पुरी गोपुरैर् उच्चैः पाण्डुर अम्बुद सम्निभैः ।कान्चनेन च सालेन राजतेन च शोभिता ॥६-३९-२१॥
प्रासादैश् च विमानैश् च लन्का परम भूषिता ।घनैर् इव आतप अपाये मध्यमम् वैष्णवम् पदम् ॥६-३९-२२॥
तस्याम् स्तम्भ सहस्रेण प्रासादः समलम्कृतः ।कैलास शिखर आकारो दृश्यते खम् इव उल्लिखन् ॥६-३९-२३॥
चैत्यः स राक्षस इन्द्रस्य बभूव पुर भूषणम् ।शतेन रक्षसाम् नित्यम् यः समग्रेण रक्ष्यते ॥६-३९-२४॥
मनोज्ञाम् काञ्चनवतीम् सर्वतैरुपशोभिताम् ।नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् ॥६-३९-२५॥
नानाविहगसम्घष्टाम् नानामृगनिषेविताम् ।नानाकुसुमसंपन्नाम् नानाराक्षससेविताम् ॥६-३९-२६॥
ताम् समृद्धाम् समृद्ध अर्थो लक्ष्मीवाम्ल् लक्ष्मण अग्रजः ।रावणस्य पुरीम् रामो ददर्श सह वानरैः ॥६-३९-२७॥
ताम् महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः ।नगरीं त्रिदिवप्रख्यां विस्मयं प्राप वीर्यवान् ॥६-३९-२८॥
ताम् रत्न पूर्णाम् बहु सम्विधानाम् ।प्रासाद मालाभिर् अलम्कृताम् च ।पुरीम् महा यन्त्र कवाट मुख्याम् ।ददर्श रामो महता बलेन ॥६-३९-२९॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 38
- Next: Yuddha-Kāṇḍa Sarga 40 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷