🪷 युद्धकाण्ड · Sarga 38

Yuddha-Kāṇḍa · The Book of War · Sarga 38 · 19 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.38.1
स तु कृत्वा सुवेलस्य मतिम् आरोहणम् प्रति ।लक्ष्मण अनुगतो रामह् सुग्रीवम् इदम् अब्रवीत् ॥६-३८-१॥
Vālmīki 6.38.2
विभीषणम् च धर्मज्नम् अनुरक्तम् निज़ा चरम् ।मन्त्रज्नम् च विधिज्नम् च ज़्लक्ष्णया परया गिरा ॥६-३८-२॥
Vālmīki 6.38.3
सुवेलम् साधु ज़ैल इन्द्रम् इमम् धातु ज़तैज़् चितम् ।अध्यारोहामहे सर्वे वत्स्यामो अत्र निज़ाम् इमाम् ॥६-३८-३॥
Vālmīki 6.38.4
लन्काम् च आलोकयिष्यामो निलयम् तस्य रक्षसह् ।येन मे मरण अन्ताय हृता भार्या दुरात्मना ॥६-३८-४॥
Vālmīki 6.38.5
येन धर्मो न विज्नातो न वृत्तम् न कुलम् तथा ।राक्षस्या नीचया बुद्ध्या येन तद् गर्हितम् कृतम् ॥६-३८-५॥
Vālmīki 6.38.6
यस्मिन् मे वर्धते रोषह् कीर्तिते राक्षस अधमे ।यस्य अपराधान् नीचस्य वधम् द्रक्ष्यामि रक्षसाम् ॥६-३८-६॥
Vālmīki 6.38.7
एको हि कुरुते पापम् काल पाज़ वज़म् गतः ।नीचेन आत्म अपचारेण कुलम् तेन विनज़्यति ॥६-३८-७॥
Vālmīki 6.38.8
एवम् सम्मन्त्रयन्न् एव सक्रोधो रावणम् प्रति ।रामह् सुवेलम् वासाय चित्र सानुम् उपारुहत् ॥६-३८-८॥
Vālmīki 6.38.9
पृष्ठतो लक्ष्मण च एनम् अन्वगच्चत् समाहितः ।सज़रम् चापम् उद्यम्य सुमहद् विक्रमे रतः ॥६-३८-९॥
Vālmīki 6.38.10
तम् अन्वरोहत् सुग्रीवह् सामात्यह् सविभीषणह् ।हनूमान् अन्गदो नीलो मैन्दो द्विविद;एव च ॥६-३८-१०॥
Vālmīki 6.38.11
गजो गव अक्षो गवयह् ज़रभो गन्ध मादनह् ।पनसह् कुमुदज़् चैव हरो रम्भज़् च यूथपह् ॥६-३८-११॥
Vālmīki 6.38.12
जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः ।दुर्मुखश्च महातेजास्तथा शतबलिः कपिः ॥६-३८-१२॥
Vālmīki 6.38.13
एते च अन्ये च बहवो वानराह् ज़ीघ्र गामिनह् ।ते वायु वेग प्रवणास् तम् गिरिम् गिरि चारिणह् ॥६-३८-१३॥
Vālmīki 6.38.14
अध्यारोहन्त ज़तज़ह् सुवेलम् यत्र राघवह् ।ते त्व् अदीर्घेण कालेन गिरिम् आरुह्य सर्वतह् ॥६-३८-१४॥
Vālmīki 6.38.15
ददृज़ुह् ज़िखरे तस्य विषक्ताम् इव खे पुरीम् ।ताम् ज़ुभाम् प्रवत द्वाराम् प्राकार वर ज़ोभिताम् ॥६-३८-१५॥
Vālmīki 6.38.16
लन्काम् राक्षस सम्पूर्णाम् ददृज़ुर् हरि यूथपाह् ।प्राकार चय संस्थैज़् च तथा नीलैर् निज़ा चरैह् ॥६-३८-१६॥
Vālmīki 6.38.17
ददृज़ुस् ते हरि ज़्रेष्ठाह् प्राकारम् अपरम् कृतम् ।ते दृष्ट्वा वानराह् सर्वे राक्षसान् युद्ध कान्क्षिणह् ॥६-३८-१७॥
Vālmīki 6.38.18
मुमुचुर् विपुलान् नादांस् तत्र रामस्य पज़्यतह् ।ततो अस्तम् अगमत् सूर्यह् संध्यया प्रतिरन्जितह् ॥६-३८-१८॥
Vālmīki 6.38.19
पूर्ण चन्द्र प्रदीपा च क्षपा समभिवर्तते ।ततः स रामो हरि वाहिनी पतिर् ।विभीषणेन प्रतिनन्द्य सत्कृतः ।सलक्ष्मणो यूथप यूथ सम्वृतः ।सुवेल पृष्ठे न्यवसद् यथा सुखम् ॥६-३८-१९॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷