🪷 युद्धकाण्ड · Sarga 37
Yuddha-Kāṇḍa · The Book of War · Sarga 37 · 38 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 6.37local sarga route with all Sanskrit ślokasYuddha-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
नर वानर राजौ तौ स च वायु सुतः कपिः ।जाम्बवान् ऋक्ष राजसः च राक्षससः च विभीषणः ॥६-३७-१॥।।
अन्गदो वालि पुत्रसः च सौमित्रिः शरभः कपिः ।सुषेणः सह दायादो मैन्दो द्विविद;एव च ॥६-३७-२॥।।
गजो गव अक्षो कुमुदो नलो अथ पनसस् तथा ।अमित्र विषयम् प्राप्ताः समवेताः समर्थयन् ॥६-३७-३॥।।
इयम् सा लक्ष्यते लन्का पुरी रावण पालिता ।सासुर उरग गन्धर्वैर् अमरैर् अपि दुर्जया ॥६-३७-४॥।।
कार्य सिद्धिम् पुरस् क्Rत्य मन्त्रयध्वम् विनिर्णये ।नित्यम् सम्निहितो ह्य् अत्र रावणो राक्षस अधिपः ॥६-३७-५॥।।
तथा तेषु ब्रुवाणेषु रावण अवरजो अब्रवीत् ।वाक्यम् अग्राम्य पदवत् पुष्कल अर्थम् विभीषणः ॥६-३७-६॥।।
अनलः शरभसः चैव सम्पातिः प्रघसस् तथा ।गत्वा लन्काम् मम अमात्याः पुरीम् पुनर् इह आगताः ॥६-३७-७॥।।
भूत्वा शकुनयः सर्वे प्रविष्टासः च रिपोर् बलम् ।विधानम् विहितम् यच् च तद् द्Rष्ट्वा समुपस्थिताः ॥६-३७-८॥।।
सम्विधानम् यथा आहुस् ते रावणस्य दुरात्मनः ।राम तद् ब्रुवतः सर्वम् यथातथ्येन मे शृणु ॥६-३७-९॥।।
पूर्वम् प्रहस्तः सबलो द्वारम् आसाद्य तिष्ठति ।दक्षिणम् च महा वीर्यौ महा पार्श्व महा उदरौ ॥६-३७-१०॥।।
इन्द्रजित् पश्चिम द्वारम् राक्षसैर् बहुभिर् वृतः ।पट्टस असि धनुष्मद्भिः शूल मुद्गर पाणिभिः ॥६-३७-११॥।।
नाना प्रहरणैः शूरैर् आवृतो रावण आत्मजः ।राक्षसानाम् सहस्रैस् तु बहुभिः शस्त्र पाणिभिः ॥६-३७-१२॥।।
युक्तः परम सम्विग्नो राक्षसैर् बहुभिर् व्Rतः ।उत्तरम् नगर द्वारम् रावणः स्वयम् आस्थितः ॥६-३७-१३॥।।
विरूप अक्षस् तु महता शूल खड्ग धनुष्मता ।बलेन राक्षसैः सार्धम् मध्यमम् गुल्मम् आस्थितः ॥६-३७-१४॥।।
एतान् एवम् विधान् गुल्माम्ल् लन्कायाम् समुदीक्ष्य ते ।मामकाः सचिवाः सर्वे शीघ्रम् पुनर् इह आगताः ॥६-३७-१५॥।।
गजानाम् च सहस्रम् च रथानाम् अयुतम् पुरे ।हयानाम् अयुते द्वे च साग्र कोटी च रक्षसाम् ॥६-३७-१६॥।।
विक्रान्ता बलवन्तसः च सम्युगेष्व् आततायिनः ।इष्टा राक्षस राजस्य नित्यम् एते निशा चराः ॥६-३७-१७॥।।
एक एकस्य अत्र युद्ध अर्थे राक्षसस्य विशाम् पते ।परिवारः सहस्राणाम् सहस्रम् उपतिष्ठते ॥६-३७-१८॥।।
एताम् प्रवृत्तिम् लन्कायाम् मन्त्रि प्रोक्तम् विभीषणः ।रामम् कमल पत्र अक्षम् इदम् उत्तरम् अब्रवीत् ॥६-३७-१९॥।।
लङ्कायाम् सचिवैः रामाय प्रत्यवेदयत् ।रामं कमलपत्राक्षमिदमुत्तरमब्रवीत् ॥६-३७-२०॥।।
रावणावरजः श्रीमान् रामप्रियचिकीर्षया ।कुबेरम् तु यदा राम रावणः प्रत्ययुध्यत ॥६-३७-२१॥।।
षष्टिः शत सहस्राणि तदा निर्यान्ति राक्षसाः ।पराक्रमेण वीर्येण तेजसा सत्त्व गौरवात् ॥६-३७-२२॥।।
सदृशा यो अत्र दर्पेण रावणस्य दुरात्मनः ।अत्र मन्युर् न कर्तव्यो रोषये त्वाम् न भीषये ॥६-३७-२३॥।।
समर्थो ह्य् असि वीर्येण सुराणाम् अपि निग्रहे ।तद् भवाम्सः चतुर् अन्गेण बलेन महता वृतः ॥६-३७-२४॥।।
व्यूह्य इदम् वानर अनीकम् निर्मथिष्यसि रावणम् ।रावण अवरजे वाक्यम् एवम् ब्रुवति राघवः ॥६-३७-२५॥।।
शत्रूणाम् प्रतिघात अर्थम् इदम् वचनम् अब्रवीत् ।पूर्व द्वारे तु लन्काया नीलो वानर पुम्गवः ॥६-३७-२६॥।।
प्रहस्तम् प्रतियोद्धा स्याद् वानरैर् बहुभिर् वृतः ।अन्गदो वालि पुत्रस् तु बलेन महता वृतः ॥६-३७-२७॥।।
दक्षिणे बाधताम् द्वारे महा पार्श्व महा उदरौ ।हनूमान् पश्चिम द्वारम् निपीड्य पवन आत्मजः ॥६-३७-२८॥।।
प्रविशत्व् अप्रमेय आत्मा बहुभिः कपिभिर् वृतः ।दैत्य दानव सम्घानाम् ऋषीणाम् च महात्मनाम् ॥६-३७-२९॥।।
विप्रकार प्रियः क्षुद्रो वर दान बल अन्वितः ।परिक्रामति यः सर्वाम्ल् लोकान् सम्तापयन् प्रजाः ॥६-३७-३०॥।।
तस्य अहम् राक्षस इन्द्रस्य स्वयम् एव वधे धृतः ।उत्तरम् नगर द्वारम् अहम् सौमित्रिणा सह ॥६-३७-३१॥।।
निपीड्य अभिप्रवेक्ष्यामि सबलो यत्र रावणः ।वानर इन्द्रसः च बलवान् ऋक्ष राजसः च जाम्बवान् ॥६-३७-३२॥।।
राक्षस इन्द्र अनुजसः चैव गुल्मे भवतु मध्यमे ।न च एव मानुषम् रूपम् कार्यम् हरिभिर् आहवे ॥६-३७-३३॥।।
एषा भवतु नः सम्ज्ना युद्धे अस्मिन् वानरे बले ।वानरा;एव निश्चिह्नम् स्व जने अस्मिन् भविष्यति ॥६-३७-३४॥।।
वयम् तु मानुषेण एव सप्त योत्स्यामहे परान् ।अहम् एव सह भ्रात्रा लक्ष्मणेन महा ओजसा ॥६-३७-३५॥।।
आत्मना पन्चमसः च अयम् सखा मम विभीषणः ।स रामः कार्य सिद्ध्य् अर्थम् एवम् उक्त्वा विभीषणम् ॥६-३७-३६॥।।
सुवेल आरोहणे बुद्धिम् चकार मतिमान् मतिम् ।रमणीयतरम् दृष्ट्वा सुवेलस्य गिरेस्तट्म् ॥६-३७-३७॥।।
ततस् तु रामो महता बलेन ।प्रच्चाद्य सर्वाम् पृथिवीम् महात्मा ।प्रहृष्ट रूपो अभिजगाम लन्काम् ।कृत्वा मतिम् सो अरि वधे महात्मा ॥६-३७-३८॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 36
- Next: Yuddha-Kāṇḍa Sarga 38 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷