🪷 युद्धकाण्ड · Sarga 4
Yuddha-Kāṇḍa · The Book of War · Sarga 4 · 123 ślokas
🪷 Devanāgarī Ślokas
श्रुत्वा हनूमतो वाक्यम् यथावद् अनुपूर्वशः ।ततो अब्रवीन् महातेजा रामः सत्य पराक्रमः ॥६-४-१॥।। ॥६-४-१॥
याम् निवेदयसे लंकाम् पुरीम् भीमस्य रक्षसः ।क्षिप्रम् एनाम् वधिष्यामि सत्यम् एतद् ब्रवीमि ते ॥६-४-२॥।। ॥६-४-२॥
अस्मिन् मुहूर्ते सुग्रीव प्रयाणम् अभिरोचये ।युक्तो मुहूर्तो विजयः प्राप्तो मध्यम् दिवा करः ॥६-४-३॥।। ॥६-४-३॥
सीताम् गृत्वा तु तद्यातु क्वासौ यास्यति जीवितः ।सीता श्रुत्वाभियानम् मे आशामेष्यति जीविते ॥६-४-४॥।। ॥६-४-४॥
जीवितान्तेऽ मृतम् स्पृष्ट्वा पीत्वा विषमिवातुरः ।उत्तरा फल्गुनी हि अद्य श्वस् तु हस्तेन योक्ष्यते ॥६-४-५॥।। ॥६-४-५॥
अभिप्रयाम सुग्रीव सर्व अनीक समावृताः ।निमित्तानि च धन्यानि यानि प्रादुर् भवन्ति मे ॥६-४-६॥।। ॥६-४-६॥
निहत्य रावणम् सीताम् आनयिष्यामि जानकीम् ।उपरिष्टाद्द् हि नयनम् स्फुरमाणम् इदम् मम ॥६-४-७॥।। ॥६-४-७॥
विजयम् समनुप्राप्तम् शम्सति इव मनो रथम् ।ततो वाबरराहेब कज्श्मणेन सुपूजितः ॥६-४-८॥।। ॥६-४-८॥
उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः ।अग्रे यातु बलस्य अस्य नीलो मार्गम् अवेक्षितुम् ॥६-४-९॥।। ॥६-४-९॥
वृतः शत सहस्रेण वानराणाम् तरस्विनाम् ।पथा मधुमता च आशु सेनाम् सेना पते नय ॥६-४-१०॥।। ॥६-४-१०॥
फल मूलवता नील शीत कानन वारिणा ।दूषयेयुर् दुरात्मानः पथि मूल फल उदकम् ॥६-४-११॥।। ॥६-४-११॥
राक्षसाः परिरक्षेथास् तेभ्यस् त्वम् नित्यम् उद्यतः ।निम्नेषु वन दुर्गेषु वनेषु च वन ओकसः ॥६-४-१२॥।। ॥६-४-१२॥
अभिप्लुत्य अभिपश्येयुः परेषाम् निहतम् बलम् ।यत्तु फल्गु बलम् किम्चित्तदत्रैवोपपद्यताम् ॥६-४-१३॥।। ॥६-४-१३॥
एतद्धि कृत्यम् घोरम् नो विक्रमेण प्रयुज्यताम् ।सागर ओघ निभम् भीमम् अग्र अनीकम् महाबलाः ॥६-४-१४॥।। ॥६-४-१४॥
कपि सिम्हा प्रकर्षन्तु शतशो अथ सहस्रशः ।गजः च गिरि सम्काशो गवयः च महाबलः ॥६-४-१५॥।। ॥६-४-१५॥
गव अक्षः च अग्रतो यान्तु गवाम् दृप्ता इव ऋषभाः ।यातु वानर वाहिन्या वानरः प्लवताम् पतिः ॥६-४-१६॥।। ॥६-४-१६॥
पालयन् दक्षिणम् पार्श्वम् ऋषभो वानर ऋषभः ।गन्ध हस्ती इव दुर्धर्षस् तरस्वी गन्ध मादनः ॥६-४-१७॥।। ॥६-४-१७॥
यातु वानर वाहिन्याः सव्यम् पार्श्वम् अधिष्ठितः ।यास्यामि बल मध्ये अहम् बल ओघम् अभिहर्षयन् ॥६-४-१८॥।। ॥६-४-१८॥
अधिरुह्य हनूमन्तम् ऐरावतम् इव ईश्वरः ।अन्गदेन एष सम्यातु लक्ष्मणः च अन्तक उपमः ॥६-४-१९॥।। ॥६-४-१९॥
सार्वभौमेन भूत ईशो द्रविण अधिपतिस् यथा ।जाम्बवामः च सुषेणः च वेग दर्शी च वानरः ॥६-४-२०॥।। ॥६-४-२०॥
ऋक्ष राजो महासत्त्वः कुक्षिम् रक्षन्तु ते त्रयः ।राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनी पतिः ॥६-४-२१॥।। ॥६-४-२१॥
व्यादिदेश महावीर्यान् वानरान् वानर Rषभः ।ते वानर गणाः सर्वे समुत्पत्य युयुत्सवः ॥६-४-२२॥।। ॥६-४-२२॥
गुहाभ्यः शिखरेभ्यः च आशु पुप्लुविरे तदा ।ततो वानर राजेन लक्ष्मणेन च पूजितः ॥६-४-२३॥।। ॥६-४-२३॥
जगाम रामो धर्म आत्मा ससैन्यो दक्षिणाम् दिशम् ।शतैः शत सहस्रैः च कोटीभिर् अयुतैर् अपि ॥६-४-२४॥।। ॥६-४-२४॥
वारणाभिः च हरिभिर् ययौ परिव्Rतस् तदा ।तम् यान्तम् अनुयाति स्म महती हरि वाहिनी ॥६-४-२५॥।। ॥६-४-२५॥
हृष्टाः प्रमुदिताः सर्वे सुग्रीवेण अभिपालिताः ।आप्लवन्तः प्लवन्तः च गर्जन्तः च प्लवम् गमाः ॥६-४-२६॥।। ॥६-४-२६॥
क्ष्वेलन्तो निनदन्तः च जग्मुर् वै दक्षिणाम् दिशम् ।भक्षयन्तः सुगन्धीनि मधूनि च फलानि च ॥६-४-२७॥।। ॥६-४-२७॥
उद्वहन्तो महावृक्षान् मन्जरी पुन्ज धारिणः ।अन्योन्यम् सहसा दृष्टा निर्वहन्ति क्षिपन्ति च ॥६-४-२८॥।। ॥६-४-२८॥
पतन्तः च उत्पतन्ति अन्ये पातयन्ति अपरे परान् ।रावणो नो निहन्तव्यः सर्वे च रजनी चराः ॥६-४-२९॥।। ॥६-४-२९॥
इति गर्जन्ति हरयो राघवस्य समीपतः ।पुरस्ताद् ऋषभ्हो वीरो नीलः कुमुद एव च ॥६-४-३०॥।। ॥६-४-३०॥
पथानम् शोधयन्ति स्म वानरैर् बहुभिः सह ।मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च ॥६-४-३१॥।। ॥६-४-३१॥
बहुभिर् बलिभिर् भीमैर् व्Rताः शत्रु निबर्हणः ।हरिः शत बलिर् वीरः कोटीभिर् दशभिर् वृतः ॥६-४-३२॥।। ॥६-४-३२॥
सर्वाम् एको हि अवष्टभ्य ररक्ष हरि वाहिनीम् ।कोटी शत परीवारः केसरी पनसो गजः ॥६-४-३३॥।। ॥६-४-३३॥
अर्कः च अतिबलः पार्श्वम् एकम् तस्य अभिरक्षति ।सुषेणो जाम्बवामः चैव ऋक्षैर् बहुभिर् आवृतः ॥६-४-३४॥।। ॥६-४-३४॥
सुग्रीवम् पुरतः कृत्वा जघनम् सम्ररक्षतुः ।तेषाम् सेना पतिर् वीरो नीलो वानर पुम्गवः ॥६-४-३५॥।। ॥६-४-३५॥
सम्पतन् पतताम् श्रेष्ठस् तद् बलम् पर्यपालयत् ।वलीमुखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः ॥६-४-३६॥।। ॥६-४-३६॥
सर्वतः च ययुर् वीरास् त्वरयन्तः प्लवम् गमान् ।एवम् ते हरि शार्दूला गच्चन्तो बल दर्पिताः ॥६-४-३७॥।। ॥६-४-३७॥
अपश्यम्स् ते गिरि श्रेष्ठम् सह्यम् द्रुम लता युतम् ।सागर ओघ निभम् भीमम् तद् वानर बलम् महत् ॥६-४-३८॥।। ॥६-४-३८॥
रामस्य शासनम् ज्ञात्वा भीमकोपस्य भीतवत् ।वर्जयन्नगराभ्याशाम्स्तथा जनपदानपि ॥६-४-३९॥।। ॥६-४-३९॥
सागरौघनिभम् भीमम् तद्वानरबलम् महत् ।निह्ससर्प महाघोषम् भीम वेग इव अर्णवः ॥६-४-४०॥।। ॥६-४-४०॥
तस्य दाशरथेः पार्श्वे शूरास् ते कपि कुन्जराः ।तूर्णम् आपुप्लुवुः सर्वे सद् अश्वा इव चोदिताः ॥६-४-४१॥।। ॥६-४-४१॥
कपिभ्याम् उह्यमानौ तौ शुशुभते नर ऋषभौ ।महद्भ्याम् इव सम्स्पृष्टौ ग्राहाभ्याम् चन्द्र भास्करौ ॥६-४-४२॥।। ॥६-४-४२॥
ततो वानरराजेन लक्ष्मणेन सुपूजितः ।जगाम रामो धर्मात्मा ससैन्यो दक्षिणाम् दिशम् ॥६-४-४३॥।। ॥६-४-४३॥
तम् अन्गद गतो रामम् लक्ष्मणः शुभया गिरा ।उवाच प्रतिपूर्ण अर्थः स्म्Rतिमान् प्रतिभानवान् ॥६-४-४४॥।। ॥६-४-४४॥
हृताम् अवाप्य वैदेहीम् क्षिप्रम् हत्वा च रावणम् ।समृद्ध अर्थः समृद्ध अर्थाम् अयोध्याम् प्रतियास्यसि ॥६-४-४५॥।। ॥६-४-४५॥
महान्ति च निमित्तानि दिवि भूमौ च राघव ।शुभान्ति तव पश्यामि सर्वाणि एव अर्थ सिद्धये ॥६-४-४६॥।। ॥६-४-४६॥
अनु वाति शुभो वायुः सेनाम् मृदु हितः सुखः ।पूर्ण वल्गु स्वराः च इमे प्रवदन्ति मृग द्विजाः ॥६-४-४७॥।। ॥६-४-४७॥
प्रसन्नाः च दिशः सर्वा विमलः च दिवा करः ।उशना च प्रसन्न अर्चिर् अनु त्वाम् भार्गवो गतः ॥६-४-४८॥।। ॥६-४-४८॥
ब्रह्म राशिर् विशुद्धः च शुद्धाः च परम ऋषयः ।अर्चिष्मन्तः प्रकाशन्ते ध्रुवम् सर्वे प्रदक्षिणम् ॥६-४-४९॥।। ॥६-४-४९॥
पितामह वरो अस्माकम् इष्क्वाकूणाम् महात्मनाम् ।त्रिशन्कुर् विमलो भाति राज ऋषिः सपुरोहितः ॥६-४-५०॥।। ॥६-४-५०॥
नक्षत्रम् परम् अस्माकम् इक्ष्वाकूणाम् महात्मनाम् ।विमले च प्रकाशेते विशाखे निरुपद्रवे ॥६-४-५१॥।। ॥६-४-५१॥
मूलम् मूलवता स्प्Rष्टम् धूप्यते धूम केतुना ।नैरृतम् नैरृतानाम् च नक्षत्रम् अभिपीड्यते ॥६-४-५२॥।। ॥६-४-५२॥
काले काल गृहीतानाम् नकत्रम् ग्रह पीडितम् ।सरम् च एतद् विनाशाय राक्षसानाम् उपस्थितम् ॥६-४-५३॥।। ॥६-४-५३॥
प्रसन्नाः सुरसाः च आपो वनानि फलवन्ति च ।प्रवान्ति अभ्यधिकम् गन्धा यथा ऋतु कुसुमा द्रुमाः ॥६-४-५४॥।। ॥६-४-५४॥
व्यूढानि कपि सैन्यानि प्रकाशन्ते अधिकम् प्रभो ।देवानाम् इव सैन्यानि सम्ग्रामे तारकामये ॥६-४-५५॥।। ॥६-४-५५॥
एवम् आर्य समीक्ष्य एतान् प्रीतो भवितुम् अर्हसि ।इति भ्रातरम् आश्वास्य हृष्टः सौमित्रिर् अब्रवीत् ॥६-४-५६॥।। ॥६-४-५६॥
अथ आव्Rत्य महीम् कृत्स्नाम् जगाम महती चमूः ।ऋक्ष वानर शार्दूलैर् नख दम्ष्ट्र आयुधैर् वृता ॥६-४-५७॥।। ॥६-४-५७॥
कर अग्रैः चरण अग्रैः च वानरैर् उद्धतम् रजः ।भीमम् अन्तर् दधे लोकम् निवार्य सवितुः प्रभाम् ॥६-४-५८॥।। ॥६-४-५८॥
सा स्म याति दिवा रात्रम् महती हरि वाहिनी ।हृष्ट प्रमुदिता सेना सुग्रीवेण अभिरक्षिता ॥६-४-५९॥।। ॥६-४-५९॥
उत्तरन्त्याश्च सेनायाः सततम् बहुयोजनम् ।नदीस्रोताम्सि सर्वाणि सस्यन्दुर्विपरीतवत् ॥६-४-६०॥।। ॥६-४-६०॥
सराम्सि विमलाम्भाम्सि द्रुमाकीर्णाम्श्च पर्वतान् ।समान् भूमिप्रदेशाम्श्च वनानि फलवन्ति च ॥६-४-६१॥।। ॥६-४-६१॥
मध्येन च समन्ताच्च वनानि फलवन्ति च ।समावृत्य महीम् कृत्स्नाम् जगाम महती चमूः ॥६-४-६२॥।। ॥६-४-६२॥
ते हृष्टवदनाह् सर्वे जग्मुर्मारुतरम्हसः ।हरयो राघवस्यार्थे समारोपितविक्रमाः ॥६-४-६३॥।। ॥६-४-६३॥
हर्षम् वीर्यम् बलोद्रेकाद्दर्शयन्तः परस्परम् ।यौवनोत्सेकजाद्दर्पाद्विविधाम्श्चक्रुरध्वनि ॥६-४-६४॥।। ॥६-४-६४॥
तत्र केचिद्द्रुतम् जग्मुरुत्पेतुश्च तथापरे ।केचित्किलकिलाम् चक्रुर्वानरा वनगोचराः ॥६-४-६५॥।। ॥६-४-६५॥
प्रास्फोटयम्श्च पुच्छानि सम्निजघ्नः पदान्यपि ।भुजान्विक्षिप्य शैलाम्श्च द्रुमानन्ये बभञ्जरे ॥६-४-६६॥।। ॥६-४-६६॥
आरोहन्तश्च शृङ्गाणि गिरीणाम् गिरिगोचराः ।महानादान् प्रमुञ्चन्ति क्ष्वेडामन्ये प्रचक्रिते ॥६-४-६७॥।। ॥६-४-६७॥
ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः ।जृम्भमाणाश्च विक्रान्ता विचिक्रीडुः शिलाद्रुमैः ॥६-४-६८॥।। ॥६-४-६८॥
ततः शतसहस्रैश्च कोटिभिश्च सहस्रशः ।वानराणाम् सुघोराणाम् श्रीमत्परिवृता मही ॥६-४-६९॥।। ॥६-४-६९॥
सा स्म याति दिवारात्रम् महती हरिवाहिनी ।प्रहृष्टमुदिताः सर्वे सुग्रीवेणाभिपालिताः ॥६-४-७०॥।। ॥६-४-७०॥
वनरास् त्वरितम् यान्ति सर्वे युद्ध अभिनन्दनः ।मुमोक्षयिषवः सीताम् मुहूर्तम् क्व अपि न आसत ॥६-४-७१॥।। ॥६-४-७१॥
ततः पादप सम्बाधम् नाना मृग समाकुलम् ।सह्य पर्वतम् आसेदुर् मलयम् च मही धरम् ॥६-४-७२॥।। ॥६-४-७२॥
काननानि विचित्राणि नदी प्रस्रवणानि च ।पश्यन्न् अपि ययौ रामः सह्यस्य मलयस्य च ॥६-४-७३॥।। ॥६-४-७३॥
चम्पकाम्स् तिलकामः चूतान् अशोकान् सिन्दु वारकान् ।तिनिशान् करवीरामः च तिमिशान् भन्जन्ति स्म प्लवम् गमाः ॥६-४-७४॥।। ॥६-४-७४॥
अशोकाम्श्च करञ्जाम्श्च प्लक्षन्य्ग्रोधपादपान् ।जम्बूकामलकान्नागान् भजन्ति स्म प्लवङ्गमाः ॥६-४-७५॥।। ॥६-४-७५॥
प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः ।वायुवेगप्रचलिताः पुष्पैरवकिरन्ति ताम् ॥६-४-७६॥।। ॥६-४-७६॥
मारुतः सुखसम्स्पर्शोओ वाति चन्दनशीतलः ।षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥६-४-७७॥।। ॥६-४-७७॥
अधिकम् शैलराजस्तु धातुभिस्तु विभूसितः ।धातुभ्यः प्रसृतो रेणुर्वायुवेगेन घुट्टितः ॥६-४-७८॥।। ॥६-४-७८॥
सुमहद्वानरानीकम् चादयामास सर्वतः ।गिरिप्रस्थेषु रम्येषु सर्वतः सम्प्रपुष्पिताः ॥६-४-७९॥।। ॥६-४-७९॥
केतक्यः सिन्दुवाराश्च वासन्त्यश्च मनोरमाः ।माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिता ॥६-४-८०॥।। ॥६-४-८०॥
चिरबिल्वा मधूकाश्च वञ्जुला वकुलास्तथा ।रञ्जकास्तिलकाश्चैव नागवृक्षश्च पुष्पिता ॥६-४-८१॥।। ॥६-४-८१॥
चूताः पाटलिकाश्चैव कोविदाराश्च पुष्पिताः ।मुचुलिन्दार्जुनाश्चैव शिम्शपाः कुटजास्तथा ॥६-४-८२॥।। ॥६-४-८२॥
हिन्तालास्तिनिशाश्चैव चूर्णका नीपकास्तथा ॥६-४-८३॥नीलाशोकाश्च सरला अङ्कोलाः पद्मकास्तथा ।प्रीयमाणैः प्लवम्गैस्तु सर्वे पर्याकुलीकृताः ॥६-४-८४॥।। ॥६-४-८३॥
व्यास्तिस्मिन् गिरौ रम्याः पल्वलानि तथैव च ।चक्रवाकानुचरिताः कारण्डवनिषेविताः ॥६-४-८५॥।। ॥६-४-८४॥
प्लवैः क्रौञ्चे सम्कीर्णा वराहमृगसेविताः ।ऋक्षैस्तरक्षुभिः सिम्हैः शार्दूलैश्च भयावहैः ॥६-४-८६॥।। ॥६-४-८५॥
व्यालैश्च बहुभिर्भीमैः सेव्यमानाः समन्ततः ।पद्मेः सौगन्धिकैः पुल्लैः सेव्यमानाः समन्ततः ॥६-४-८७॥।। ॥६-४-८६॥
वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः ।तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा ॥६-४-८८॥।। ॥६-४-८७॥
स्नात्वा पीत्वोदकान्यत्र जले क्रीदन्ति वानराः ।अन्योन्यम् प्लावयन्ति स्म शैलमारुह्य वानराः ॥६-४-८९॥।। ॥६-४-८८॥
फलानि अमृत गन्धीनि मूलानि कुसुमानि च ।बुभुजुर् वानरास् तत्र पादपानाम् बल उत्कटाः ॥६-४-९०॥।। ॥६-४-८९॥
द्रोण मात्र प्रमाणानि लम्बमानानि वानराः ।ययुः पिबन्तो हृष्टास् ते मधूनि मधु पिन्गलाः ॥६-४-९१॥।। ॥६-४-९०॥
पादपान् अवभन्जन्तो विकर्षन्तस् तथा लताः ।विधमन्तो गिरि वरान् प्रययुः प्लवग ऋषभाः ॥६-४-९२॥।। ॥६-४-९१॥
वृक्षेभ्यो अन्ये तु कपयो नर्दन्तो मधु दर्पिताः ।अन्ये वृक्षान् प्रपद्यन्ते प्रपतन्ति अपि च अपरे ॥६-४-९३॥।। ॥६-४-९२॥
बभूव वसुधा तैस् तु सम्पूर्णा हरि पुम्गवैः ।यथा कमल केदारैः पक्वैर् इव वसुम् धरा ॥६-४-९४॥।। ॥६-४-९३॥
महाइन्द्रम् अथ सम्प्राप्य रामो राजीव लोचनः ।अध्यारोहन् महाबाहुः शिखरम् द्रुम भूषितम् ॥६-४-९५॥।। ॥६-४-९४॥
ततः शिखरम् आरुह्य रामो दशरथ आत्मजः ।कूर्म मीन समाकीर्णम् अपश्यत् सलिल आशयम् ॥६-४-९६॥।। ॥६-४-९५॥
ते सह्यम् समतिक्रम्य मलयम् च महागिरिम् ।आसेदुर् आनुपूर्व्येण समुद्रम् भीम निह्स्वनम् ॥६-४-९७॥।। ॥६-४-९६॥
अवरुह्य जगाम आशु वेला वनम् अनुत्तमम् ।रामो रमयताम् श्रेष्ठः ससुग्रीवः सलक्ष्मणः ॥६-४-९८॥।। ॥६-४-९७॥
अथ धौत उपल तलाम् तोय ओघैः सहसा उत्थितैः ।वेलाम् आसाद्य विपुलाम् रामो वचनम् अब्रवीत् ॥६-४-९९॥।। ॥६-४-९८॥
एते वयम् अनुप्राप्ताः सुग्रीव वरुण आलयम् ।इह इदानीम् विचिन्ता सा या न पूर्वम् समुत्थिता ॥६-४-१००॥।। ॥६-४-९९॥
अतः परम् अतीरो अयम् सागरः सरिताम् पति ।न च अयम् अनुपायेन शक्यस् तरितुम् अर्णवः ॥६-४-१०१॥।। ॥६-४-१००॥
तद् इह एव निवेशो अस्तु मन्त्रः प्रस्तूयताम् इह ।यथा इदम् वानर बलम् परम् पारम् अवाप्नुयात् ॥६-४-१०२॥।। ॥६-४-१०१॥
इति इव स महाबाहुः सीता हरण कर्शितः ।रामः सागरम् आसाद्य वासम् आज्ञापयत् तदा ॥६-४-१०३॥।। ॥६-४-१०२॥
सर्वाः सेना निवेश्यन्ताम् वेलायाम् हरिपुङ्गव ।सम्प्राप्तो मन्त्र कालो नः सागरस्य इह लन्घने ॥६-४-१०४॥।। ॥६-४-१०३॥
स्वाम् स्वाम् सेनाम् समुत्स्Rज्य मा च कश्चित् कुतो व्रजेत् ।गच्चन्तु वानराः शूरा ज्ञेयम् चन्नम् भयम् च नः ॥६-४-१०५॥।। ॥६-४-१०४॥
रामस्य वचनम् श्रुत्वा सुग्रीवः सह लक्ष्मणः ।सेनाम् न्यवेशयत् तीरे सागरस्य द्रुम आयुते ॥६-४-१०६॥।। ॥६-४-१०५॥
विरराज समीपस्थम् सागरस्य तु तद् बलम् ।मधु पाण्डु जलः श्रीमान् द्वितीय इव सागरः ॥६-४-१०७॥।। ॥६-४-१०६॥
वेला वनम् उपागम्य ततस् ते हरि पुम्गवाः ।विनिविष्टाः परम् पारम् कान्क्षमाणा महाउदधेः ॥६-४-१०८॥।। ॥६-४-१०७॥
तेषाम् निविशमानानाम् सैन्यसम्नाहनिःस्वनः ।अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे ॥६-४-१०९॥।। ॥६-४-१०८॥
सा महाअर्णवम् आसाद्य ह्Rष्टा वानर वाहिनी ।त्रिधा निविष्टा महती रामस्यार्थपराभवत् ॥६-४-११०॥।। ॥६-४-१०९॥
सा महार्णवमासाद्य हृष्टा वानरवाहिनी ।वायु वेग समाधूतम् पश्यमाना महाअर्णवम् ॥६-४-१११॥।। ॥६-४-११०॥
दूर पारम् असम्बाधम् रक्षो गण निषेवितम् ।पश्यन्तो वरुण आवासम् निषेदुर् हरि यूथपाः ॥६-४-११२॥।। ॥६-४-१११॥
चण्ड नक्र ग्रहम् घोरम् क्षपा आदौ दिवस क्षये ।हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः ॥६-४-११३॥।। ॥६-४-११२॥
चन्द्र उदये समाधूतम् प्रतिचन्द्र समाकुलम् ।चण्ड अनिल महाग्राहैः कीर्णम् तिमि तिमिम्गिलैः ॥६-४-११४॥।। ॥६-४-११३॥
दीप्त भोगैर् इव आक्रीर्णम् भुजम्गैर् वरुण आलयम् ।अवगाढम् महासत्तैर् नाना शैल समाकुलम् ॥६-४-११५॥।। ॥६-४-११४॥
सुदुर्गम् द्रुगम् अमार्गम् तम् अगाधम् असुर आलयम् ।मकरैर् नाग भोगैः च विगाढा वात लोहिताः ॥६-४-११६॥।। ॥६-४-११५॥
उत्पेतुः च निपेतुः च प्रवृद्धा जल राशयः ।अग्नि चूर्णम् इव आविद्धम् भास्कर अम्बु मनो रगम् ॥६-४-११७॥।। ॥६-४-११६॥
सुर अरि विषयम् घोरम् पाताल विषमम् सदा ।।। ॥६-४-११७॥
सागरम् च अम्बर प्रख्यम् अम्बरम् सागर उपमम् ।सागरम् च अम्बरम् च इति निर्विशेषम् अदृश्यत ॥६-४-११८॥।। ॥६-४-११८॥
ताद्Rग् रूपे स्म द्Rश्येते तारा रत्न समाकुले ।सम्पृक्तम् नभसा हि अम्भः सम्प्Rक्तम् च नभो अम्भसा ॥६-४-११९॥।। ॥६-४-११९॥
समुत्पतित मेघस्य वीच्चि माला आकुलस्य च ।विशेषो न द्वयोर् आसीत् सागरस्य अम्बरस्य च ॥६-४-१२०॥।। ॥६-४-१२०॥
ऊर्मयः सिन्धु राजस्य महाभेर्य इव आहवे ।रत्न ओघ जल सम्नादम् विषक्तम् इव वायुना ॥६-४-१२२॥।। ॥६-४-१२१॥
उत्पतन्तम् इव क्रुद्धम् यादो गण समाकुलम् ।ददृशुस् ते महात्मानो वात आहत जल आशयम् ॥६-४-१२३॥।। ॥६-४-१२२॥
अनिल उद्धूतम् आकाशे प्रवल्गतम् इव ऊर्मिभिः ।ततो विस्मयामापन्ना हरयो ददृशुः स्थिताः ॥६-४-१२३॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 3
- Next: Yuddha-Kāṇḍa Sarga 5 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷