🪷 युद्धकाण्ड · Sarga 5

Yuddha-Kāṇḍa · The Book of War · Sarga 5 · 23 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.5.1
सा तु नीलेन विधिवत् स्वारक्षा सुसमाहिता ।सागरस्य उत्तरे तीरे साधु सेना विनिएशिता ॥६-५-१॥।। ॥६-५-१॥
Vālmīki 6.5.2
मैन्दः च द्विविधः च उभौ तत्र वानर पुम्गवौ ।विचेरतुः च ताम् सेनाम् रक्षा अर्थम् सर्वतो दिशम् ॥६-५-२॥।। ॥६-५-२॥
Vālmīki 6.5.3
निविष्टायाम् तु सेनायाम् तीरे नद नदी पतेः ।पार्श्वस्थम् लक्ष्मणम् दृष्ट्वा रामो वचनम् अब्रवीत् ॥६-५-३॥।। ॥६-५-३॥
Vālmīki 6.5.4
शोकः च किल कालेन गच्चता हि अपगच्चति ।मम च अपश्यतः कान्ताम् अहनि अहनि वर्धते ॥६-५-४॥।। ॥६-५-४॥
Vālmīki 6.5.5
न मे दुह्खम् प्रिया दूरे न मे दुह्खम् हृता इति च ।तद् एव अनुशोचामि वयो अस्या हि अतिवर्तते ॥६-५-५॥।। ॥६-५-५॥
Vālmīki 6.5.6
वाहि वात यतः कन्या ताम् स्पृष्ट्वा माम् अपि स्पृश ।त्वयि मे गात्र सम्स्पर्शः चन्द्रे दृष्टि समागमः ॥६-५-६॥।। ॥६-५-६॥
Vālmīki 6.5.7
तन् मे दहति गात्राणि विषम् पीतम् इव आशये ।हा नाथ इति प्रिया सा माम् ह्रियमाणा यद् अब्रवीत् ॥६-५-७॥।। ॥६-५-७॥
Vālmīki 6.5.8
तद् वियोग इन्धनवता तच् चिन्ता विपुल अर्चिषा ।रात्रिम् दिवम् शरीरम् मे दह्यते मदन अग्निना ॥६-५-८॥।। ॥६-५-८॥
Vālmīki 6.5.9
अवगाह्य अर्णवम् स्वप्स्ये सौमित्रे भवता विना ।कथम्चित् प्रज्वलन् कामः समासुप्तम् जले दहेत् ॥६-५-९॥।। ॥६-५-९॥
Vālmīki 6.5.10
बह्व् एतत् कामयानस्य शक्यम् एतेन जीवितुम् ।यद् अहम् सा च वाम ऊरुर् एकाम् धरणिम् आश्रितौ ॥६-५-१०॥।। ॥६-५-१०॥
Vālmīki 6.5.11
केदारस्य इव केदारः स उदकस्य निरूदकः ।उपस्नेहेन जीवामि जीवन्तीम् यत् शृणोमि ताम् ॥६-५-११॥।। ॥६-५-११॥
Vālmīki 6.5.12
कदा तु खलु सुस्शोणीम् शत पत्र आयत ईक्षणाम् ।विजित्य शत्रून् द्रक्ष्यामि सीताम् स्फीताम् इव श्रियम् ॥६-५-१२॥।। ॥६-५-१२॥
Vālmīki 6.5.13
कदा नु चारु बिम्ब ओष्ठम् तस्याः पद्मम् इव आननम् ।ईषद् उन्नम्य पास्यामि रसायनम् इव आतुरः ॥६-५-१३॥।। ॥६-५-१३॥
Vālmīki 6.5.14
तौ तस्याः सम्हतौ पीनौ स्तनौ ताल फल उपमौ ।कदा नु खलु स उत्कम्पौ हसन्त्या माम् भजिष्यतः ॥६-५-१४॥।। ॥६-५-१४॥
Vālmīki 6.5.15
सा नूनम् असित अपान्गी रक्षो मध्य गता सती ।मन् नाथा नाथ हीना इव त्रातारम् न अधिगच्चति ॥६-५-१५॥।। ॥६-५-१५॥
Vālmīki 6.5.16
कदा विक्षोभ्य रक्षाम्सि सा विधूय उत्पतिष्यति ।राक्षसीमध्यगा शेते स्नुषा दशरथस्य च ॥६-५-१६॥।। ॥६-५-१६॥
Vālmīki 6.5.17
अविक्षोभ्याणि रक्षाम्सि सा विधूयोत्पतिष्यति ।विधूय जलदान् नीलान् शशि लेखा शरत्स्व् इव ॥६-५-१७॥।। ॥६-५-१७॥
Vālmīki 6.5.18
स्वभाव तनुका नूनम् शोकेन अनशनेन च ।भूयस् तनुतरा सीता देश काल विपर्ययात् ॥६-५-१८॥।। ॥६-५-१८॥
Vālmīki 6.5.19
कदा नु राक्षस इन्द्रस्य निधाय उरसि सायकान् ।सीताम् प्रत्याहरिष्यामि शोकम् उत्सृज्य मानसम् ॥६-५-१९॥।। ॥६-५-१९॥
Vālmīki 6.5.20
कदा नु खलु माम् साध्वी सीता अमर सुता उपमा ।स उत्कण्ठा कण्ठम् आलम्ब्य मोक्ष्यति आनन्दजम् जलम् ॥६-५-२०॥।। ॥६-५-२०॥
Vālmīki 6.5.21
कदा शोकम् इमम् घोरम् मैथिली विप्रयोगजम् ।सहसा विप्रमोक्ष्यामि वासः शुक्ल इतरम् यथा ॥६-५-२१॥।। ॥६-५-२१॥
Vālmīki 6.5.22
एवम् विलपतस् तस्य तत्र रामस्य धीमतः ।दिन क्षयान् मन्द वपुर् भास्करो अस्तम् उपागमत् ॥६-५-२२॥।। ॥६-५-२२॥
Vālmīki 6.5.23
आश्वासितो लक्ष्मणेन रामः सम्ध्याम् उपासत ।स्मरन् कमल पत्र अक्षीम् सीताम् शोक आकुली कृतः ॥६-५-२३॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷