🪷 युद्धकाण्ड · Sarga 6
Yuddha-Kāṇḍa · The Book of War · Sarga 6 · 19 ślokas
🪷 Devanāgarī Ślokas
लंकायाम् तु कृतम् कर्म घोरम् दृष्ट्वा भव आवहम् ।राक्षस इन्द्रो हनुमता शक्रेण इव महात्मना ॥६-६-१॥।। ॥६-६-१॥
अब्रवीद् राक्षसान् सर्वान् ह्रिया किम्चिद् अवान् मुखः ।धर्षिता च प्रविष्टा च लंका दुष्प्रसहा पुरी ॥६-६-२॥।। ॥६-६-२॥
तेन वानर मात्रेण दृष्टा सीता च जानकी ।प्रसादो धर्षितः चैत्यः प्रवरा राक्षसा हताः ॥६-६-३॥।। ॥६-६-३॥
आविला च पुरी लंका सर्वा हनुमता कृता ।किम् करिष्यामि भद्रम् वः किम् वा युक्तम् अनन्तरम् ॥६-६-४॥।। ॥६-६-४॥
उच्यताम् नः समर्थम् यत् कृतम् च सुकृतम् भवेत् ।मन्त्र मूलम् हि विजयम् प्राहुर् आर्या मनस्विनः ॥६-६-५॥।। ॥६-६-५॥
तस्माद् वै रोचये मन्त्रम् रामम् प्रति महाबलाः ।त्रिविधाः पुरुषा लोके उत्तम अधम मध्यमाः ॥६-६-६॥।। ॥६-६-६॥
तेषाम् तु समवेतानाम् गुण दोषम् वदामि अहम् ।मन्त्रिभिर् हित सम्युक्तैः समर्थैर् मन्त्र निर्णये ॥६-६-७॥।। ॥६-६-७॥
मित्रैर् वा अपि समान अर्थैर् बान्धवैर् अपि वा हितैः ।सहितो मन्त्रयित्वा यः कर्म आरम्भान् प्रवर्तयेत् ॥६-६-८॥।। ॥६-६-८॥
दैवे च कुरुते यत्नम् तम् आहुः पुरुष उत्तमम् ।एको अर्थम् विम्Rशेद् एको धर्मे प्रकुरुते मनः ॥६-६-९॥।। ॥६-६-९॥
एकः कार्याणि कुरुते तम् आहुर् मध्यमम् नरम् ।गुण दोषाव् अनिश्चित्य त्यक्त्वा दैव व्यपाश्रयम् ॥६-६-१०॥।। ॥६-६-१०॥
करिष्यामि इति यः कार्यम् उपेक्षेत् स नर अधमः ।यथा इमे पुरुषा नित्यम् उत्तम अधम मध्यमाः ॥६-६-११॥।। ॥६-६-११॥
एवम् मन्त्रो अपि विज्ञेय उत्तम अधम मध्यमः ।ऐकमत्यम् उपागम्य शास्त्र दृष्टेन चक्षुषा ॥६-६-१२॥।। ॥६-६-१२॥
मन्त्रिणो यत्र निरस्तास् तम् आहुर् मन्त्रम् उत्तमम् ।बह्व्यो अपि मतयो गत्वा मन्त्रिणो हि अर्थ निर्णये ॥६-६-१३॥।। ॥६-६-१३॥
पुनर् यत्र एकताम् प्राप्तः स मन्त्रो मध्यमः स्मृतः ।अन्योन्य मतिम् आस्थाय यत्र सम्प्रतिभाष्यते ॥६-६-१४॥।। ॥६-६-१४॥
न च ऐकमत्ये श्रेयो अस्ति मन्त्रः सो अधम उच्यते ।तस्मात् सुमन्त्रितम् साधु भवन्तो मन्त्रि सत्तमाः ॥६-६-१५॥।। ॥६-६-१५॥
कार्यम् सम्प्रतिपद्यन्ताम् एतत् कृत्यतमम् मम ।वानराणाम् हि वीराणाम् सहस्रैः परिवारितः ॥६-६-१६॥।। ॥६-६-१६॥
रामो अभ्येति पुरीम् लंकाम् अस्माकम् उपरोधकः ।तरिष्यति च सुव्यक्तम् राघवः सागरम् सुखम् ॥६-६-१७॥।। ॥६-६-१७॥
तरसा युक्त रूपेण सानुजः सबल अनुगः ।समुद्रमुच्छोषयति वीर्येणान्यत्करोति वा॥६-६-१८॥।। ॥६-६-१८॥
तस्मिन्न् एवम् गते कार्ये विरुद्धे वानरैः सह ।हितम् पुरे च सैन्ये च सर्वम् सम्मन्त्र्यताम् मम ॥६-६-१९॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 5
- Next: Yuddha-Kāṇḍa Sarga 7 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷