🪷 युद्धकाण्ड · Sarga 7
Yuddha-Kāṇḍa · The Book of War · Sarga 7 · 25 ślokas
🪷 Devanāgarī Ślokas
इति उक्ता राक्षस इन्द्रेण राक्षसास्ते महाबलाः ।ऊचुः प्रान्जलयः सर्वे रावणम् राक्षस ईश्वरम् ॥६-७-१॥।। ॥६-७-१॥
द्विष्त्पक्ष्ह्मविज्ञाय नीतिबाह्यास्त्वबुद्धयः ।राजन् परिघ शक्ति ऋष्टि शूल पट्टस सम्कुलम् ॥६-७-२॥।। ॥६-७-२॥
सुमहन् नो बलम् कस्माद् विषादम् भजते भवान् ।त्वया भोगवतीम् गत्वा निर्जताः पन्नगा युधि ॥६-७-३॥।। ॥६-७-३॥
कैलास शिखर आवासी यक्षैर् बहुभिर् आवृतः ।सुमहत् कदनम् कृत्वा वश्यस् ते धनदः कृतः ॥६-७-४॥।। ॥६-७-४॥
स महाईश्वर सख्येन श्लाघमानस् त्वया विभो ।निर्जितः समरे रोषाल् लोक पालो महाबलः ॥६-७-५॥।। ॥६-७-५॥
विनिहत्य च यक्षौघान् विक्षोभ्य च विगृह्य च ।त्वया कैलास शिखराद् विमानम् इदम् आहृतम् ॥६-७-६॥।। ॥६-७-६॥
मयेन दानव इन्द्रेण त्वद् भयात् सख्यम् इच्चता ।दुहिता तव भार्या अर्थे दत्ता राक्षस पुम्गव ॥६-७-७॥।। ॥६-७-७॥
दानव इन्द्रो मधुर् नाम वीर्य उत्सिक्तो दुरासदः ।विगृह्य वशम् आनीतः कुम्भीनस्याः सुख आवहः ॥६-७-८॥।। ॥६-७-८॥
निर्जितास् ते महाबाहो नागा गत्वा रसा तलम् ।वासुकिस् तक्षकः शन्खो जटी च वशम् आहृताः ॥६-७-९॥।। ॥६-७-९॥
अक्षया बलवन्तः च शूरा लब्ध वराः पुनः ।त्वया सम्वत्सरम् युद्ध्वा समरे दानवा विभो ॥६-७-१०॥।। ॥६-७-१०॥
स्व बलम् समुपाश्रित्य नीता वशम् अरिम् दम ।मायाः च अधिगतास् तत्र बहवो राक्षस अधिप ॥६-७-११॥।। ॥६-७-११॥
शूराः च बलवन्तः च वरुणस्य सुता रणे ।निर्जितास् ते महाबाग चतुर् विध बल अनुगाः ॥६-७-१२॥।। ॥६-७-१२॥
मृत्यु दण्ड महाग्राहम् शाल्मलि द्वीप मण्डितम् ।कालपाशमहाईचिम् यमकिम्करपन्नगम् ॥६-७-१३॥।। ॥६-७-१३॥
महाज्वरेण दुर्धर्षम् यमलोकमहार्णवम् ।अवगाह्य त्वया राजन् यमस्य बल सागरम् ॥६-७-१४॥।। ॥६-७-१४॥
जयः च विप्लुलः प्राप्तो मृत्युः च प्रतिषेधितः ।सुयुद्धेन च ते सर्वे लोकास् तत्र सुतोषिताः ॥६-७-१५॥।। ॥६-७-१५॥
क्षत्रियैर् बहुभिर् वीरैः शक्र तुल्य पराक्रमैः ।आसीद् वसुमती पूर्णा महद्भिर् इव पादपैः ॥६-७-१६॥।। ॥६-७-१६॥
तेषाम् वीर्य गुण उत्साहैर् न समो राघवो रणे ।प्रसह्य ते त्वया राजन् हताः परम दुर्जयाः ॥६-७-१७॥।। ॥६-७-१७॥
तिष्ठ वा किम् महाराज श्रमेण तव वानरान् ।अयमेको महारज इन्द्रजित् क्षपयिष्यति ॥६-७-१८॥।। ॥६-७-१८॥
अनेन हि महाराज महेश्वरमनुत्तमम् ।इष्ट्वा यज्ञम् वरो लब्धो लोके परमदुर्लभः ॥६-७-१९॥।। ॥६-७-१९॥
शक्तितोमरमीनम् च विनिकीर्णान्त्रशैवलम् ।गजकच्चपसम्बाधम्श्वमण्डूकसम्कुलम् ॥६-७-२०॥।। ॥६-७-२०॥
रुद्रादित्यमहाग्राहम् मरुद्वसुमहोरगम् ।रथश्वगजतोयौघम् पदातिपुलिनम् महत् ॥६-७-२१॥।। ॥६-७-२१॥
अनेन हि समासाद्य देवानाम् बलसागम् ।गृहीतो दैवतपतिर्लङ्काम् चापि प्रवेशितः ॥६-७-२२॥।। ॥६-७-२२॥
पीतामहनियोगाच्च मुक्तः शम्बरवृत्रहा ।गतस्त्रिविष्टपम् राजन् सर्वदेवनमस्कृतः ॥६-७-२३॥।। ॥६-७-२३॥
तमेव त्वम् महाराज विसृजेन्द्रजितम् सुतम् ।यावद्वानरसेनाम् ताम् परामाम् नयति क्ष्हयम् ॥६-७-२४॥।। ॥६-७-२४॥
राजन् न आपद् अयुक्ता इयम् आगता प्राकृताज् जनात् ।हृदि न एव त्वया कार्या त्वम् वधिष्यसि राघवम् ॥६-७-२५॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 6
- Next: Yuddha-Kāṇḍa Sarga 8 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷