🪷 युद्धकाण्ड · Sarga 8

Yuddha-Kāṇḍa · The Book of War · Sarga 8 · 24 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.8.1
ततो नील अम्बुद निभः प्रहस्तो नाम राक्षसः ।अब्रवीत् प्राञ्जलिर् वाक्यम् शूरः सेना पतिस्तदा ॥६-८-१॥।। ॥६-८-१॥
Vālmīki 6.8.2
देव दानव गन्धर्वाः पिशाचपतगौरगाः ।न त्वाम् धर्षयितुम् शक्ताः किम् पुनर् वानरा रणे ॥६-८-२॥।। ॥६-८-२॥
Vālmīki 6.8.3
सर्वे प्रमत्ता विश्वस्ता वन्चिताः स्म हनूमता ।न हि मे जीवतो गच्चेज् जीवन् स वन गोचरः ॥६-८-३॥।। ॥६-८-३॥
Vālmīki 6.8.4
सर्वाम् सागर पर्यन्ताम् सशैल वन काननाम् ।करोमि अवानराम् भूमिम् आज्ञापयतु माम् भवान् ॥६-८-४॥।। ॥६-८-४॥
Vālmīki 6.8.5
रक्षाम् चैव विधास्यामि वानराद् रजनी चर ।न आगमिष्यति ते दुह्खम् किम्चिद् आत्म अपराधजम् ॥६-८-५॥।। ॥६-८-५॥
Vālmīki 6.8.6
अब्रवीत्तम् सुसम्क्रुद्धो दुर्मुखो नाम राक्षसः ।इदम् न क्षमणीयम् हि सर्वेषाम् नः प्रधर्षणम् ॥६-८-६॥।। ॥६-८-६॥
Vālmīki 6.8.7
अयम् परिभवो भूयः पुरस्य अन्तः पुरस्य च ।श्रीमतो राक्षस इन्द्रस्य वानर इन्द्र प्रधर्षणम् ॥६-८-७॥।। ॥६-८-७॥
Vālmīki 6.8.8
अस्मिन् मुहूर्ते हत्वा एको निवर्तिष्यामि वानरान् ।प्रविष्टान् सागरम् भीमम् अम्बरम् वा रसा तलम् ॥६-८-८॥।। ॥६-८-८॥
Vālmīki 6.8.9
ततो अब्रवीत् सुसम्क्रुद्धो वज्र दम्ष्ट्रो महाबलः ।प्रगृह्य परिघम् घोरम् माम्स शोणित रूपितम् ॥६-८-९॥।। ॥६-८-९॥
Vālmīki 6.8.10
किम् नो हनुमता कार्यम् कृपणेन तपस्विना ।रामे तिष्ठति दुर्धर्षे सुग्रीवे सह लक्ष्मणे ॥६-८-१०॥।। ॥६-८-१०॥
Vālmīki 6.8.11
अद्य रामम् ससुग्रीवम् परिघेण सलक्ष्मणम् ।आगमिष्यामि हत्वा एको विक्षोभ्य हरि वाहिनीम् ॥६-८-११॥।। ॥६-८-११॥
Vālmīki 6.8.12
इदम् ममापरम् वाक्यम् शृणु राजन्यदीच्चसि ।उपायकुशलो ह्येव जयेच्चत्रुनतन्द्रितः ॥६-८-१२॥।। ॥६-८-१२॥
Vālmīki 6.8.13
कामरूपधराः शूराः सुभीमा भीमदर्शनाः ।राक्षसा वा सहस्राणि राक्षसाधिप निश्चिताः ॥६-८-१३॥।। ॥६-८-१३॥
Vālmīki 6.8.14
काकुत्थ्समुपसम्गम्य बिभ्रतो मानुषम् वपुः ।सर्वे ह्यसम्भ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम् ॥६-८-१४॥।। ॥६-८-१४॥
Vālmīki 6.8.15
प्रेषिता भरतेनैव भ्रात्रा तव यवीयसा ।स हि सेनाम् समुत्थाप्य क्षिप्रमेवोपयास्यति ॥६-८-१५॥।। ॥६-८-१५॥
Vālmīki 6.8.16
ततो वयमितस्तुर्णम् शूलशक्तिगदाधराः ।चापबाणासिहस्तश्च त्वरितास्तत्र यामहे ॥६-८-१६॥।। ॥६-८-१६॥
Vālmīki 6.8.17
आकाशे गणशः स्थित्वा हत्वा ताम् हरिवाहिनीम् ।अश्मशस्त्रमहावृष्ट्वा प्रापयाम् यमक्षयम् ॥६-८-१७॥।। ॥६-८-१७॥
Vālmīki 6.8.18
एवम् चेदुपसर्पेतामनयम् रामलक्ष्मणौ ।अवश्यमपनीतेन जहतामेव जीवितम् ॥६-८-१८॥।। ॥६-८-१८॥
Vālmīki 6.8.19
कौम्भकर्णिस् ततो वीरो निकुम्भो नाम वीर्यवान् ।अब्रवीत् परम कुर्द्धो रावणम् लोक रावणम् ॥६-८-१९॥।। ॥६-८-१९॥
Vālmīki 6.8.20
सर्वे भवन्तस् तिष्ठन्तु महाराजेन सम्गताः ।अहम् एको हनिष्यामि राघवम् सह लक्ष्मणम् ॥६-८-२०॥।। ॥६-८-२०॥
Vālmīki 6.8.21
सुग्रीवम् सहनूमन्तम् सर्वाम्श्चैवात्र वानरान् ।ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः ॥६-८-२१॥।। ॥६-८-२१॥
Vālmīki 6.8.22
क्रुद्धः परिलिहन् वक्त्रम् जिह्वया वाक्यम् अब्रवीत् ।स्वैरम् कुर्वन्तु कार्याणि भवन्तो विगत ज्वराः ॥६-८-२२॥।। ॥६-८-२२॥
Vālmīki 6.8.23
एको अहम् भक्षयिष्यामि तान् सर्वान् हरि यूथपान् ।स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधु वारुणीम् ॥६-८-२३॥।। ॥६-८-२३॥
Vālmīki 6.8.24
अहम् एको हनिष्यामि सुग्रीवम् सह लक्ष्मणम् ।स अन्गदम् च हनूमन्तम् रामम् च रण कुन्जरम् ॥६-८-२४॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷