🪷 युद्धकाण्ड · Sarga 9

Yuddha-Kāṇḍa · The Book of War · Sarga 9 · 25 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.9.1
ततो निकुम्भो रभसः सूर्य शत्रुर् महाबलः ।सुप्तघ्नो यज्ञ कोपः च महापार्श्वो महाउअरः ॥६-९-१॥।। ॥६-९-१॥
Vālmīki 6.9.2
अग्नि केतुः च दुर्धर्षो रश्मि केतुः च राक्षसः ।इन्द्रजिच् च महातेजा बलवान् रावण आत्मजः ॥६-९-२॥।। ॥६-९-२॥
Vālmīki 6.9.3
प्रहस्तो अथ विरूप अक्षो वज्र दम्ष्ट्रो महाबलः ।धूम्र अक्षः च अतिकायः च दुर्मुखः चैव राक्षसः ॥६-९-३॥।। ॥६-९-३॥
Vālmīki 6.9.4
परिघान् पट्टसान् प्रासान् शक्ति शूल परश्वधान् ।चापानि च सबाणानि खड्गामः च विपुलान् शितान् ॥६-९-४॥।। ॥६-९-४॥
Vālmīki 6.9.5
प्रगृह्य परम क्रुद्धाः समुत्पत्य च राक्षसाः ।अब्रुवन् रावणम् सर्वे प्रदीप्ता इव तेजसा ॥६-९-५॥।। ॥६-९-५॥
Vālmīki 6.9.6
अद्य रामम् वधिष्यामः सुग्रीवम् च सलक्ष्मणम् ।कृपणम् च हनूमन्तम् लंका येन प्रधर्षिता ॥६-९-६॥।। ॥६-९-६॥
Vālmīki 6.9.7
तान् गृहीत आयुधान् सर्वान् वारयित्वा विभीषणः ।अब्रवीत् प्रान्जलिर् वाक्यम् पुनः प्रत्युपवेश्य तान् ॥६-९-७॥।। ॥६-९-७॥
Vālmīki 6.9.8
अपि उपायैस् त्रिभिस् तात यो अर्थः प्राप्तुम् न शक्यते ।तस्य विक्रम कालाम्स् तान् युक्तान् आहुर् मनीषिणः ॥६-९-८॥।। ॥६-९-८॥
Vālmīki 6.9.9
प्रमत्तेष्व् अभियुक्तेषु दैवेन प्रहतेषु च ।विक्रमास् तात सिध्यन्ति परीक्ष्य विधिना कृताः ॥६-९-९॥।। ॥६-९-९॥
Vālmīki 6.9.10
अप्रमत्तम् कथम् तम् तु विजिगीषुम् बले स्थितम् ।जित रोषम् दुराधर्षम् प्रधर्षयितुम् इच्चथ ॥६-९-१०॥।। ॥६-९-१०॥
Vālmīki 6.9.11
समुद्रम् लन्घयित्वा तु घोरम् नद नदी पतिम् ।कृतम् हनुमता कर्म दुष्करम् तर्कयेत कः ॥६-९-११॥।। ॥६-९-११॥
Vālmīki 6.9.12
बलानि अपरिमेयानि वीर्याणि च निशा चराः ।परेषाम् सहसा अवज्ञा न कर्तव्या कथम्चन ॥६-९-१२॥।। ॥६-९-१२॥
Vālmīki 6.9.13
किम् च राक्षस राजस्य रामेण अपकृतम् पुरा ।आजहार जन स्थानाद् यस्य भार्याम् यशस्विनः ॥६-९-१३॥।। ॥६-९-१३॥
Vālmīki 6.9.14
खरो यदि अतिवृत्तस् तु रामेण निहतो रणे ।अवश्यम् प्राणिनाम् प्राणा रक्षितव्या यथा बलम् ॥६-९-१४॥।। ॥६-९-१४॥
Vālmīki 6.9.15
एतन् निमित्तम् वैदेही भयम् नः सुमहद् भवेत् ।आहृता सा परित्याज्या कलह अर्थे क्Rते न किम् ॥६-९-१५॥।। ॥६-९-१५॥
Vālmīki 6.9.16
न नः क्षमम् वीर्यवता तेन धर्म अनुवर्तिना ।वैरम् निरर्थकम् कर्तुम् दीयताम् अस्य मैथिली ॥६-९-१६॥।। ॥६-९-१६॥
Vālmīki 6.9.17
यावन् सगजाम् साश्वाम् बहु रत्न समाकुलाम् ।पुरीम् दारयते बाणैर् दीयताम् अस्य मैथिली ॥६-९-१७॥।। ॥६-९-१७॥
Vālmīki 6.9.18
यावत् सुघोरा महती दुर्धर्षा हरि वाहिनी ।न अवस्कन्दति नो लंकाम् तावत् सीता प्रदीयताम् ॥६-९-१८॥।। ॥६-९-१८॥
Vālmīki 6.9.19
विनश्येद्द् हि पुरी लंका शूराः सर्वे च आक्षसाः ।रामस्य दयिता पत्नी न स्वयम् यदि दीयते ॥६-९-१९॥।। ॥६-९-१९॥
Vālmīki 6.9.20
प्रसादये त्वाम् बन्धुत्वात् कुरुष्व वचनम् मम ।हितम् पथ्यम् त्व् अहम् ब्रूमि दीयताम् अस्य मैथिली ॥६-९-२०॥।। ॥६-९-२०॥
Vālmīki 6.9.21
पुरा शरत् सूर्य मरीच्चि सम्निभान् ।नव अग्र पुन्खान् सुदृढान् नृप आत्मजः ।।। ॥६-९-२१॥
Vālmīki 6.9.22
सृजति अमोघान् विशिखान् वधाय ते ।प्रदीयताम् दाशरथाय मैथिली ॥६-९-२१॥।। ॥६-९-२२॥
Vālmīki 6.9.23
त्यजस्व कोपम् सुख धर्म नाशनम् ।भजस्व धर्मम् रति कीर्ति वर्धनम् ।।। ॥६-९-२३॥
Vālmīki 6.9.24
प्रसीद जीवेम सपुत्र बान्धवाः ।प्रदीयताम् दाशरथाय मैथिली ॥६-९-२२॥।। ॥६-९-२४॥
Vālmīki 6.9.25
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ।विसर्जयित्वा तान् सर्वान् प्रैवेश स्वकम् गृहम् ॥६-९-२५॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷