🪷 युद्धकाण्ड · Sarga 10
Yuddha-Kāṇḍa · The Book of War · Sarga 10 · 33 ślokas
🪷 Devanāgarī Ślokas
ततः प्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिश्चयः ।राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः ॥६-१०-१॥।। ॥६-१०-१॥
शैलाग्रचयसम्काशम् शैलशृज्~गमिवोन्नतम् ।सुविभक्तमहाकक्षम् महाजनपरिग्रहम् ॥६-१०-२॥।। ॥६-१०-२॥
मतिमद्भिर्महामात्रैरनुरकैरधिष्ठितम् ।राक्षसैराप्तपर्याप्तैह् सर्वतः परिरक्षितम् ॥६-१०-३॥।। ॥६-१०-३॥
मत्तमातज्~गनिःश्वासैर्व्याकुलीकृतमारुतम् ।शज्~खघोषमहाघोषम् तूर्यसम्बाधनादितम् ॥६-१०-४॥।। ॥६-१०-४॥
प्रमदाजनसम्बाधम् प्रजल्पितमहापथम् ।तप्तकाञ्चननिर्यूहम् भूषणोत्तमभूषितम् ॥६-१०-५॥।। ॥६-१०-५॥
गन्धर्वाणामिवावासमालयम् मरुतामिव ।रत्नसम्चयसम्बाधम् भवनम् भोगिनामिव ॥६-१०-६॥।। ॥६-१०-६॥
तम् महाभ्रमिवादित्य स्तेजोविस्तृतरश्मिमान् ।अग्रजस्यालयम् वीरः प्रविवेश महाद्युतिः ॥६-१०-७॥।। ॥६-१०-७॥
पुण्यान् पुण्याहघोषाम्श्च वेदिविद्भिरुदाहृतान् ।शुश्राव सुमहातेजा भ्रातुर्विजयसम्श्रितान् ॥६-१०-८॥।। ॥६-१०-८॥
पूजितान् दधिपात्रैश्च सर्पिर्भिः सुमनोक्षतैः ।मन्त्रवेदविदो विप्रान् ददर्श स महाबलः ॥६-१०-९॥।। ॥६-१०-९॥
स पूज्यमानो रक्षोभिद्दीप्यमानम् स्वतेजसा ।असवस्थम् महाबाहुर्ववन्दे धनदानुजम् ॥६-१०-१०॥।। ॥६-१०-१०॥
स राजदृष्टिसम्पन्नमासनम् हेमभूषितम् ।जगाम समुदाचारम् प्रयुज्याचारकोविदः ॥६-१०-११॥।। ॥६-१०-११॥
स रावणम् महात्मानम् विजने मन्त्रिसम्निधौ ।उवाच हितमत्यर्थम् वचनम् हेतुनिश्चितम् ॥६-१०-१२॥।। ॥६-१०-१२॥
प्रसाद्य भ्रातरम् ज्येष्ठम् सान्त्वेनोपस्थितक्रमः ।देशकालार्थसम्वादि दृष्टलोकपरावः ॥६-१०-१३॥।। ॥६-१०-१३॥
यदा प्रभृति वैदेही सम्प्राप्तेह परतप ।तदा प्रभृति दृश्यन्ते निमित्तान्यशुभानि नः ॥६-१०-१४॥।। ॥६-१०-१४॥
सस्फुलिज्~गः सधूमार्चिह् सधूमकलुषोदयः ।मन्त्रसम्घहुतोऽप्यग्निर्न सम्यगभिवर्धते ॥६-१०-१५॥।। ॥६-१०-१५॥
अग्निष्ठेष्वग्निशालासु तथा ब्रह्मस्थलीषु च ।परीपृपाणि दृश्यन्ते हव्येषु च पिपीलिकाः ॥६-१०-१६॥।। ॥६-१०-१६॥
गवाम् पयाम्सि स्कन्नानि विमदा वरकुञ्जराः ।दीनमश्वाः प्रहेषन्ते न च ग्रासाभिनन्दिनः ॥६-१०-१७॥।। ॥६-१०-१७॥
खरोष्ट्राश्वतरा राजन्भिन्न्रोमाः स्रवन्ति च ।न स्वभावेऽवतिष्ठन्ते विधानैरपि चिन्तताः ॥६-१०-१८॥।। ॥६-१०-१८॥
वायसाः सघशः क्रूरा व्याहरन्ति समन्ततः ।समवेताश्च दृश्यन्ते विमानाग्रेषु सम्घशः ॥६-१०-१९॥।। ॥६-१०-१९॥
गृध्राश्च परिलीयन्ते पुरीमुपरि पिण्डिताः ।उपपन्नाश्च सम्ध्ये द्वे व्याहरन्त्यशिवम् शिवाः ॥६-१०-२०॥।। ॥६-१०-२०॥
क्रव्यादानाम् मृगाणाम् च पुरीद्वारेषु सज्~घशः ।श्रूयन्ते विपुला घोषाः सविस्फूर्जितनिःस्वनाः ॥६-१०-२१॥।। ॥६-१०-२१॥
तदेवम् प्रस्तुते कार्ते प्रायश्चित्तमिदम् क्षमम् ।रोचये वीर वैदेही राघवाय प्रदीयताम् ॥६-१०-२२॥।। ॥६-१०-२२॥
इदम् च यदि वामोहाल्लोभाद्वा व्याहृतम् मया ।तत्राप् च महाराज न दोषम् कर्तुमर्हसि ॥६-१०-२३॥।। ॥६-१०-२३॥
अयम् हि दोषः सर्वस्य जनस्याप्योपलक्ष्यते ।रक्षसाम् राक्षसीनाम् च पुरस्यान्तः पुरस्य च ॥६-१०-२४॥।। ॥६-१०-२४॥
प्रापणे चास्य मन्त्रस्य निवृत्ताः सर्वमन्त्रिणः ।अवश्यम् च मया वाच्यम् यद्दृष्टमथवा श्रुतम् ॥६-१०-२५॥।। ॥६-१०-२५॥
सम्विधाय यथान्यायम् तद्भवान् कर्तुमर्हति ।इति स्वमन्त्रिणाम् मध्ये भ्राता भ्रातरमूचिवान् ॥६-१०-२६॥।। ॥६-१०-२६॥
रावणम् रक्षसाम् श्रेष्ठम् पथ्यमेतद्विभीषणः ।।। ॥६-१०-२७॥
हितम् महार्थम् मऋदु हेतुसम्हितम् ।व्यतीतकालायतिसम्प्रतिक्षमम् ।।। ॥६-१०-२८॥
निशम्य तद्वाक्यमुपस्थितज्वरः ।प्रसज्~गवानुत्तरमेत दब्रवीत् ॥६-१०-२७॥।। ॥६-१०-२९॥
भयम् न पश्यामि कुतश्चिदप्यहम् ।न राघवः प्राप्स्यति जातु मैथिलीम् ।।। ॥६-१०-३०॥
सुरैः सहेन्द्रैरपि सम्गरे कथम् ।ममाग्रतः स्थास्यति लक्ष्मणाग्रजः ॥६-१०-२८॥।। ॥६-१०-३१॥
इत्येवमुक्र्वा सुरसैन्यनाशनो ।महाबलः सम्यति चण्डविक्रमः ।।। ॥६-१०-३२॥
दशाननो भ्रातरमाप्तवादिनम् ।विसर्जयामास तदा विभीषणम् ॥६-१०-३३॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 9
- Next: Yuddha-Kāṇḍa Sarga 11 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷