🪷 युद्धकाण्ड · Sarga 11
Yuddha-Kāṇḍa · The Book of War · Sarga 11 · 32 ślokas
🪷 Devanāgarī Ślokas
स बभुव कृशो राजा मैथिलीकाममोहितः ।असन्मानाच्च सुहृदाम् पापः पापेन कर्मणाः ॥६-११-१॥।। ॥६-११-१॥
अतीतसमये काले तस्मिन्वे युधि रावणः ।अमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत ॥६-११-२॥।। ॥६-११-२॥
स हेमजालविततम् मणिविद्रुमभूषितम् ।उपगम्य विनीताश्वमारुरोह महार्थम् ॥६-११-३॥।। ॥६-११-३॥
तमास्थाय रथश्रेष्ठो महामेघसमस्वनम् ।प्रययौ रक्षसाम् श्रेष्ठो दशग्रीवः सभाम् प्रति ॥६-११-४॥।। ॥६-११-४॥
असिचर्मधरा योधाः सर्वायुधधरास्ततः ।राक्षसा राक्षसेन्द्रस्य पुरस्तात्सम्प्रतस्थिरे ॥६-११-५॥।। ॥६-११-५॥
नानाविकृतवेषाश्च नानाभूषणभूषिताः ।पार्श्वतः पृष्ठतश्चैनम् परिवार्य ययुस्तदा ॥६-११-६॥।। ॥६-११-६॥
रथैश्चातिरथा शीघ्रम् मतैश्च वरवारणैः ।अमात्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ॥६-११-७॥।। ॥६-११-७॥
गदापरिघहस्ताश्च शक्तितोमरपाणयः ।परश्वथधराश्चान्ये तथान्ये शूलपाणयः ॥६-११-८॥।। ॥६-११-८॥
ततस्तूर्यसहस्राणाम् सम्जज्ञे निःस्वनो महान् ।तुमुलः शङ्खशब्दश्च सभाम् गच्चति रवणे ॥६-११-९॥।। ॥६-११-९॥
स नेमिघोषेण महान्सहसाभिनिनादयन् ।राजमार्गम् श्रिया जुष्टम् प्रतिपेदे महारथः ॥६-११-१०॥।। ॥६-११-१०॥
विमलम् चातपत्रम् च पगृहीतमशोभत ।पाण्डुरम् राक्षसेन्द्रस्य पूर्णस्तारधिपो यथा ॥६-११-११॥।। ॥६-११-११॥
हेमञ्जरिगर्भे च शुद्धस्फटिकविग्रहे ।चामरव्यजने तस्य रेजतुः सव्यदक्षिणे ॥६-११-१२॥।। ॥६-११-१२॥
ते कृताञ्जलयः सर्वे रथस्थम् पृथिवीस्थिताः ।राक्ष्सा राक्षसश्रेष्ठम् शिरोभिस्तम् ववन्दिरे ॥६-११-१३॥।। ॥६-११-१३॥
राक्षनैः स्तूयमानः सन् जयाशीर्भिररिम्दमः ।अससाद महातेजाः सभाम् विरचिताम् तदा ॥६-११-१४॥।। ॥६-११-१४॥
सुवर्णरजतास्तीर्णाम् विशुद्धस्फटिकान्तराम् ।विराजमानो वपुषा रुक्मपट्टोत्तरच्चदाम् ॥६-११-१५॥।। ॥६-११-१५॥
ताम् पिशाचशतैः षड्भिरभिगुप्ताम् सदाप्रभाम् ।प्रविवेश महातेजाः सुकृताम् विश्वकर्मणा ॥६-११-१६॥।। ॥६-११-१६॥
तस्याम् स वैदूर्यमयम् प्रियाकाजिनसम्वृतम् ।महत्सोपाश्रयम् भेजे रावणः परमासनम् ॥६-११-१७॥।। ॥६-११-१७॥
ततः शशासेश्वरवद्दूतान् लघुपराक्रमान् ।समानयत मे क्षिप्रमिहैतान् राक्षसानिति ॥६-११-१८॥।। ॥६-११-१८॥
कृत्यमस्ति महाज्जाने कर्तव्यमिति शत्रुभिः ।राक्षसास्तद्वचः श्रुत्वा लङ्कायाम् परिचक्रमुः ॥६-११-१९॥।। ॥६-११-१९॥
अनुगेहमवस्थय विहारशयनेषु च ।उद्यानेषु च रक्क्षम्सि चोदयन्तो ह्यभीतवत् ॥६-११-२०॥।। ॥६-११-२०॥
ते रथान् रुचिरानेके दृप्तानेके दृढान् हयान् ।नागनेकेऽधिरुरुहुर्जग्मुश्चैके पदातयः ॥६-११-२१॥।। ॥६-११-२१॥
सा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः ।सम्पतद्भिर्विरुरुचे गरुत्मद्चिरिवामबरम् ॥६-११-२२॥।। ॥६-११-२२॥
ते वाहनान्यवस्थाप्य यानानि विविधानि च ।सभाम् पद्भिः प्रविविशुः सिम्हा गिरिगुहामिव ॥६-११-२३॥।। ॥६-११-२३॥
राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः ।पीठेष्वन्ये बृसीष्वन्ये भूमौ केचिदुपाविशन् ॥६-११-२४॥।। ॥६-११-२४॥
ते समेत्य सभायाम् वै राक्षसा राजशासनात् ।यथार्हमुपतस्थुस्ते रावणम् राक्षसाधिपम् ॥६-११-२५॥।। ॥६-११-२५॥
मन्त्रिणश्च यथामुख्या निश्चितार्थेषु पण्डिताः ।अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः ॥६-११-२६॥।। ॥६-११-२६॥
समीयुस्तत्र शतशः शूराश्च बहवस्तथा ।सभायाम् हेमवर्णायाम् सर्वार्थस्य सुखाय वै ॥६-११-२७॥।। ॥६-११-२७॥
ततो महात्मा विपुलम् सुयुग्यम् ।रथम् वरम् हेमविचित्रिताङ्गम् ।शुभम् समास्थाय ययौ यशस्वी ।विभीषणः सम्सदमग्रजस्य ॥६-११-२८॥।। ॥६-११-२८॥
स पूर्वजायावरजः शशम्स ।ना माथ पश्चाच्चरणौ ववन्दे ।शुकः प्रहस्तश्च तथैव तेभ्यो ।ददौ यथार्हम् प्R^थगासनानि ॥६-११-२९॥।। ॥६-११-२९॥
सुवर्णनानामणिभुषणानाम् ।सुवाससाम् सम्सदि राक्षसानाम् ।तेषाम् परार्थ्यगुरुचन्दनानाम् ।स्रजाम् च गन्धाः प्रववुः समन्तात् ॥६-११-३०॥।। ॥६-११-३०॥
न चुक्रुशुर्नानृतमाह कश्चि ।त्सभासदो नापि जजल्पुरुच्चैः ।सम्सिद्धार्थः सर्व एवोग्रवीर्या ।भर्तुः सर्वे ददृशुश्चाननम् ते ॥६-११-३१॥।। ॥६-११-३१॥
स रावणः शस्त्रभृताम् मनस्विनाम् ।महाबलानाम् समितौ मनस्वी ।तप्याम् सभायाम् प्रभया चकाशे ।मध्ये वसूनामिव वज्रहस्तः ॥६-११-३२॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 10
- Next: Yuddha-Kāṇḍa Sarga 12 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷