🪷 युद्धकाण्ड · Sarga 12

Yuddha-Kāṇḍa · The Book of War · Sarga 12 · 40 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.12.1
स ताम् परिषदम् कृत्स्नाम् समीक्ष्य समितिम्जयः ।प्रबोधयामास तदा प्रहस्तम् वाहिनीपतिम् ॥६-१२-१॥।। ॥६-१२-१॥
Vālmīki 6.12.2
सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः ।योधा नगररक्षायाम् तथा व्यादेष्टुमर्हसि ॥६-१२-२॥।। ॥६-१२-२॥
Vālmīki 6.12.3
स प्रहस्तः प्रतीतात्मा चिकीर्षन् राजशासनम् ।विनिक्षिपद् बलम् सर्वम् बहिरन्तश्च मन्दिरे ॥६-१२-३॥।। ॥६-१२-३॥
Vālmīki 6.12.4
ततो विनिक्षिप्य बलम् सर्वम् नगरगुप्तये ।प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ॥६-१२-४॥।। ॥६-१२-४॥
Vālmīki 6.12.5
विहितम् बहिरन्तश्च बलम् बलवतस्तव ।कुरुष्वाविमनाः क्षिप्रम् यदभिप्रेतमस्ति ते ॥६-१२-५॥।। ॥६-१२-५॥
Vālmīki 6.12.6
प्रहस्तस्य वचः श्रुत्वा राजा राज्यहितैषिणः ।सुखेप्सुः सुहृदाम् मध्ये व्याजहार स रावणः ॥६-१२-६॥।। ॥६-१२-६॥
Vālmīki 6.12.7
प्रियाप्रिये सुख दुःखम् लाभालाभे सिताहिते ।धर्मकामार्थकृच्च्रेषु यूयमार्हथ वेदितुम् ॥६-१२-७॥।। ॥६-१२-७॥
Vālmīki 6.12.8
सर्वकृत्यानि युष्माभिः समारब्धनि सर्वदा ।मन्त्रकर्मनियुक्तानि न जातु विफलानि मे ॥६-१२-८॥।। ॥६-१२-८॥
Vālmīki 6.12.9
ससोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः ।भवद्भिरहमत्यर्थम् वृतः श्रियमवाप्नुयाम् ॥६-१२-९॥।। ॥६-१२-९॥
Vālmīki 6.12.10
अहम् तु खलु सर्वन्वः समर्थयुतुमुद्यतः ।कुमभकर्णस्य तु स्वप्नान्नेममर्थमचोदयम् ॥६-१२-१०॥।। ॥६-१२-१०॥
Vālmīki 6.12.11
अयम् हि सुप्तः ष्ण्मासान् कुम्भकर्णो महाबलः ।सर्वशस्त्रभृतम् मुख्यः स इदानीम् समुत्थितः ॥६-१२-११॥।। ॥६-१२-११॥
Vālmīki 6.12.12
इयम् च दण्डकारण्Yआद्रामस्य महिषी प्रिया ।रक्षोभिश्चरितोद्देशादानीता जनकात्मजा ॥६-१२-१२॥।। ॥६-१२-१२॥
Vālmīki 6.12.13
सा मे न शय्यामारोढुमिच्चत्यलसगामिनी ।त्रिषुलोकेषु चान्या मे न सीतासदृशी मता ॥६-१२-१३॥।। ॥६-१२-१३॥
Vālmīki 6.12.14
तनुमध्या पृथुश्रोणी शरदिन्दुनिभानना ।हेमबिम्बनिभा सौम्यामायेव मयनिर्मिता ॥६-१२-१४॥।। ॥६-१२-१४॥
Vālmīki 6.12.15
सुलोहिततलौ श्लक्क्षणौ चरणौ सुप्रतिष्ठतौ ।दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः ॥६-१२-१५॥।। ॥६-१२-१५॥
Vālmīki 6.12.16
हुताग्निरर्चिःसम्काशामेनाम् सौरीमिव प्रभाम् ।उन्नसम् विमलम् वल्गु वदनम् चारुलोचनम् ॥६-१२-१६॥।। ॥६-१२-१६॥
Vālmīki 6.12.17
पश्यम्स्तदवशस्तस्याः कामस्य वशमेयिवान् ।क्रोधहर्षसमानेन दुर्वर्णकरणेन च ॥६-१२-१७॥।। ॥६-१२-१७॥
Vālmīki 6.12.18
शोकसम्तापनित्येन कामेन कलुषीकृतः ।सा तु सम्वत्सरम् कालम् मामयाचत भामिनी ॥६-१२-१८॥।। ॥६-१२-१८॥
Vālmīki 6.12.19
प्रतीक्षमाणा भर्तारम् राममायतलोचना ।तन्मया चारुनेत्रायाः प्रतिज्ञातम् वचः शुभम् ॥६-१२-१९॥।। ॥६-१२-१९॥
Vālmīki 6.12.20
श्रान्तोऽहम् सततम् कामाद्यातो हय इवाध्वनि ।कथम् सागरमक्षोभ्यम् तरिष्यन्ति वनौकसः ॥६-१२-२०॥।। ॥६-१२-२०॥
Vālmīki 6.12.21
बहुसत्त्वसमाकीर्णम् तौ वा दशरथात्मजौ ।अथवा कपिनैकेन कृतम् नः कदनम् महत् ॥६-१२-२१॥।। ॥६-१२-२१॥
Vālmīki 6.12.22
दुर्ज्ञेयाः कार्यगतयो ब्रूत यस्य यथामति ।मानुषान्नो भयम् नास्ति तथापि तु विमृश्यताम् ॥६-१२-२२॥।। ॥६-१२-२२॥
Vālmīki 6.12.23
तदा देवासुरे युद्दे युष्माभिः सहितोऽजयम् ।ते मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन् ॥६-१२-२३॥।। ॥६-१२-२३॥
Vālmīki 6.12.24
परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ ।सीतायाः पदवीम् प्राप्य सम्प्राप्तौ वरुणालयम् ॥६-१२-२४॥।। ॥६-१२-२४॥
Vālmīki 6.12.25
अदेया च यथा सीता वध्यौ दशरथात्मजौ ।भवद्भिर्मन्त्य्रताम् मन्त्रः सुनीतम् चाभिधीयताम् ॥६-१२-२५॥।। ॥६-१२-२५॥
Vālmīki 6.12.26
न हि शक्तिम् प्रपश्यामि जगत्यन्यस्य कस्यचित् ।सागरम् वानरैस्तीर्त्वा विश्चयेन जयो मम ॥६-१२-२६॥।। ॥६-१२-२६॥
Vālmīki 6.12.27
तस्य कामपरीतस्य निशम्य परिदेवितम् ।कुम्भकर्णः प्रचुक्रोध वचनम् चेदमब्रवीत् ॥६-१२-२७॥।। ॥६-१२-२७॥
Vālmīki 6.12.28
यदा तु रामस्य सलक्ष्मणस्य ।प्रसह्य सीता खलु पा इहाऽहृता ।सकृत्समीक्षैव सुनिश्चितम् तदा ।भजेत चित्तम् यमुनेव यामुनम् ॥६-१२-२८॥।। ॥६-१२-२८॥
Vālmīki 6.12.29
सर्वमेतन्महाराज कृतमप्रतिमम् तव ।विधीयेत सहास्माभिरादावेवास्य कर्मणः ॥६-१२-२९॥।। ॥६-१२-२९॥
Vālmīki 6.12.30
न्यायेन राजकार्याणि यः करोति दशानन ।न स सम्तप्यते पश्चान्निश्चतार्थमतिर्नृपः ॥६-१२-३०॥।। ॥६-१२-३०॥
Vālmīki 6.12.31
अनुपायेन कर्माणि विपरीतानि यानि च ।क्रियमाणानि दुष्यन्ति हवीम्ष्यप्रयतेष्विन ॥६-१२-३१॥।। ॥६-१२-३१॥
Vālmīki 6.12.32
यः पश्चात्पूर्वकार्याणि कर्माण्यभिचिकीर्षति ।पूर्वम् चापरकर्याणि न स वेद नयानयौ ॥६-१२-३२॥।। ॥६-१२-३२॥
Vālmīki 6.12.33
चपलस्य तु कृत्येषु प्रसमीक्स्याधिकम् बलम् ।चिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥६-१२-३३॥।। ॥६-१२-३३॥
Vālmīki 6.12.34
त्वयेदम् महादारभम् कार्य मप्रतिचिन्तितम् ।दिष्ट्या त्वाम् नावधीद्रामो विषमिश्रमिवामृतम् ॥६-१२-३४॥।। ॥६-१२-३४॥
Vālmīki 6.12.35
तस्मात्त्वया समारब्धम् कर्म ह्यप्रतिमम् परैः ।अहम् समीकरिष्यामि हत्वा शत्रूम् स्तनानघ ॥६-१२-३५॥।। ॥६-१२-३५॥
Vālmīki 6.12.36
अहमुत्सादयिष्यामि शत्रूम्स्तव निशाचर ।यदि शक्रविवस्वन्तौ यदि पावकमारुतौ ॥६-१२-३६॥।। ॥६-१२-३६॥
Vālmīki 6.12.37
तावहम् योधयिष्यामि कुबेरवरुणावपि ।गिरिमात्रशरीरस्य महापरिघयोधिनः ॥६-१२-३७॥।। ॥६-१२-३७॥
Vālmīki 6.12.38
नर्दतस्तीक्ष्णदम्ष्ट्रस्य बिभीयाद्वै पुरन्दरः ।पुनर्माम् सद्वितीयेन शरेण निहनिष्यति ॥६-१२-३८॥।। ॥६-१२-३८॥
Vālmīki 6.12.39
ततोऽहम् तस्य पास्यामि रुधिरम् काममाश्वस ।वधेव वै दाशरथेह् सुखावहम् ।जयम् तवाहर्तुमहम् तयिष्ये ।हत्वा च रामम् सह लक्ष्मणेन ।खादामि सर्वान् हरियूथमुख्यान् ॥६-१२-३९॥।। ॥६-१२-३९॥
Vālmīki 6.12.40
रमस्व कामम् पिब चाग्र्यवारुणीम् ।कुरुष्व कार्वाणि हितानि विज्वरः ।मया तु रामे गमिते यमक्षयम् ।चिराय सीता वशगा भविष्यति ॥६-१२-४०॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷