🪷 युद्धकाण्ड · Sarga 13

Yuddha-Kāṇḍa · The Book of War · Sarga 13 · 21 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.13.1
रावणम् क्रुद्धमाज्ञाय महापार्श्वो महाबलः ।मुहूर्त मनुसम्चिन्त्य प्राञ्जलिर्वाक्य मब्रवीत् ॥६-१३-१॥।। ॥६-१३-१॥
Vālmīki 6.13.2
यः खल्वपि वनम् प्राप्य मृगव्यालनिषेवितम् ।न पिबेन्मधु सम्प्राप्य स नरो बालिशो ध्रुवम् ॥६-१३-२॥।। ॥६-१३-२॥
Vālmīki 6.13.3
ईश्वरस्येश्वरः कोऽस्ति तव शत्रुनिबर्हण ।रमस्व सह वैदेह्या शत्रूनाक्रम्य मूर्धसु ॥६-१३-३॥।। ॥६-१३-३॥
Vālmīki 6.13.4
बलात्कुक्कुटवृत्तेन प्रवर्तस्व महाबल ।अक्रम्याक्रम्य सीताम् वै ताम् भुङिक्स्व च रमस्व च ॥६-१३-४॥।। ॥६-१३-४॥
Vālmīki 6.13.5
लब्धकामस्य ते पश्चादागमिष्यति किम् भयम् ।प्राप्तमप्राप्तकालम् वा सर्वम् प्रतिविधास्यते ॥६-१३-५॥।। ॥६-१३-५॥
Vālmīki 6.13.6
कुम्भकर्णः सहास्माभिरिन्द्रजिच्च महाबलः ।प्रतिषेधयितुम् शक्तौ सवज्रमपि वज्रिणम् ॥६-१३-६॥।। ॥६-१३-६॥
Vālmīki 6.13.7
उपप्रदानम् सान्त्वम् वा भेदम् वा कुशलैः कृतम् ।समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचये ॥६-१३-७॥।। ॥६-१३-७॥
Vālmīki 6.13.8
इह प्राप्तान्वयम् सर्वान् शत्रूम्स्तव महाबल ।वशे शस्त्रप्रतापेन करिष्यामो न सम्शयः ॥६-१३-८॥।। ॥६-१३-८॥
Vālmīki 6.13.9
एवमुक्तस्तदा राजा महापार्श्वएन रावणः ।तस्य सम्पूजयन्वाक्यमिदम् वचनमब्रवीत् ॥६-१३-९॥।। ॥६-१३-९॥
Vālmīki 6.13.10
महापार्श्व निबोध त्वम् रहस्यम् किम्चिदात्मनः ।चिरवृत्तम् तदाख्यास्ये यदवाप्तम् पुरा मया ॥६-१३-१०॥।। ॥६-१३-१०॥
Vālmīki 6.13.11
पितामहस्य भवनम् गच्चन्तीम् पुञ्जिकस्थलाम् ।चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव ॥६-१३-११॥।। ॥६-१३-११॥
Vālmīki 6.13.12
सा प्रसह्य मया भुक्ता कृता विवसना ततः ।स्वयम्भूभवनम् प्राप्ता लोलिता नलिनी यथा ॥६-१३-१२॥।। ॥६-१३-१२॥
Vālmīki 6.13.13
तच्च तस्य तदा मन्ये ज्ञातमासीन्महात्मनः ।अथ सम्कुपितो वेधा मामिदम् वाक्यमब्रवी ॥६-१३-१३॥।। ॥६-१३-१३॥
Vālmīki 6.13.14
अद्यप्रभृति यामन्याम् बलान्नारीम् गमिष्यसि ।तदा ते शतधा मुर्धा फलिष्यति न सम्शयः ॥६-१३-१४॥।। ॥६-१३-१४॥
Vālmīki 6.13.15
इत्यहम् तस्य शापस्य भीतः प्रसभमेव ताम् ।नारोहये बलात्सीताम् वैदेहीम् शय्ने शुभे ॥६-१३-१५॥।। ॥६-१३-१५॥
Vālmīki 6.13.16
सागरस्येव मे वेगो मारुतस्येव मे गतिः ।नैतद्दाशरथिर्वेद ह्यापादयति तेन माम् ॥६-१३-१६॥।। ॥६-१३-१६॥
Vālmīki 6.13.17
को हि सिम्हमिवासीनम् सुप्तम् गिरिगुहाशये ।क्रुद्धम् मृत्युमिवाऽसीनम् सम्बोधयितुमिच्चति ॥६-१३-१७॥।। ॥६-१३-१७॥
Vālmīki 6.13.18
न मत्तो निर्गतान् बाणान् द्विजिह्वान् पन्न्गानिव ।रामः पश्यति सम्ग्रामे तेन मामभिगच्चति ॥६-१३-१८॥।। ॥६-१३-१८॥
Vālmīki 6.13.19
क्षिप्रम् वज्रसमैर्बाणैः शतधा कार्मुकचुतैः ।राममादीपयिष्यामि उल्कभिरिव कुञ्जरम् ॥६-१३-१९॥।। ॥६-१३-१९॥
Vālmīki 6.13.20
तच्चास्य बलमादास्ये बलेन महता वृतः ।उदितः सविता काले नक्षत्राणाम् प्रभामिव ॥६-१३-२०॥।। ॥६-१३-२०॥
Vālmīki 6.13.21
न वासवेनापि सहस्रचक्षुषा ।युधास्मि शक्यो वरुणेन वा पुनः ।मया त्वियम् बाहुबलेन निर्जिता ।पुरा पुरी वैश्रवणेन पालिता ॥६-१३-२१॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷