🪷 युद्धकाण्ड · Sarga 14

Yuddha-Kāṇḍa · The Book of War · Sarga 14 · 22 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.14.1
निशाचरेन्द्रस्य निशम्य वाक्यम् ।स कुम्भकर्णस्य च गर्जितानि ।विभीषणो राक्षसराजमुख्य ।मुवाच वाक्यम् हितम्र्थयुक्तम् ॥६-१४-१॥।। ॥६-१४-१॥
Vālmīki 6.14.2
वृतो हि बाह्वन्तरभोगराशि ।श्चिन्ताविषः सुस्मिततीक्षणदम्ष्ट्रः ।पञ्चाङ्गुलीपञ्चशिरोऽतिकायः ।सीतामहाहिस्तव केन राजन् ॥६-१४-२॥।। ॥६-१४-२॥
Vālmīki 6.14.3
यावन्न लङ्का समभिद्रवन्ति ।वलीमुखाः पर्वतकूटमात्राः ।दम्ष्ट्रयुधाश्चैव नखायुधाश्च ।प्रदीयताम् दाशरथाय मैथिली ॥६-१४-३॥।। ॥६-१४-३॥
Vālmīki 6.14.4
यावन्न गृह्णन्ति शिराम्सि बाणा ।रामेरिता राक्षसपुङ्गवानाम् ।वज्रोपमा वायुसमानवेगाः ।प्रदीयताम् दाशरथाय मैथिली ॥६-१४-४॥।। ॥६-१४-४॥
Vālmīki 6.14.5
न कुम्भकर्णेन्द्रजितौ च राजम् ।स्तथा महापार्श्वमहोदरौ वा ।निकुम्भकुम्भौ च तथातिकायः ।स्थातुम् समर्था युधि राघवस्य ॥६-१४-५॥।। ॥६-१४-५॥
Vālmīki 6.14.6
जीवम्स्तु रामस्य न मोक्स्यसे त्वम् ।गुप्तः सवित्राप्यथवा मरुद्भिः ।न वासवस्याङ्कगतो न मृत्यो ।र्नभो न पातालमनुप्रविष्टः ॥६-१४-६॥।। ॥६-१४-६॥
Vālmīki 6.14.7
निशम्य वाक्यम् तु विभीषणस्य ।ततः प्रहस्तो वचनम् बभाषे ।न नो भयम् विद्म न दैवतेभ्यो ।न दानवेभ्योऽप्यथवा कदाचित् ॥६-१४-७॥।। ॥६-१४-७॥
Vālmīki 6.14.8
न यक्षगन्धर्वमहोरगेभ्यो ।भयम् न सम्ख्ये पतगोरगेभ्यः ।कथम् नु रामाद्भविता भयम् नो ।नरेन्द्रपुत्रात्समरे कदाचित् ॥६-१४-८॥।। ॥६-१४-८॥
Vālmīki 6.14.9
प्रहस्तवाक्यम् त्वहितम् निशम्य ।विभीषणो राजहितानुकाङिक्षी ।ततो महार्थम् वचनम् बभाषे ।धर्मार्थकामेषु निविष्टबुद्धिः ॥६-१४-९॥।। ॥६-१४-९॥
Vālmīki 6.14.10
प्रहस्त राजा च महोदरश्च ।त्वम् कुम्भकर्णश्च यथार्थजातम् ।ब्रवीत रामम् प्रति तन्न शक्यम् ।यथा गतिः स्वर्गमधर्मबुद्धेः ॥६-१४-१०॥।। ॥६-१४-१०॥
Vālmīki 6.14.11
वधस्तु रामस्य मया त्वया च ।प्रहस्त सर्वैरपि राक्षसैर्वा ।कथम् भवेदर्थविशारदस्य ।महार्णवम् तर्तु मिवाप्लवस्य ॥६-१४-११॥।। ॥६-१४-११॥
Vālmīki 6.14.12
धर्मप्रधानस्य महारथस्य ।इक्स्वाकुवम्शप्रभवस्य राज्ञः ।पुरोऽस्य देवाश्च तथाविधस्य ।कृत्येषु शक्तस्य भवन्ति मूढाः ॥६-१४-१२॥।। ॥६-१४-१२॥
Vālmīki 6.14.13
तीक्षणा न तावत्तव कङ्कपत्रा ।दुरापदा राघवविप्रमुक्ताः ।भित्त्वाशरीरम् प्रविशन्ति बाणाः ।प्रहस्त तेनैव विकत्थसे त्वम् ॥६-१४-१३॥।। ॥६-१४-१३॥
Vālmīki 6.14.14
भित्त्वा न तावत्प्रविशन्ति कायम् ।प्राणान्तकास्तेऽशनितुल्य्वेगाः ।शिताः शरा राघवविप्रमुक्ताः ।प्रहस्त तेनैव विकत्थसे त्वम् ॥६-१४-१४॥।। ॥६-१४-१४॥
Vālmīki 6.14.15
न रावणो नाइबलस्त्रीशीर्षो ।न कुम्भकर्णस्य सुतो निकुभः ।न चेन्द्रजिद्दाशरथिम् प्रसोढुम् ।त्वम् वा रणे शक्रसमम् समर्थः ॥६-१४-१५॥।। ॥६-१४-१५॥
Vālmīki 6.14.16
देवान्तको वापि नरान्तको वा ।तथातिकायोऽतिरथो महात्मा ।अकम्पननश्चाद्रिसमानसारः ।स्थातुम् न शक्ता युधि राघवस्य ॥६-१४-१६॥।। ॥६-१४-१६॥
Vālmīki 6.14.17
अयम् च राजा न्यसनाभिभूतो ।मित्रैरमित्रप्रतिमैर्भवद्भिः ।अन्वास्यते राक्षसनाशनार्थे ।तीक्षणः प्रकृत्या ह्यसमीक्ष्यकारी ॥६-१४-१७॥।। ॥६-१४-१७॥
Vālmīki 6.14.18
अनन्तभोगेन सहस्रमूर्ध्ना ।वागेन भीमेन महाबलेन ।बलात्परिक्षिप्तमिमम् भवन्तो ।राजानमुत्क्षिप्य विमोचयन्तु ॥६-१४-१८॥।। ॥६-१४-१८॥
Vālmīki 6.14.19
यावद्धि केशग्रहणात्सुहृद्भिः ।समेत्य सर्वैः परिपूर्णकामैः ।निगृह्य राजा परिरक्षितव्यो ।भूतैर्यथा भीमबलैर्गृहीअः ॥६-१४-१९॥।। ॥६-१४-१९॥
Vālmīki 6.14.20
सुवारिणा राघवसागरेण ।प्रच्चाद्यमानस्तरसा भवद्भिः ।प्रच्चाद्यमानस्तरसा भवद्भिः ।युक्तस्त्वयम् तारयितुम् समेत्य ।काकुत्थ्सपातालमुखे पतन्सः ॥६-१४-२०॥।। ॥६-१४-२०॥
Vālmīki 6.14.21
इदम् पुरस्यास्य सराक्षसस्य ।राज्ञश्च पथ्यम् ससुहृज्जनस्य ।सम्यग्घि वाक्यम् स्वमतम् ब्रवीमि ।नरेन्द्रपुत्राय ददातु मैथिलीम् ॥६-१४-२१॥।। ॥६-१४-२१॥
Vālmīki 6.14.22
परस्य वीर्यम् स्वबलम् च बुद्ध्वा ।स्थानम् क्षयम् चैव तथैव वृद्धिम् ।तथा स्वपक्षे प्यनुमृश्य बुद्ध्या ।वद्त् क्षमम् स्वामिहितम् स मन्त्री ॥६-१४-२२॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷