🪷 युद्धकाण्ड · Sarga 15
Yuddha-Kāṇḍa · The Book of War · Sarga 15 · 14 ślokas
🪷 Devanāgarī Ślokas
बृहस्पतेस्तुल्यमतेर्वचस्त ।न्निशम्य यत्नेन विभीषणस्य ।ततो महात्मा वचनम् बभाषे ।तत्रेन्द्रजिन्नैरृतयूथमुख्यः ॥६-१५-१॥।। ॥६-१५-१॥
किम् नाम ते तात कनिष्ठ वाक्य ।मन्र्थकम् वै बहुभीतवच्च ।अस्मिन् कुले योऽपि भवेन्न जातः ।सोऽपीदृशम् नैव वदेन्न कुर्यात् ॥६-१५-२॥।। ॥६-१५-२॥
सत्त्वेन वीर्येण पराक्रमेणधैर्येण शौर्येण च तेजसा च ।एकः कुलेऽस्मिन् पुरुषो विमुक्तो ।विभीषणस्तातकनिष्ठ एषः ॥६-१५-३॥।। ॥६-१५-३॥
किम् नाम तौ मानुषराजपुत्रा ।वस्माकमेकेन हि राक्षसेन ।सुप्राकृतेनापि निहन्तुमेतौ ।शक्यौ कुतो भीषयसे स्म भीरो ॥६-१५-४॥।। ॥६-१५-४॥
त्रिलोकनाथो नम देवराजः ।शक्तो मया भूमितले विविष्टः ।भयार्मिताश्चापि दिशः प्रपन्नाः ।सर्वे तदा देवगणाः समग्राः ॥६-१५-५॥।। ॥६-१५-५॥
ऐरावतो विस्वरमुन्नदन् स ।निपातितो भूमितले मया तु ।विकृष्य दन्तौ तु मया प्रपह्य ।वित्रासिता देवगणाः समग्राः ॥६-१५-६॥।। ॥६-१५-६॥
सोऽहम् सुराणामपि दर्पहन्ता ।दैत्योत्तमानामपि शोककर्ता ।कथम् नरेन्द्रत्मजयोर्न शक्तो ।ममष्ययोः प्राकृतयोः सुवीर्यः ॥६-१५-७॥।। ॥६-१५-७॥
अथेन्द्रकल्पस्य दुरासदस्य ।महाजसस्तद्वचनम् निशम्य ।ततो महार्थम् वचनम् बभाषे ।विभीषणः शस्त्रभृताम् वरिष्ठः ॥६-१५-८॥।। ॥६-१५-८॥
न तात मन्त्रे तव निश्चयोऽस्ति ।बालस्त्वमद्याप्यविपक्वबुद्धिः ।तस्मात्त्वयाप्यात्मविनाशनाय ।वचोऽर्थ्हीनम् बहु विप्रलप्तम् ॥६-१५-९॥।। ॥६-१५-९॥
पुत्रप्रवादेन तु रावणस्य ।त्वमिन्द्रजिन्मित्रमुखोऽसि शत्रुः ।यस्येदृशम् राघवतो विनाशम् ।विशम्य मोहादनुवन्यसे त्वम् ॥६-१५-१०॥।। ॥६-१५-१०॥
त्वमेव वध्यश्च सुदुर्मतिश्च ।स चापि वध्यो य ऐहानयत्त्वाम् ।बालम् दृढम् साहासिकम् च योऽद्य ।प्रावेशयन्मन्त्रक्R^ताम् समीपम् ॥६-१५-११॥।। ॥६-१५-११॥
मूढोऽप्रगल्भोऽविनयोपपन्न ।स्तीक्षणस्वभावोऽल्पमतिर्दुरात्मा ।मूर्खस्त्वमत्यन्तसुदुर्मतिश्च ।त्वमिन्द्रजिद्बालतया ब्रवीषि ॥६-१५-१२॥।। ॥६-१५-१२॥
को ब्रह्मदण्डप्रतिमप्रकाशा ।नर्चिष्मतः कालनिकाशरूपान् ।सहेत बाणान्यमदण्डकल्पा ।न्समक्षमुक्तान्युधि राघवेण ॥६-१५-१३॥।। ॥६-१५-१३॥
धनानि रत्नानि सुभूषणानि ।वापाम्पि दिव्यानि मणीम्श्च चित्रान् ।सीताम् च रामाय निवेद्य देवीम् ।वसेम राजन्निह वीतशोकाः ॥६-१५-१४॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 14
- Next: Yuddha-Kāṇḍa Sarga 16 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷