🪷 युद्धकाण्ड · Sarga 16
Yuddha-Kāṇḍa · The Book of War · Sarga 16 · 27 ślokas
🪷 Devanāgarī Ślokas
सुनिविष्टम् हितम् वाक्यम् उक्तवन्तम् विभीषणम् ।अब्रवीत् परुषम् वाक्यम् रावणः काल चोदितः ॥६-१६-१॥।। ॥६-१६-१॥
वसेत् सह सपत्नेन क्रुद्धेन आशी विषेण च ।न तु मित्र प्रवादेन सम्वस्च्चत्रुणा सह ॥६-१६-२॥।। ॥६-१६-२॥
जानामि शीलम् ज्ञातीनाम् सर्व लोकेषु राक्षस ।हृष्यन्ति व्यसनेष्वेते ज्ञातीनाम् ज्ञातयः सदा ॥६-१६-३॥।। ॥६-१६-३॥
प्रधानम् साधकम् वैद्यम् धर्म शीलम् च राक्षस ।ज्ञातयो ह्यनमन्यन्ते शूरम् परिभवन्ति च ॥६-१६-४॥।। ॥६-१६-४॥
नित्यम् अन्योन्य सम्हृष्टा व्यसनेष्वाततायिनः ।प्रच्चन्न हृदया घोरा ज्ञातयस् तु भय आवहाः ॥६-१६-५॥।। ॥६-१६-५॥
श्रूयन्ते हस्तिभिर् गीताः श्लोकाः पद्म वने पुरा ।पाश हस्तान् नरान् दृष्ट्वा शृणु तान् गदतो मम ॥६-१६-६॥।। ॥६-१६-६॥
नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः ।घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः ॥६-१६-७॥।। ॥६-१६-७॥
उपायमेते वक्ष्यन्ति ग्रहणे नात्रसम्शयः ।कृत्स्नाद् भयाज्ज्ञातिभयम् सुकष्टम् विदितम् च नः ॥६-१६-८॥।। ॥६-१६-८॥
विद्यते गोषु सम्पन्नम् विद्यते ज्ञातितो भयम् ।विद्यते स्त्रीषु चापल्यम् विद्यते ज्ञातितो भयम् ॥६-१६-९॥।। ॥६-१६-९॥
ततो नेष्टम् इदम् सौम्य यदहम् लोक सत्कृतः ।ऐश्वर्यम् अभिजातः च रिपूणाम् मूर्ध्नि च स्थितः ॥६-१६-१०॥।। ॥६-१६-१०॥
यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः ।न श्लेषमभिगच्चन्ति तथानार्येषु सौहृदम् ॥६-१६-११॥।। ॥६-१६-११॥
यथा शरदि मेघानाम् सिञ्चातामपि गर्जताम् ।न भवत्यमुबसम्क्लेदस्तथानार्येषु सौहृदम् ॥६-१६-१२॥।। ॥६-१६-१२॥
यथा मधुकरस्तर्षाद्रासम् विन्दन्न तिष्ठति ।तथा त्वमपि तत्रैव तथानार्येषु सौहृदम् ॥६-१६-१३॥।। ॥६-१६-१३॥
यथा मधुकर्स्तराषात्काशपुष्पम् पिबन्नपि ।रसमत्र न विन्देत तथानार्येषु सौहृदम् ॥६-१६-१४॥।। ॥६-१६-१४॥
यथा पूर्वम् गजः स्नात्वा गृह्य हस्तेन वै रजः ।दूषयत्यात्मनो देहम् तथानार्येषु सौहृदम् ॥६-१६-१५॥।। ॥६-१६-१५॥
योऽन्यस्त्वेवम्विधम् ब्रूयाद् वाक्यमेतन्निशाचर ।अस्मिन् मुहूर्ते न भवेत् त्वाम् तु धिक् कुलपाम्सनम् ॥६-१६-१६॥।। ॥६-१६-१६॥
इतिउक्तः परुषम् वाक्यम् न्यायवादी विभीषणः ।उत्पपात गदापाणिःचतुर्भिः सह राक्षसैः ॥६-१६-१७॥।। ॥६-१६-१७॥
अब्रवीच्च तदा वाक्यम् जातक्रोधो विभीषणः ।अन्तरिक्षगतः श्रीमान् भ्रातरम् राक्षस अधिपम् ॥६-१६-१८॥।। ॥६-१६-१८॥
स त्वम् भ्राता असि मे राजन् ब्रूहि माम् यद् यद् इच्चसि ।ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः ॥६-१६-१९॥।। ॥६-१६-१९॥
इदम् तु परुषम् वाक्यम् न क्षमामि अनृतम् तव ।सुनीतम् हित कामेन वाक्यम् उक्तम् दश आनन ॥६-१६-२०॥।। ॥६-१६-२०॥
न गृह्णन्ति अकृत आत्मानः कालस्य वशमागताः ।सुलभाः पुरुषा राजन् सततम् प्रिय वादिनः ॥६-१६-२१॥।। ॥६-१६-२१॥
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ।बद्धम् कालस्य पाशेन सर्व भूत अपहारिणा ॥६-१६-२२॥।। ॥६-१६-२२॥
न नश्यन्तम् उपेक्षेयम् प्रदीप्तम् शरणम् यथा ।दीप्त पावक सम्काशैः शितैः कान्चन भूषणैः ॥६-१६-२३॥।। ॥६-१६-२३॥
न त्वाम् इच्चामि अहम् द्रष्टुम् रामेण निहतम् शरैः ।शूराः च बलवन्तः च कृत अस्त्राः च नर आजिरे ॥६-१६-२४॥।। ॥६-१६-२४॥
काल अभिपन्ना सीदन्ति यथा वालुक सेतवः ।तनर्षयतु यच्चोक्तम् गुरुत्वाद्धितमिच्चता ॥६-१६-२५॥।। ॥६-१६-२५॥
आत्मानम् सर्वथा रक्ष पुरीम् च इमाम् सराक्षसाम् ।स्वस्ति ते अस्तु गमिष्यामि सुखी भव मया विना ॥६-१६-२६॥।। ॥६-१६-२६॥
निवार्यमाणस्य मया हित एषिणा ।न रोचते ते वचनम् निशा चर ।परीत काला हि गत आयुषो नरा ।हितम् न गृह्णन्ति सुहृद्भिर् ईरितम् ॥६-१६-२७॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 15
- Next: Yuddha-Kāṇḍa Sarga 17 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷