🪷 युद्धकाण्ड · Sarga 17
Yuddha-Kāṇḍa · The Book of War · Sarga 17 · 68 ślokas
🪷 Devanāgarī Ślokas
इति उक्त्वा परुषम् वाक्यम् रावणम् रावण अनुजः ।आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ॥६-१७-१॥।। ॥६-१७-१॥
तम् मेरु शिखर आकारम् दीप्ताम् इव शत ह्रदाम् ।गगनस्थम् महीस्थास् ते ददृशुर् वानर अधिपाः ॥६-१७-२॥।। ॥६-१७-२॥
ते चाप्यनुचरास्तस्य चत्वारो भीमविक्रमाः ।तेऽपि वर्मायुधोपेता भूषणोत्तमभूषिताः ॥६-१७-३॥।। ॥६-१७-३॥
स च मेघाचलप्रख्यो वज्रायुधसमप्रभः ।वरायुधधरो वीरो दिव्याभरणभूषितः ॥६-१७-४॥।। ॥६-१७-४॥
तम् आत्म पन्चमम् दृष्ट्वा सुग्रीवो वानर अधिपः ।वानरैः सह दुर्धर्षः चिन्तयाम् आस बुद्धिमान् ॥६-१७-५॥।। ॥६-१७-५॥
चिन्तयित्वा मुहूर्तम् तु वानराम्स् तान् उवाच ह ।हनूमत् प्रमुखान् सर्वान् इदम् वचनम् उत्तमम् ॥६-१७-६॥।। ॥६-१७-६॥
एष सर्व आयुध उपेतः चतुर्भिः सह राक्षसैः ।राक्षसो अभ्येति पश्यध्वम् अस्मान् हन्तुम् न सम्शयः ॥६-१७-७॥।। ॥६-१७-७॥
सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानर उत्तमाः ।सालान् उद्यम्य शैलामः च इदम् वचनम् अब्रुवन् ॥६-१७-८॥।। ॥६-१७-८॥
शीघ्रम् व्यादिश नो राजन् वधाय एषाम् दुरात्मनाम् ।निपतन्तु हताः च एते धरण्याम् अल्प जीविताः ॥६-१७-९॥।। ॥६-१७-९॥
तेषाम् सम्भाषमाणानाम् अन्योन्यम् स विभीषणः ।उत्तरम् तीरम् आसाद्य खस्थ एव व्यतिष्ठत ॥६-१७-१०॥।। ॥६-१७-१०॥
स उवाच च महाप्राज्ञः स्वरेण महता महान् ।सुग्रीवम् तामः च सम्प्रेक्ष्य खस्थ एव विभीषणः ॥६-१७-११॥।। ॥६-१७-११॥
रावणो नाम दुर्वृत्तो राक्षसो राक्षस ईश्वरः ।तस्य अहम् अनुजो भ्राता विभीषण इति श्रुतः ॥६-१७-१२॥।। ॥६-१७-१२॥
तेन सीता जन स्थानाद्द् हृता हत्वा जटायुषम् ।रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता ॥६-१७-१३॥।। ॥६-१७-१३॥
तम् अहम् हेतुभिर् वाक्यैर् विविधैः च न्यदर्शयम् ।साधु निर्यात्यताम् सीता रामाय इति पुनः पुनः ॥६-१७-१४॥।। ॥६-१७-१४॥
स च न प्रतिजग्राह रावणः काल चोदितः ।उच्यमानो हितम् वाक्यम् विपरीत इव औषधम् ॥६-१७-१५॥।। ॥६-१७-१५॥
सो अहम् परुषितस् तेन दासवच् च अवमानितः ।त्यक्त्वा पुत्रामः च दारामः च राघवम् शरणम् गतः ॥६-१७-१६॥।। ॥६-१७-१६॥
निवेदेअयत माम् क्षिप्रम् राघवाय महात्मने ।सर्व लोक शरण्याय विभीषणम् उपस्थितम् ॥६-१७-१७॥।। ॥६-१७-१७॥
एतत्तु वचनम् श्रुत्वा सुग्रीवो लघु विक्रमः ।लक्ष्मणस्य अग्रतो रामम् सम्रब्धम् इदम् अब्रवीत् ॥६-१७-१८॥।। ॥६-१७-१८॥
प्रविष्टः शत्रु सैन्यम् हि प्राप्तः शत्रुरतर्कितः ।निहन्यादन्न्तरम् लब्ध्वा उलूको वायसानिव ॥६-१७-१९॥।। ॥६-१७-१९॥
मन्त्रे व्यूहे नये चारे युक्तो भवितुमर्हसि ।वानराणाम् च भद्रम् ते परेषाम् च परम्तप ॥६-१७-२०॥।। ॥६-१७-२०॥
अन्तर्धनगताह्येते राक्षसाः कामरूपिणः ।शूराश्च निकृतिज्ञाश्च तेषाम् जातु न विश्वसेत् ॥६-१७-२१॥।। ॥६-१७-२१॥
प्रणीधी राक्षसेन्द्रस्य रावणस्य भवेदयम् ।अनुप्रविश्य सोऽ स्मासु भेदम् कुर्यान्न सम्शयः ॥६-१७-२२॥।। ॥६-१७-२२॥
अथवा स्वयमेवैष चिद्रमासाद्य बुद्धिमान् ।अनुप्रविश्य विश्वस्ते कदाचित्प्रहरेदपि ॥६-१७-२३॥।। ॥६-१७-२३॥
मित्राटवीबलम् चैव मौलभृत्यबलम् तथा ।सर्वमेतद्बलम् ग्राह्यम् वर्जयित्वा द्विषद्बलम् ॥६-१७-२४॥।। ॥६-१७-२४॥
प्रकृत्या राक्षसो ह्येष भ्रातामित्रस्य वै प्रभो ।आगतश्च रिपोः साक्षात्कथमस्मिम्श्च विश्वसेत् ॥६-१७-२५॥।। ॥६-१७-२५॥
रावणस्य अनुजो भ्राता विभीषण इति श्रुतः ।चतुर्भिः सह रक्षोभिर् भवन्तम् शरणम् गतः ॥६-१७-२६॥।। ॥६-१७-२६॥
रावणेन प्रणिहितम् तम् अवेहि विभीषणम् ।तस्य अहम् निग्रहम् मन्ये क्षमम् क्षमवताम् वर ॥६-१७-२७॥।। ॥६-१७-२७॥
राक्षसो जिह्मया बुद्ध्या सम्दिष्टो अयम् उपस्थितः ।प्रहर्तुम् मायया चन्नो विश्वस्ते त्वयि राघव ॥६-१७-२८॥।। ॥६-१७-२८॥
बध्यताम् एष तीव्रेण दण्डेन सचिवैः सह ।रावणस्य नृशम्सस्य भ्राता हि एष विभीषणः ॥६-१७-२९॥।। ॥६-१७-२९॥
एवम् उक्त्वा तु तम् रामम् सम्रब्धो वाहिनी पतिः ।वाक्यज्ञो वाक्य कुशलम् ततो मौनम् उपागमत् ॥६-१७-३०॥।। ॥६-१७-३०॥
सुग्रीवस्य तु तद् वाक्यम् श्रुत्वा रामो महाबलः ।समीपस्थान् उवाच इदम् हनूमत् प्रमुखान् हरीन् ॥६-१७-३१॥।। ॥६-१७-३१॥
यद् उक्तम् कपि राजेन रावण अवरजम् प्रति ।वाक्यम् हेतुमद् अत्यर्थम् भवद्भिर् अपि तत् श्रुतम् ॥६-१७-३२॥।। ॥६-१७-३२॥
सुहृदा हि अर्थ कृच्चेषु युक्तम् बुद्धिमता सता ।समर्थेन अपि सम्देष्टुम् शाश्वतीम् भूतिम् इच्चता ॥६-१७-३३॥।। ॥६-१७-३३॥
इति एवम् परिपृष्टास् ते स्वम् स्वम् मतम् अतन्द्रिताः ।स उपचारम् तदा रामम् ऊचुर् हित चिकीर्षवः ॥६-१७-३४॥।। ॥६-१७-३४॥
अज्ञातम् न अस्ति ते किम्चित् त्रिषु लोकेषु राघव ।आत्मानम् पूजयन् राम पृच्चसि अस्मान् सुहृत्तया ॥६-१७-३५॥।। ॥६-१७-३५॥
त्वम् हि सत्य व्रतः शूरो धार्मिको दृढ विक्रमः ।परीक्ष्य कारा स्मृतिमान् निसृष्ट आत्मा सुहृत्सु च ॥६-१७-३६॥।। ॥६-१७-३६॥
तस्माद् एक एकशस् तावद् ब्रुवन्तु सचिवास् तव ।हेतुतो मति सम्पन्नाः समर्थाः च पुनः पुनः ॥६-१७-३७॥।। ॥६-१७-३७॥
इति उक्ते राघवाय अथ मतिमान् अन्गदो अग्रतः ।विभीषण परीक्षा अर्थम् उवाच वचनम् हरिः ॥६-१७-३८॥।। ॥६-१७-३८॥
शत्रोः सकाशात् सम्प्राप्तः सर्वथा शन्क्य एव हि ।विश्वास योग्यः सहसा न कर्तव्यो विभीषणः ॥६-१७-३९॥।। ॥६-१७-३९॥
चादयित्वा आत्म भावम् हि चरन्ति शठ बुद्धयः ।प्रहरन्ति च रन्ध्रेषु सो अनर्थः सुमहान् भवेत् ॥६-१७-४०॥।। ॥६-१७-४०॥
अर्थ अनर्थौ विनिश्चित्य व्यवसायम् भजेत ह ।गुणतः सम्ग्रहम् कुर्याद् दोषतस् तु विसर्जयेत् ॥६-१७-४१॥।। ॥६-१७-४१॥
यदि दोषो महाम्स् तस्मिम्स् त्यज्यताम् अविशन्कितम् ।गुणान् वा अपि बहून् ज्ञात्वा सम्ग्रहः क्रियताम् नृप ॥६-१७-४२॥।। ॥६-१७-४२॥
शरभस् त्व् अथ निश्चित्य सार्थम् वचनम् अब्रवीत् ।क्षिप्रम् अस्मिन् नर व्याघ्र चारः प्रतिविधीयताम् ॥६-१७-४३॥।। ॥६-१७-४३॥
प्रणिधाय हि चारेण यथावत् सूक्ष्म बुद्धिना ।परीक्ष्य च ततः कार्यो यथा न्यायम् परिग्रहः ॥६-१७-४४॥।। ॥६-१७-४४॥
जाम्बवाम्स् त्व् अथ सम्प्रेक्ष्य शास्त्र बुद्ध्या विचक्षणः ।वाक्यम् विज्ञापयाम् आस गुणवद् दोष वर्जितम् ॥६-१७-४५॥।। ॥६-१७-४५॥
बद्ध वैराच् च पापाच् च राक्षस इन्द्राद् विभीषणः ।अदेश काले सम्प्राप्तः सर्वथा शन्क्यताम् अयम् ॥६-१७-४६॥।। ॥६-१७-४६॥
ततो मैन्दस् तु सम्प्रेक्ष्य नय अपनय कोविदः ।वाक्यम् वचन सम्पन्नो बभाषे हेतुमत्तरम् ॥६-१७-४७॥।। ॥६-१७-४७॥
अनुहो नाम तस्य एष रावणस्य विभीषणः ।पृच्च्यताम् मधुरेण अयम् शनैर् नर वर ईश्वर ॥६-१७-४८॥।। ॥६-१७-४८॥
भावम् अस्य तु विज्ञाय ततस् तत्त्वम् करिष्यसि ।यदि दृष्टो न दुष्टो वा बुद्धि पूर्वम् नरषभ ॥६-१७-४९॥।। ॥६-१७-४९॥
अथ सम्स्कार सम्पन्नो हनूमान् सचिव उत्तमः ।उवाच वचनम् श्लक्ष्णम् अर्थवन् मधुरम् लघु ॥६-१७-५०॥।। ॥६-१७-५०॥
न भवन्तम् मति श्रेष्ठम् समर्थम् वदताम् वरम् ।अतिशाययितुम् शक्तो बृहस्पतिर् अपि ब्रुवन् ॥६-१७-५१॥।। ॥६-१७-५१॥
न वादान् न अपि सम्घर्षान् न आधिक्यान् न च कामतः ।वक्ष्यामि वचनम् राजन् यथा अर्थम् राम गौरवात् ॥६-१७-५२॥।। ॥६-१७-५२॥
अर्थ अनर्थ निमित्तम् हि यद् उक्तम् सचिवैस् तव ।तत्र दोषम् प्रपश्यामि क्रिया न हि उपपद्यते ॥६-१७-५३॥।। ॥६-१७-५३॥
ऋते नियोगात् सामर्थ्यम् अवबोद्धुम् न शक्यते ।सहसा विनियोगो हि दोषवान् प्रतिभाति मे ॥६-१७-५४॥।। ॥६-१७-५४॥
चार प्रणिहितम् युक्तम् यद् उक्तम् सचिवैस् तव ।अर्थस्य असम्भवात् तत्र कारणम् न उपपद्यते ॥६-१७-५५॥।। ॥६-१७-५५॥
अदेश काले सम्प्राप्त इति अयम् यद् विभीषणः ।विवक्षा च अत्र मे अस्ति इयम् ताम् निबोध यथा मति ॥६-१७-५६॥।। ॥६-१७-५६॥
स एष देशः कालः च भवति इह यथा तथा ।पुरुषात् पुरुषम् प्राप्य तथा दोष गुणाव् अपि ॥६-१७-५७॥।। ॥६-१७-५७॥
दौरात्म्यम् रावणे दृष्ट्वा विक्रमम् च तथा त्वयि ।युक्तम् आगमनम् तस्य सदृशम् तस्य बुद्धितः ॥६-१७-५८॥।। ॥६-१७-५८॥
अज्ञात रूपैः पुरुषैः स राजन् पृच्च्यताम् इति ।यद् उक्तम् अत्र मे प्रेक्षा काचिद् अस्ति समीक्षिता ॥६-१७-५९॥।। ॥६-१७-५९॥
पृच्च्यमानो विशन्केत सहसा बुद्धिमान् वचः ।तत्र मित्रम् प्रदुष्येत मिथ्य पृष्टम् सुख आगतम् ॥६-१७-६०॥।। ॥६-१७-६०॥
अशक्यः सहसा राजन् भावो वेत्तुम् परस्य वै ।अन्तः स्वभावैर् गीतैस् तैर् नैपुण्यम् पश्यता भृशम् ॥६-१७-६१॥।। ॥६-१७-६१॥
न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्ट भावता ।प्रसन्नम् वदनम् च अपि तस्मान् मे न अस्ति सम्शयः ॥६-१७-६२॥।। ॥६-१७-६२॥
अशन्कित मतिः स्वस्थो न शठः परिसर्पति ।न च अस्य दुष्टा वागस्ति तस्मान् न अस्ति इह सम्शयः ॥६-१७-६३॥।। ॥६-१७-६३॥
आकारः चाद्यमानो अपि न शक्यो विनिगूहितुम् ।बलाद्द् हि विवृणोति एव भावम् अन्तर् गतम् नृणाम् ॥६-१७-६४॥।। ॥६-१७-६४॥
देश काल उपपन्नम् च कार्यम् कार्यविदाम् वर ।सफलम् कुरुते क्षिप्रम् प्रयोगेण अभिसम्हितम् ॥६-१७-६५॥।। ॥६-१७-६५॥
उद्योगम् तव सम्प्रेक्ष्य मिथ्या वृत्तम् च रावणम् ।वालिनः च वधम् श्रुत्वा सुग्रीवम् च अभिषेचितम् ॥६-१७-६६॥।। ॥६-१७-६६॥
राज्यम् प्रार्थयमानः च बुद्धि पूर्वम् इह आगतः ।एतावत् तु पुरस् कृत्य युज्यते त्व् अस्य सम्ग्रहः ॥६-१७-६७॥।। ॥६-१७-६७॥
यथा शक्ति मया उक्तम् तु राक्षसस्य आर्जवम् प्रति ।प्रमाणम् तु शेषस्य श्रुत्वा बुद्धिमताम् वर ॥६-१७-६८॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 16
- Next: Yuddha-Kāṇḍa Sarga 18 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷