🪷 युद्धकाण्ड · Sarga 18

Yuddha-Kāṇḍa · The Book of War · Sarga 18 · 42 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.18.1
राघवेन अभये दत्ते सम्नतो रावण अनुजः ।विभीषणो महाप्राज्ञो भूमिम् समवलोकयत् ॥६-१९-१॥।। ॥६-१८-१॥
Vālmīki 6.18.2
खात् पपात अवनिम् हृष्टो भक्तैर् अनुचरैः सह ।स तु रामस्य धर्म आत्मा निपपात विभीषणः ॥६-१९-२॥।। ॥६-१८-२॥
Vālmīki 6.18.3
पादयोः शरण अन्वेषी चतुर्भिः सह राक्षसैः ।अब्रवीच् च तदा रामम् वाक्यम् तत्र विभीषणः ॥६-१९-३॥।। ॥६-१८-३॥
Vālmīki 6.18.4
धर्म युक्तम् च युक्तम् च साम्प्रतम् सम्प्रहर्षणम् ।अनुजो रावणस्य अहम् तेन च अस्मि अवमानितः ॥६-१९-४॥।। ॥६-१८-४॥
Vālmīki 6.18.5
भवन्तम् सर्व भूतानाम् शरण्यम् शरणम् गतः ।परित्यक्ता मया लंका मित्राणि च धनानि च ॥६-१९-५॥।। ॥६-१८-५॥
Vālmīki 6.18.6
भवद् गतम् हि मे राज्यम् च जीवितम् च सुखानि च ।तस्य तद्वचनम् श्रुत्वा रामो वचनमब्रवीत् ॥६-१९-६॥।। ॥६-१८-६॥
Vālmīki 6.18.7
वचसा सान्त्वयित्वैनम् लोचनाभ्याम् पिबन्निव ।आख्याहि मम तत्वेन राक्षसानाम् बलाबलम् ॥६-१९-७॥।। ॥६-१८-७॥
Vālmīki 6.18.8
एवमुक्तम् तदा रक्षो रामेणाक्लिष्टकर्मणा ।रावणस्य बलम् सर्वमाख्यातुमुपचक्रमे ॥६-१९-८॥।। ॥६-१८-८॥
Vālmīki 6.18.9
अवध्यः सर्वभूतानाम् गन्धर्वोरगपक्षिणाम् ।राजपुत्र दशग्रीवो वरदानात्स्वयम्भुवः ॥६-१९-९॥।। ॥६-१८-९॥
Vālmīki 6.18.10
रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् ।कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ॥६-१९-१०॥।। ॥६-१८-१०॥
Vālmīki 6.18.11
राम सेनापतिस्तस्य प्रहस्तो यदि ते श्रुतः ।कैलासे येन सम मणिभद्रः पराजितः ॥६-१९-११॥।। ॥६-१८-११॥
Vālmīki 6.18.12
बद्दगोधाङ्गुलित्रश्च अवध्यकवचो युधि ।धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ॥६-१९-१२॥।। ॥६-१८-१२॥
Vālmīki 6.18.13
सम्ग्रामे सुमहद्व्यूहे तर्पयित्वा हुताशनम् ।अन्तर्धानगतः श्रीमानिन्द्रजिद्धन्ति राघव ॥६-१९-१३॥।। ॥६-१८-१३॥
Vālmīki 6.18.14
महोदरमहापार्स्वौ राक्षसश्चाप्यकम्पनः ।अवीकपास्तु तप्यैते लोकपालसमा युधि ॥६-१९-१४॥।। ॥६-१८-१४॥
Vālmīki 6.18.15
दशकोटिसहस्राणि रक्षसाम् कामरूपिणाम् ।माम्सशोणितभक्ष्याणाम् लङ्कापुरनिवासिनाम् ॥६-१९-१५॥।। ॥६-१८-१५॥
Vālmīki 6.18.16
स तैस्तु सहितो राजा लोकपालानयोधयत् ।सह देवैस्तु ते भग्ना रावणेन दुरात्मना ॥६-१९-१६॥।। ॥६-१८-१६॥
Vālmīki 6.18.17
विभीषणस्य तु वचस्तछ्रुत्वा रघुसत्तमः ।अन्वीक्ष्य मनसा सर्वमिदम् वचनमब्रवीत् ॥६-१९-१७॥।। ॥६-१८-१७॥
Vālmīki 6.18.18
यानि कर्मापदानानि रावणस्य विभीषण ।अख्यातानि च तत्त्वेन ह्यवगच्चामि तान्यहम् ॥६-१९-१८॥।। ॥६-१८-१८॥
Vālmīki 6.18.19
अहम् हत्वा दशग्रीवम् सप्रहस्तम् सहात्मजम् ।राजानम् त्वाम् करिष्यामि सत्यमेतच्छृणोतु मे ॥६-१९-१९॥।। ॥६-१८-१९॥
Vālmīki 6.18.20
रसातलम् वा प्रविशेत्पातालम् वापि रावणः ।पितामहसकाशम् वा न मे जीवन्विमोक्ष्यते ॥६-१९-२०॥।। ॥६-१८-२०॥
Vālmīki 6.18.21
अहत्वा रावणम् सम्ख्ये सपुत्रजनबान्धवम् ।अयोध्याम् न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रतृभिः शपेः ॥६-१९-२१॥।। ॥६-१८-२१॥
Vālmīki 6.18.22
श्रुत्वा तु वचनम् तस्य रामस्याक्लिष्टकर्मणः ।शिरसा वन्द्य धर्मात्मा वक्तुमेव प्रचक्रमे ॥६-१९-२२॥।। ॥६-१८-२२॥
Vālmīki 6.18.23
राक्षसानाम् वधे साह्यम् लंकायाः च प्रधर्षणे ।करिष्यामि यथा प्राणम् प्रवेक्ष्यामि च वाहिनीम् ॥६-१९-२३॥।। ॥६-१८-२३॥
Vālmīki 6.18.24
इति ब्रुवाणम् रामस् तु परिष्वज्य विभीषणम् ।अब्रवील् लक्ष्मणम् प्रीतः समुद्राज् जलम् आनय ॥६-१९-२४॥।। ॥६-१८-२४॥
Vālmīki 6.18.25
तेन च इमम् महाप्राज्ञम् अभिषिन्च विभीषणम् ।राजानम् रक्षसाम् क्षिप्रम् प्रसन्ने मयि मानद ॥६-१९-२५॥।। ॥६-१८-२५॥
Vālmīki 6.18.26
एवम् उक्तस् तु सौमित्रिर् अभ्यषिन्चद् विभीषणम् ।मध्ये वानर मुख्यानाम् राजानम् राम शासनात् ॥६-१९-२६॥।। ॥६-१८-२६॥
Vālmīki 6.18.27
तम् प्रसादम् तु रामस्य दृष्ट्वा सद्यः प्लवम् गमाः ।प्रचुक्रुशुर् महानादान् साधु साध्व् इति च अब्रुवन् ॥६-१९-२७॥।। ॥६-१८-२७॥
Vālmīki 6.18.28
अब्रवीच् च हनूमामः च सुग्रीवः च विभीषणम् ।कथम् सागरम् अक्षोभ्यम् तराम वरुण आलयम् ॥६-१९-२८॥।। ॥६-१८-२८॥
Vālmīki 6.18.29
सैन्यैः परिवृताः सर्वे वानराणाम् महौजसाम् ।उपायैर् अभिगच्चामो यथा नद नदी पतिम् ॥६-१९-२९॥।। ॥६-१८-२९॥
Vālmīki 6.18.30
तराम तरसा सर्वे ससैन्या वरुण आलयम् ।एवम् उक्तस् तु धर्मज्ञः प्रत्युवाच विभीषणः ॥६-१९-३०॥।। ॥६-१८-३०॥
Vālmīki 6.18.31
समुद्रम् राघवो राजा शरणम् गन्तुम् अर्हति ।खानितः सगरेण अयम् अप्रमेयो महाउदधिः ॥६-१९-३१॥।। ॥६-१८-३१॥
Vālmīki 6.18.32
कर्तुम् अर्हति रामस्य ज्ञातेः कार्यम् महाउदधिः ।एवम् विभीषणेन उक्ते राक्षसेन विपश्चिता ॥६-१९-३२॥।। ॥६-१८-३२॥
Vālmīki 6.18.33
आजगामथ सुग्रीवो यत्र रामः सलक्ष्मणः ।ततश्चाख्यातुमारेभे विभीषणवचः शुभम् ॥६-१९-३३॥।। ॥६-१८-३३॥
Vālmīki 6.18.34
सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ।प्रकृत्या धर्म शीलस्य राघवस्य अपि अरोचत ॥६-१९-३४॥।। ॥६-१८-३४॥
Vālmīki 6.18.35
स लक्ष्मणम् महातेजाः सुग्रीवम् च हरि ईश्वरम् ।सत् क्रिया अर्थम् क्रिया दक्षः स्मित पूर्वम् उवाच ह ॥६-१९-३५॥।। ॥६-१८-३५॥
Vālmīki 6.18.36
विभीषणस्य मन्त्रो अयम् मम लक्ष्मण रोचते ।सुग्रीवः पण्डितो नित्यम् भवान् मन्त्र विचक्षणः ॥६-१९-३६॥।। ॥६-१८-३६॥
Vālmīki 6.18.37
उभाभ्याम् सम्प्रधार्य आर्यम् रोचते यत् तद् उच्यताम् ।एवम् उक्तौ तु तौ वीराव् उभौ सुग्रीव लक्ष्मणौ ॥६-१९-३७॥।। ॥६-१८-३७॥
Vālmīki 6.18.38
समुदाचार सम्युक्तम् इदम् वचनम् ऊचतुः ।किम् अर्थम् नो नर व्याघ्र न रोचिष्यति राघव ॥६-१९-३८॥।। ॥६-१८-३८॥
Vālmīki 6.18.39
विभीषणेन यत् तु उक्तम् अस्मिन् काले सुख आवहम् ।अबद्ध्वा सागरे सेतुम् घोरे अस्मिन् वरुण आलये ॥६-१९-३९॥।। ॥६-१८-३९॥
Vālmīki 6.18.40
लंका न आसादितुम् शक्या स इन्द्रैर् अपि सुर असुरैः ।विभीषणस्य शूरस्य यथा अर्थम् क्रियताम् वचः ॥६-१९-४०॥।। ॥६-१८-४०॥
Vālmīki 6.18.41
अलम् काल अत्ययम् कृत्वा समुद्रो अयम् नियुज्यताम् ।यथा कालात्ययम् कृत्वा सागराय नियुज्यताम् ॥६-१९-४१॥।। ॥६-१८-४१॥
Vālmīki 6.18.42
एवम् उक्तः कुश आस्तीर्णे तीरे नद नदी पतेः ।सम्विवेश तदा रामो वेद्याम् इव हुत अशनः ॥६-१८-४२॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷