🪷 युद्धकाण्ड · Sarga 19

Yuddha-Kāṇḍa · The Book of War · Sarga 19 · 44 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.19.1
राघवेणाभये दत्ते सन्नता रावणानुजः ।विभीषणो महापाज्ञो भूमिं समवलोकयन् ।खात्पपातावनीं हृष्टो भक्तैरनुचरैः सह ।। ६.१९.१ ।।।। ॥६-१९-१॥
Vālmīki 6.19.2
स तु रामस्य धर्मात्मा निपपात विभीषणः ।पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः ।। ६.१९.२ ।।।। ॥६-१९-२॥
Vālmīki 6.19.3
अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः ।धर्मयुक्तं च युक्तं च साम्प्रतं सम्प्रहर्षणम् ।। ६.१९.३ ।।।। ॥६-१९-३॥
Vālmīki 6.19.4
अनुजो रावणस्याहं तेन चाप्यवमानितः ।भवन्तं सर्वभूतानां शरण्यं शरणागतः ।। ६.१९.४ ।।४ ।।।। ॥६-१९-४॥
Vālmīki 6.19.5
परित्यक्ता मया लङ्का मित्राणि च धनानि वै ।भवद्गतं मे राज्यं च जीवितं च सुखानि च ।। ६.१९.५ ।।।। ॥६-१९-५॥
Vālmīki 6.19.6
तस्य तद्वचनं श्रुत्वा रामो वचनमब्रवीत् ।वचसा सान्त्वयित्वैनं लोचनाभ्यां पिबन्निव ।। ६.१९.६ ।।।। ॥६-१९-६॥
Vālmīki 6.19.7
आख्याहि मम तत्त्वेन राक्षसानां बलाबलम् ।। ६.१९.७ ।।।। ॥६-१९-७॥
Vālmīki 6.19.8
एवमुक्तस्तदा रक्षो रामेणाक्लिष्टकर्मणा ।रावणस्य बलं सर्वमाख्यातुमुपचक्रमे ।। ६.१९.८ ।।।। ॥६-१९-८॥
Vālmīki 6.19.9
अवध्यः सर्वभूतानां गन्धर्वासुररक्षसाम् ।राजपुत्र दशग्रीवो वरदानात् स्वयम्भुवः ।। ६.१९.९ ।।।। ॥६-१९-९॥
Vālmīki 6.19.10
रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् ।कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ।। ६.१९.१० ।।।। ॥६-१९-१०॥
Vālmīki 6.19.11
राम सेनापतिस्तस्य प्रहस्तो यदि वा श्रुतः ।कैलासे येन सङ्ग्रामे मणिभद्रः पराजितः ।। ६.१९.११ ।।।। ॥६-१९-११॥
Vālmīki 6.19.12
बद्धगोधाङ्गुलित्राणस्त्ववध्यकवचो युधि ।धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ।। ६.१९.१२ ।।।। ॥६-१९-१२॥
Vālmīki 6.19.13
सङ्ग्रामसमयव्यूहे तर्पयित्वा हुताशनम् ।अन्तर्धानगतः शत्रूनिन्द्रजिद्धन्ति राघव ।। ६.१९.१३ ।।।। ॥६-१९-१३॥
Vālmīki 6.19.14
महोदरमहापार्श्वौ राक्षसश्चाप्यकम्पनः ।अनीकस्थास्तु तस्यैते लोकपालसमा युधि ।। ६.१९.१४ ।।।। ॥६-१९-१४॥
Vālmīki 6.19.15
दशकोटिसहस्राणि राक्षसां कामरूपिणाम् ।मांसशोणितभक्षाणां लङ्कापुरनिवासिनाम् ।। ६.१९.१५ ।।।। ॥६-१९-१५॥
Vālmīki 6.19.16
स तैस्तु सहितो राजा लोकपालानयोधयत् ।। ६.१९.१६ ।।।। ॥६-१९-१६॥
Vālmīki 6.19.17
सह देवैस्तु ते भग्ना रावणेन महात्मना ।। ६.१९.१७ ।।।। ॥६-१९-१७॥
Vālmīki 6.19.18
विभीषणवचः श्रुत्वा रामो दृढपराक्रमः ।अन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत् ।। ६.१९.१८ ।।।। ॥६-१९-१८॥
Vālmīki 6.19.19
यानि कर्मापदानानि रावणस्य विभीषण ।आख्यातानि च तत्त्वेन ह्यवगच्छामि तान्यहम् ।। ६.१९.१९ ।।।। ॥६-१९-१९॥
Vālmīki 6.19.20
अहं हत्वा दशग्रीवं सप्रहस्तं सबान्धवम् ।राजानं त्वां करिष्यामि सत्यमेतद् ब्रवीमि ते ।। ६.१९.२० ।।।। ॥६-१९-२०॥
Vālmīki 6.19.21
रसातलं वा प्रविशेत् पातालं वापि रावणः ।पितामहसकाशं वा न मे जीवन् विमोक्ष्यते ।। ६.१९.२१ ।।।। ॥६-१९-२१॥
Vālmīki 6.19.22
अहत्वा रावणं सङ्ख्ये सपुत्रबलबान्धवम् ।अयोध्यां न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रातृभिः शपे ।। ६.१९.२२ ।।।। ॥६-१९-२२॥
Vālmīki 6.19.23
श्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः ।शिरसा ऽ ऽवन्द्य धर्मात्मा वक्तुमेवोपचक्रमे ।। ६.१९.२३ ।।।। ॥६-१९-२३॥
Vālmīki 6.19.24
राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणम् ।करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम् ।। ६.१९.२४ ।।।। ॥६-१९-२४॥
Vālmīki 6.19.25
इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम् ।अब्रवील्लक्ष्णणं प्रीतः समुद्राज्जलमानय ।। ६.१९.२५ ।।।। ॥६-१९-२५॥
Vālmīki 6.19.26
तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम् ।राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद ।। ६.१९.२६ ।।।। ॥६-१९-२६॥
Vālmīki 6.19.27
एवमुक्तस्तु सौमित्रिरभ्याषिञ्चद्विभीषणम् ।मध्येवानरमुख्यानां राजानं राजशासनात् ।। ६.१९.२७ ।।।। ॥६-१९-२७॥
Vālmīki 6.19.28
तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः ।प्रचुक्रुशुर्महात्मानं साधु साध्विति चाब्रुवन् ।। ६.१९.२८ ।।।। ॥६-१९-२८॥
Vālmīki 6.19.29
अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम् ।। ६.१९.२९ ।।।। ॥६-१९-२९॥
Vālmīki 6.19.30
कथं सागरमक्षोभ्यं तराम वरुणालयम् ।सैन्यैः परिवृताः सर्वे वानराणां महौजसाम् ।। ६.१९.३० ।।।। ॥६-१९-३०॥
Vālmīki 6.19.31
उपायं नाधिगच्छामो यथा नदनदीपतिम् ।तराम तरसा सर्वे ससैन्या वरुणालयम् ।एवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः ।। ६.१९.३१ ।।।। ॥६-१९-३१॥
Vālmīki 6.19.32
समुद्रं राघवो राजा शरणं गन्तुमर्हति ॥६-१९-३२॥
Vālmīki 6.19.33
र्वे ससैन्या वरुणालयम् ।खानितः सगरेणायमप्रमेयो महोदधिः ।कर्तुमर्हति रामस्य ज्ञात्वा कार्यं महामतिः ।। ६.१९.३३ ।।।। ॥६-१९-३३॥
Vālmīki 6.19.34
एवं विभीषणेनोक्तो राक्षसेन विपश्चिता ।आजगामाथ सुग्रीवो यत्र रामः सलक्ष्मणः ।। ६.१९.३४ ।।।। ॥६-१९-३४॥
Vālmīki 6.19.35
ततश्चाख्यातुमारेभे विभीषणवचः शुभम् ।सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ।। ६.१९.३५ ।।।। ॥६-१९-३५॥
Vālmīki 6.19.36
प्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत ।। ६.१९.३६ ।।।। ॥६-१९-३६॥
Vālmīki 6.19.37
स लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम् ।सत्क्रियार्थं क्रियादक्षः स्मितपूर्वमुवाच ह ।। ६.१९.३७ ।।।। ॥६-१९-३७॥
Vālmīki 6.19.38
विभीषणस्य मन्त्रो ऽयं मम लक्ष्मण रोचते ।ब्रूहि त्वं सहसुग्रीवस्तवापि यदि रोचते ।। ६.१९.३८ ।।।। ॥६-१९-३८॥
Vālmīki 6.19.39
सुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः ।उभाभ्यां सम्प्रधार्यार्थं रोचते यत्तदुच्यताम् ।। ६.१९.३९ ।।।। ॥६-१९-३९॥
Vālmīki 6.19.40
एवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौ ।समुदाचारसंयुक्तमिदं वचनमूचतुः ।। ६.१९.४० ।।।। ॥६-१९-४०॥
Vālmīki 6.19.41
किमर्थं नौ नरव्याघ्र न रोचिष्यति राघव ।विभीषणेन यच्चोक्तमस्मिन् काले सुखावहम् ।। ६.१९.४१ ।।।। ॥६-१९-४१॥
Vālmīki 6.19.42
अबद्ध्वा सागरे सेतुं घोरे ऽस्मिन् वरुणालये ।लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः ।। ६.१९.४२ ।।।। ॥६-१९-४२॥
Vālmīki 6.19.43
विभीषणस्य शूरस्य यथार्थं क्रियतां वचः ।अलं कालात्ययं कृत्वा समुद्रो ऽयं नियुज्यताम् ।यथा सैन्येन गच्छामः पुरीं रावणपालिताम् ।। ६.१९.४३ ।।।। ॥६-१९-४३॥
Vālmīki 6.19.44
एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः ।संविवेश तदा रामो वेद्यामिव हुताशनः ॥६-१९-४४॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷