🪷 युद्धकाण्ड · Sarga 20

Yuddha-Kāṇḍa · The Book of War · Sarga 20 · 36 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.20.1
ततो निविष्टाम् ध्वजिनीम् सुग्रीवेणाभिपालिताम् ।ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ॥६-२०-१॥।। ॥६-२०-१॥
Vālmīki 6.20.2
चारो राक्षसराजस्य रावणस्य दुरात्मनः ।ताम् दृष्ट्वा सर्वतोऽव्यग्रम् प्रतिगम्य स राक्षसः ॥६-२०-२॥।। ॥६-२०-२॥
Vālmīki 6.20.3
आविश्य लङ्काम् वेगेन राजानमिदमब्रवीत् ।एष वै वानरर्क्षघो लङ्काम् समभिवर्तते ॥६-२०-३॥।। ॥६-२०-३॥
Vālmīki 6.20.4
अगाधश्चाप्रमेयश्च द्वितीय इव सागरः ।पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ ॥६-२०-४॥।। ॥६-२०-४॥
Vālmīki 6.20.5
उत्तमौ रूपसम्पन्नौ सीतायाः पदमागतौ ।एतौ सागरमासाद्य सम्निविष्टौ महाद्युती ॥६-२०-५॥।। ॥६-२०-५॥
Vālmīki 6.20.6
बलम् चाकाशमावृत्य सर्वतो दशयोजनम् ।तत्त्वभूतम् महारज क्षिप्रम् वेदितुमर्हसि ॥६-२०-६॥।। ॥६-२०-६॥
Vālmīki 6.20.7
तव दूता महाराज क्षिप्रमर्हन्ति वेदितुम् ।उपप्रदानम् सान्त्वम् वा भेदो वात्र प्रयुज्यताम् ॥६-२०-७॥।। ॥६-२०-७॥
Vālmīki 6.20.8
शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः ।उवाच सहसा व्यग्रः सम्प्रधार्यार्थमात्मनः ॥६-२०-८॥।। ॥६-२०-८॥
Vālmīki 6.20.9
शुकम् नाम तदा रक्षो वाक्यमर्थविदाम् वरम् ।सुग्रीवम् ब्रूहि गत्वाशु राजानम् वचनान्मनु ॥६-२०-९॥।। ॥६-२०-९॥
Vālmīki 6.20.10
यथासम्देशमक्लीबम् शल्क्स्णया परया गिरा ।त्वम् वै महारज कुलप्रसूतो ।महाबलश्चर्क्षरजःसुतश्च ।न कश्चनार्थस्तव वास्त्यनर्थ ।स्तथापि मे भ्रातृसमो हरीश ॥६-२०-१०॥।। ॥६-२०-१०॥
Vālmīki 6.20.11
अहम् यद्यहरम् भार्याम् राजपुत्रस्य धीमतः ।किम् तत्र तव सुग्रीव किश्किन्धाम् प्रति गम्यताम् ॥६-२०-११॥।। ॥६-२०-११॥
Vālmīki 6.20.12
न हीयम् हरिभिर्लङ्का प्राप्तुम् शक्या कथम् चन ।देवैरपि सगन्धर्वैः किम् पुनर्नरवानरैः ॥६-२०-१२॥।। ॥६-२०-१२॥
Vālmīki 6.20.13
स तदा राक्षसेन्द्रेण सम्दिष्टो रजनीचरः ।शुको विहम्गमो भूत्वा तूर्णमाप्लुत्य चाम्बरम् ॥६-२०-१३॥।। ॥६-२०-१३॥
Vālmīki 6.20.14
स गत्वा दूरमध्वानमुपर्युपरि सागरम् ।सम्स्थितो ह्यम्बरे वाक्यम् सुग्रीव मदिमब्रवीत् ॥६-२०-१४॥।। ॥६-२०-१४॥
Vālmīki 6.20.15
सर्वमुक्तम् यथादिष्टम् रावणेन दुरात्मना ।तत्प्रपयन्तम् वचनम् तूर्णमाप्लुत्य वानराः ॥६-२०-१५॥।। ॥६-२०-१५॥
Vālmīki 6.20.16
प्रापद्यन्त तदा क्षिप्रम् लोप्तुम् हन्तुम् च मुष्टिभिः ।सर्वैः प्लवण्गैः प्रसभम् निगृहीतो निशाचरह् ॥६-२०-१६॥।। ॥६-२०-१६॥
Vālmīki 6.20.17
गगनाद्भूतले चाशु प्रतिगृह्यावतारितः ।वानरैः पीड्यमानस्तु शुको वचनमब्रवीत् ॥६-२०-१७॥।। ॥६-२०-१७॥
Vālmīki 6.20.18
न दूतान् घ्नन्ति काकुत्थ्स वार्यन्ताम् साधु वानराः ।यस्तु हित्वा मतम् भर्तुः स्वमतम् सम्प्रभाषते ॥६-२०-१८॥।। ॥६-२०-१८॥
Vālmīki 6.20.19
अनुक्तवादी दूतः सन्न् स दूतो वधमर्हति ।शुकस्य वचनम् रामः श्रुत्वा तु परिदेवितम् ॥६-२०-१९॥।। ॥६-२०-१९॥
Vālmīki 6.20.20
उवाच मा वधिस्टेति घ्नतः शाखामृगर्षभान् ।स च पत्रलघुद्भूत्वा हरिभिर्दर्शितेऽभये ॥६-२०-२०॥।। ॥६-२०-२०॥
Vālmīki 6.20.21
अन्तरिक्षे स्थितो भूत्वा पुनर्वचन मब्रवीत् ।सुग्रीव सत्त्वसम्पन्न महाबलपराक्रम ॥६-२०-२१॥।। ॥६-२०-२१॥
Vālmīki 6.20.22
किम् मया खलु नक्तव्यो रावणो लोकरावणः ।स एवमुक्तः प्लवगाधिपस्तदा ।प्लवङ्गमानामृषभो महाबलः ।उवाच वाक्यम् रजनीचरस्य ।चारम् शुकम् शुद्ध मदीनसत्त्वः ॥६-२०-२२॥।। ॥६-२०-२२॥
Vālmīki 6.20.23
स मेऽसि मित्रम् व तथानुकम्प्यो ।न चोपकर्तासि न मे प्रियोऽपि ।अरिश्च रामस्य सहानुबन्ध ।स्ततोऽसि वालीव वधार्ह वध्यः ॥६-२०-२३॥।। ॥६-२०-२३॥
Vālmīki 6.20.24
निहन्म्यहम् त्वाम् ससुतम् सबन्धुम् ।सज्ञातिवर्गम् रजनीचरेश ।लङ्काम् च सर्वाम् महता बलेन ।सर्वैः करिष्यामि समेत्य भस्म ॥६-२०-२४॥।। ॥६-२०-२४॥
Vālmīki 6.20.25
न मोक्ष्यसे रावण राघवस्य ।सर्वैः सहेन्द्रैदपि मूढ गुप्तः ।अन्तर्हतः सूर्यपथम् गतोऽपि।तथैव पातालमनुप्रविष्टः ॥६-२०-२५॥।। ॥६-२०-२५॥
Vālmīki 6.20.26
गिरीशपादम्बुजसम्गतो वा ।हतोऽसि रामेण शानुजस्त्वम् ॥६-२०-२६॥।। ॥६-२०-२६॥
Vālmīki 6.20.27
तस्य ते त्रिषु लोकेषु न पिशाचम् न राक्षसम् ।त्रातारमनुपश्यामि न गन्धर्वम् न चासुरम् ॥६-२०-२७॥।। ॥६-२०-२७॥
Vālmīki 6.20.28
अवधीस्त्वम् जरावृद्धम् गृध्राराजम् जटायुषम् ।किम् मते रामसाम्निध्ये सकाशे लक्ष्मणस्य च ॥६-२०-२८॥।। ॥६-२०-२८॥
Vālmīki 6.20.29
हृता सीता विशालाक्षि याम् त्वम् गृह्य न बुध्यसे ।महाबलम् महात्मानम् दुराधर्षम् सुरैरपि ॥६-२०-२९॥।। ॥६-२०-२९॥
Vālmīki 6.20.30
न बुध्यसे रघुश्रेष्ठम् यस्ते प्राणान् हरिष्यति ।ततोऽब्रवीद्वालिसुतोऽप्यङ्गदो हरिसत्तमः ॥६-२०-३०॥।। ॥६-२०-३०॥
Vālmīki 6.20.31
वायम् दूतो महाप्राज्ञ चारकः प्रतिभाति मे ।तुलितम् हि बलम् सर्वमनेन तव तिष्ठता ॥६-२०-३१॥।। ॥६-२०-३१॥
Vālmīki 6.20.32
गृह्यताम् मागमल्लङ्का मेतद्धि मम रोचते ।ततो राज्ञा समादिष्टाः समुत्पत्य वलीमुखाः ॥६-२०-३२॥।। ॥६-२०-३२॥
Vālmīki 6.20.33
जगृहुश्च बबन्धुश्च विलपन्तमनाथवत् ।शुकस्तु वानरैश्च ण्डैस्तत्र तैः सम्प्रपीडितः ॥६-२०-३३॥।। ॥६-२०-३३॥
Vālmīki 6.20.34
व्याचुक्रोश महात्मानम् रामम् दशरथात्मजम् ।लुप्येते मे बलात्पक्षौ भिद्येते मे तथाक्षिणी ॥६-२०-३४॥।। ॥६-२०-३४॥
Vālmīki 6.20.35
याम् च रात्रिम् मरिष्यामि जाये रात्रिम् च यामहम् ।एतस्मिन्नन्त्रे काले मन्मया चाशुभम् कृतम् ॥६-२०-३५॥।। ॥६-२०-३५॥
Vālmīki 6.20.36
सर्वम् तदुपपद्येथा जह्यम् चेद्यदि जीवितम् ।नाघातयत्तदा रामः श्रुत्वा तत्परिदेवितम् ॥६-२०-३६॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷