🪷 युद्धकाण्ड · Sarga 21
Yuddha-Kāṇḍa · The Book of War · Sarga 21 · 35 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 6.21local sarga route with all Sanskrit ślokasYuddha-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
ततः सागरवेलायाम् दर्भानास्तीर्य राघवः ।अञ्जलिम् प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ॥६-२१-१॥।।
बाहुम् भुजङ्गभोगाभमुपधायारिसूदनः ।मणिकाञ्चनकेयूरमुक्ताप्रवरभूषणैः ॥६-२१-२॥।।
भुजैः परमनारीणामभिमृष्टमनेकधा ॥६-२१-३॥।।
चन्दनागुरुभिश्चैव पुरस्तादभिसेवितम् ॥६-२१-४॥।।
बालसूर्यप्रकाशैश्च चन्दनैरुपशोभितम् ।शयने चोत्तमाङ्गेन सीतायाः शोभितम् पुरा ॥६-२१-५॥।।
तक्षकस्येव सम्भोगम् गङ्गाजलनिषेवितम् ।सम्गे युगसम्काशम् शत्रूणाम् शोकवर्धनम् ॥६-२१-६॥।।
सुह्R^दाम् नन्दनम् दीर्घम् सागरान्तव्यपाश्रयम् ।अस्यता च पुनः सव्यम् ज्याघातविगतत्वचम् ।दक्षिणो कक्षिणम् बहुम् महापरिघसम्निभम् ॥६-२१-७॥।।
गोसहस्रप्रदातारम् ह्युपधाय भुजम् महत् ।अद्य मे मरणम् वाथ तरणम् सागरस्य वा ॥६-२१-८॥।।
इति रामो धृतिम् कृत्वा महाबाहुर्महोदधिम् ।अधिशिश्ये च विधिवत्प्रयतोऽत्र स्थितो मुनिः ॥६-२१-९॥।।
तस्य रामस्य सुप्तस्य कुश आस्तीर्णे मही तले ।नियमाद् अप्रमत्तस्य निशास् तिस्रो अतिचक्रमुः ॥६-२१-१०॥।।
स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः ।उपासत तदा रामः सागरम् सरिताम् पतिम् ॥६-२१-११॥।।
न च दर्शयते मन्दस् तदा रामस्य सागरः ।प्रयतेन अपि रामेण यथा अर्हम् अभिपूजितः ॥६-२१-१२॥।।
समुद्रस्य ततः क्रुद्धो रामो रक्त अन्त लोचनः ।समीपस्थम् उवाच इदम् लक्ष्मणम् शुभ लक्ष्मणम् ॥६-२१-१३॥।।
अवलेपम् समुद्रस्य न दर्शयति यत् स्वयम् ।प्रशमः च क्षमा चैव आर्जवम् प्रिय वादिता ॥६-२१-१४॥।।
असामर्थ्यम् फलन्ति एते निर्गुणेषु सताम् गुणाः ।आत्म प्रशम्सिनम् दुष्टम् धृष्टम् विपरिधावकम् ॥६-२१-१५॥।।
सर्वत्र उत्सृष्ट दण्डम् च लोकः सत् कुरुते नरम् ।न साम्ना शक्यते कीर्तिर् न साम्ना शक्यते यशः ॥६-२१-१६॥।।
प्राप्तुम् लक्ष्मण लोके अस्मिन् जयो वा रण मूधनि ।अद्य मद् बाण निर्भिन्नैर् मकरैर् मकर आलयम् ।निरुद्ध तोयम् सौमित्रे प्लवद्भिः पश्य सर्वतः ॥६-२१-१७॥।।
भोगामः च पश्य नागानाम् मया भिन्नानि लक्ष्मण ॥६-२१-१८॥।।
महाभोगानि मत्स्यानाम् करिणाम् च करान् इह ।सशन्ख शुक्तिका जालम् समीन मकरम् शरैः ॥६-२१-१९॥।।
अद्य युद्धेन महता समुद्रम् परिशोषये ।क्षमया हि समायुक्तम् माम् अयम् मकर आलयः ॥६-२१-२०॥।।
असमर्थम् विजानाति धिक् क्षमाम् ईदृशे जने ।स दर्शयति साम्ना मे सागरो रूपमात्मनः ॥६-२१-२१॥।।
चापम् आनय सौमित्रे शरामः च आशी विष उपमान् ।समुद्रम् शोषयिष्यामि पद्भ्याम् यान्तु प्लवङ्गमाः ॥६-२१-२२॥।।
अद्य अक्षोभ्यम् अपि क्रुद्धः क्षोभयिष्यामि सागरम् ।वेलासु कृत मर्यादम् सहसा ऊर्मि समाकुलम् ॥६-२१-२३॥।।
निर्मर्यादम् करिष्यामि सायकैर् वरुण आलयम् ।महार्णवम् क्षोBहयिष्ये महादानवसम्कुलम् ॥६-२१-२४॥।।
एवम् उक्त्वा धनुष् पाणिः क्रोध विस्फारित ईक्षणः ।बभूव रामो दुर्धर्षो युग अन्त अग्निर् इव ज्वलन् ॥६-२१-२५॥।।
सम्पीड्य च धनुर् घोरम् कम्पयित्वा शरैर् जगत् ।मुमोच विशिखान् उग्रान् वज्राणि इव शत क्रतुः ॥६-२१-२६॥।।
ते ज्वलन्तो महावेगास् तेजसा सायक उत्तमाः ।प्रविशन्ति समुद्रस्य सलिलम् त्रस्त पन्नगम् ॥६-२१-२७॥।।
ततो वेगः समुद्रस्य सनक्र मकरो महान् ।स बभूव महाघोरः समारुत रवस् तदा ॥६-२१-२८॥।।
महाऊर्मि माला विततः शन्ख शुक्ति समाकुलः ।सधूम परिवृत्त ऊर्मिः सहसा अभून् महाउदधिः ॥६-२१-२९॥।।
व्यथिताः पन्नगाः च आसन् दीप्त आस्या दीप्त लोचनाः ।दानवाः च महावीर्याः पाताल तल वासिनः ॥६-२१-३०॥।।
ऊर्मयः सिन्धु राजस्य सनक्र मकरास् तदा ।विन्ध्य मन्दर सम्काशाः समुत्पेतुः सहस्रशः ॥६-२१-३१॥।।
आघूर्णित तरन्ग ओघः सम्ब्भ्रान्त उरग राक्षसः ।उद्वर्तित महाग्राहः सम्वृत्तः सलिल आशयः ॥६-२१-३२॥।।
ततस्तु तम् राघव मुग्रवेगम् ।प्रकर्षमाणम् ध्मरप्रमेयम् ।सौमित्रिरुत्पत्य विनिःश्वसन्तम् ।मामेति चोक्त्वा धनुराललम्बे ॥६-२१-३३॥।।
एतद्विनापि ह्युदधेस्तवार्य ।सम्पत्स्यते वीरतमस्य कार्यम् ।भवद्विधाः क्रोधवशम् न यान्ति ।दीर्घम् भवान्पश्यतु साधुवृत्तम् ॥६-२१-३४॥।।
अन्तर्हितैश्चापि तथान्तरिक्षे ।ब्रह्मर्षिभिश्चैव सुरर्षिभिश्च ।शब्दः कृतः कष्टमिति ब्रुवद्भि ।र्मा मेति चोक्त्वा महता स्वरेण ॥६-२१-३५॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 20
- Next: Yuddha-Kāṇḍa Sarga 22 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷