🪷 युद्धकाण्ड · Sarga 22
Yuddha-Kāṇḍa · The Book of War · Sarga 22 · 87 ślokas
🪷 Devanāgarī Ślokas
अथोवाच रघुश्रेष्ठः सागरम् दारुणम् वचः ।अद्य त्वाम् शोषयिष्यामि सपातालम् महार्णव ॥६-२२-१॥।। ॥६-२२-१॥
शरनिर्दग्धतोयस्य परिशुष्कस्य सागर ।मया निहतसत्त्वस्य पाम्सुरुत्पद्यते महान् ॥६-२२-२॥।। ॥६-२२-२॥
मत्कार्मुकनिसृष्टेन शरवर्षेण सागर ।परम् तीरम् गमिष्यन्ति पद्भिरेव प्लवङ्गमाः ॥६-२२-३॥।। ॥६-२२-३॥
विचिन्वन्नाभिजानासि पौरुषम् वापि विक्रमम् ।दाव्नवालय सम्तापम् मत्तो नाम गमिष्यसि ॥६-२२-४॥।। ॥६-२२-४॥
ब्राह्मेणास्त्रेण सम्योज्य ब्रह्मदण्डनिभम् शरम् ।सम्योज्य धनुषि श्रे ष्ठे विचकर्ष महाबलः ॥६-२२-५॥।। ॥६-२२-५॥
तस्मिन्विकृष्टे सहसा राघवेण शरासने ।रोदसी सम्पफालेव पर्वताश्च चकम्पिरे ॥६-२२-६॥।। ॥६-२२-६॥
तमश्च लोकमावव्रे दिशश्च न चकाशिरे ।प्रतिचुक्षुभिरे चाशु सराम्सि सरितस्तदा ॥६-२२-७॥।। ॥६-२२-७॥
तिर्यक् च सह नक्षत्रैः सम्गतौ चन्द्रभास्करौ ।भास्कराम्शुभिरादीप्तम् तमसा च समावृतम् ॥६-२२-८॥।। ॥६-२२-८॥
प्रचकाशे तदाकाशमुल्काशतविदीपितम् ।अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः ॥६-२२-९॥।। ॥६-२२-९॥
वपुःप्रकर्षेण ववुर्दिव्यमारुतपङ्क्त्यः ।बभञ्ज च तदा वृक्षान् जलदानुद्वहन् मुहुः ॥६-२२-१०॥।। ॥६-२२-१०॥
आरुजम्श्चैव शैलाग्रान् शिखराणि बभञ्ज च ।दिवि च स्म महावेगाः सम्हताः समहास्वनाः ॥६-२२-११॥।। ॥६-२२-११॥
मुमुचुर्वैद्युतानग्नीम्स्ते महाशनयस्तदा ।यानि भूतानि दृश्यानि चुक्रुशुश्चाशनेः समम् ॥६-२२-१२॥।। ॥६-२२-१२॥
अदृश्यानि च भूतानि मुमुचुर्भैरवस्वनम् ।शिश्यरे चाभिभूतानि सम्त्रस्ताम्यद्विजन्ति च ॥६-२२-१३॥।। ॥६-२२-१३॥
सम्प्रविव्यथिरे चापि न च पस्पन्दिरे भयात् ।सहभूतैः सतोयोर्मिः सनागः सहराक्षसः ॥६-२२-१४॥।। ॥६-२२-१४॥
सहसाभूत्ततो वेगाद्भीमवेगो महोदधिः ।योजनम् व्यतिचक्राम वेलामन्यत्र सम्प्लवात् ॥६-२२-१५॥।। ॥६-२२-१५॥
तम् तथा समतिक्रान्तम् नातिचक्राम राघवः ।समुद्धतममित्रघ्नो रामो नदनदीपतिम् ॥६-२२-१६॥।। ॥६-२२-१६॥
ततो मध्यात् समुद्रस्य सागरः स्वयम् उत्थितः ।उदयन् हि महाशैलान् मेरोर् इव दिवा करः ॥६-२२-१७॥।। ॥६-२२-१७॥
पन्नगैः सह दीप्त आस्यैः समुद्रः प्रत्यदृश्यत ।स्निग्ध वैदूर्य सम्काशो जाम्बू नद विभूषितः ॥६-२२-१८॥।। ॥६-२२-१८॥
रत्न माल्य अम्बर धरः पद्म पत्र निभ ईक्षणः ।सर्वपुष्पमयीम् दिव्याम् शिरसा धारयन् स्रजम् ॥६-२२-१९॥।। ॥६-२२-१९॥
जातरूपमयैश्चैव तपनीयविभूषितो भूषणोत्तमैः ।आत्मजानाम् च रत्नानाम् भूषितो भूषणोत्तमैः ॥६-२२-२०॥।। ॥६-२२-२०॥
धातुभिर्मण्डितः शैलो विविधैर्हमवानिव ।एकावलीमध्यगतम् तरलम् पाण्डरप्रभम् ॥६-२२-२१॥।। ॥६-२२-२१॥
विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम् ।आघूर्णिततरङ्गौघःकालिकानिलसम्कुलः ॥६-२२-२२॥।। ॥६-२२-२२॥
गङ्गासिन्धुप्रधानाभिरापगाभिः समावृतः ।देवतानाम् सरूपाभिर्नानारूपाभिरीश्वरः ॥६-२२-२३॥।। ॥६-२२-२३॥
सागरः समतिक्रम्य पूर्वम् आमन्त्र्य वीर्यवान् ।अब्रवीत् प्रान्जलिर् वाक्यम् राघवम् शर पाणिनम् ॥६-२२-२४॥।। ॥६-२२-२४॥
पृथिवी वायुर् आकाशम् आपो ज्योतिः च राघवः ।स्वभावे सौम्य तिष्ठन्ति शाश्वतम् मार्गम् आश्रिताः ॥६-२२-२५॥।। ॥६-२२-२५॥
तत् स्वभावो मम अपि एष यद् अगाधो अहम् अप्लवः ।विकारस् तु भवेद् राध एतत् ते प्रवदामि अहम् ॥६-२२-२६॥।। ॥६-२२-२६॥
न कामान् न च लोभाद् वा न भयात् पार्थिव आत्मज ।रागान्नक्राकुलजलम् स्तम्भयेयम् कथम्चन ॥६-२२-२७॥।। ॥६-२२-२७॥
विधास्ये येन गन्तासि विषहिष्ये ह्यहम् तथा ।न ग्राहा विधमिष्यन्ति यावत्सेना तरिष्यति ॥६-२२-२८॥।। ॥६-२२-२८॥
हरीणाम् तरणे राम करिष्यामि यथास्थलम् ।तमब्रवीत्तदा रामः शृणु मे वरुणालय ॥६-२२-२९॥।। ॥६-२२-२९॥
अमोघोऽयम् महाबाणः कस्मिन् देशे निपात्यताम् ।रामस्य वचनम् श्रुत्वा तम् च दृष्ट्वा महाशरम् ॥६-२२-३०॥।। ॥६-२२-३०॥
महोदधिर्महातेजा राघवम् वाक्यमब्रवीत् ।उत्तरेणावकाशोऽस्ति कश्चित्पुण्यतरो मम ॥६-२२-३१॥।। ॥६-२२-३१॥
द्रुमकुल्य इति ख्यातो लोके ख्यातो यथा भवान् ।उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः ॥६-२२-३२॥।। ॥६-२२-३२॥
आभीरप्रमुखाः पापाः पिबन्ति सलिलम् मम ।तैर्न तत्स्पर्शनम् पापम् सहेयम् पापकर्मभिः ॥६-२२-३३॥।। ॥६-२२-३३॥
अमोघः क्रियताम् राम तत्र तेषु शरोत्तमः ।तस्य तद्वचनम् श्रुत्वा सागरस्य महात्मनः ॥६-२२-३४॥।। ॥६-२२-३४॥
मुमोच तम् शरम् दीप्तम् परम् सागरदर्शनात् ।तेन तन्मरुकान्तारम् प्^इथिव्याम् किल विश्रुतम् ॥६-२२-३५॥।। ॥६-२२-३५॥
विपातितः शरो यत्र वज्राशनिसमप्रभः ।ननाद च तदा तत्र वसुधा शल्यपीडिता ॥६-२२-३६॥।। ॥६-२२-३६॥
तस्माद्बाणमुखात्तोयमुत्पपात रसातलात् ।स बभूव तदा कूपो व्रण इत्येव विश्रुतः ॥६-२२-३७॥।। ॥६-२२-३७॥
सततम् चोत्थितम् तोयम् समुद्रस्येव दृश्यते ।अवदारणशब्दश्च दारुणः समपद्यत ॥६-२२-३८॥।। ॥६-२२-३८॥
तस्मात्तद्बाणपातेन अपः कुक्षिष्वशोषयत् ।विख्यातम् त्रिषु लोकेषु मधुकान्तारमेव च ॥६-२२-३९॥।। ॥६-२२-३९॥
शोषयित्वा तु तम् कुक्षिम् रामो दशरथात्मजः ।वरम् तस्मै ददौ विद्वान्मरवेऽमरविक्रमः ॥६-२२-४०॥।। ॥६-२२-४०॥
पशव्यश्चाल्परोगश्च फलमूलरसायुतः ।बहुस्नेहो बहुक्षीरः सुगन्धिर्विविधौषधिः ॥६-२२-४१॥।। ॥६-२२-४१॥
एवमेतैर्गुणैर्युक्तो बहिभिः सम्युतो मरुः ।रामस्य वरदानाच्च शिवः पन्था बभूव ह ॥६-२२-४२॥।। ॥६-२२-४२॥
तस्मिन् दग्धे तदा कुक्षौ समुद्रः सरिताम् पतिः ।राघवम् सर्वशास्त्रज्ञमिदम् वचनम्ब्रवीत् ॥६-२२-४३॥।। ॥६-२२-४३॥
अयम् सौम्य नलो नाम तनुजो विश्व कर्मणः ।पित्रा दत्त वरः श्रीमान् प्रतिमो विश्व कर्मणः ॥६-२२-४४॥।। ॥६-२२-४४॥
एष सेतुम् महाउत्साहः करोतु मयि वानरः ।तम् अहम् धारयिष्यामि तथा हि एष यथा पिता ॥६-२२-४५॥।। ॥६-२२-४५॥
एवम् उक्त्वा उदधिर् नष्टः समुत्थाय नलस् ततः ।अब्रवीद् वानर श्रेष्ठो वाक्यम् रामम् महाबलः ॥६-२२-४६॥।। ॥६-२२-४६॥
अहम् सेतुम् करिष्यामि विस्तीर्णे वरुण आलये ।पितुः सामर्थ्यम् आस्थाय तत्त्वम् आह महाउदधिः ॥६-२२-४७॥।। ॥६-२२-४७॥
असौ तु सागरो भीमः सेतुकर्मदिदृक्षया ।ददौ दण्डभयाद्गाधम् राघवाय महोदधिः ॥६-२२-४८॥।। ॥६-२२-४८॥
मम मातुर् वरो दत्तो मन्दरे विश्व कर्मणा ।औरसस् तस्य पुत्रो अहम् सदृशो विश्व कर्मणा ॥६-२२-४९॥।। ॥६-२२-४९॥
औरसस्तस्य पुत्रोऽहम् सदृशो विश्वकर्मणा।स्मारितोऽस्म्यहमेतेन तत्त्वमाह महोदधिः ॥६-२२-५०॥।। ॥६-२२-५०॥
न च अपि अहम् अनुक्तो वै प्रब्रूयाम् आत्मनो गुणान् ।समर्थ्श्चाप्यहम् सेतुम् कर्तुम् वै वरुणालये ॥६-२२-५१॥।। ॥६-२२-५१॥
तस्मादद्यैव बध्नन्तु सेतुम् वानरपुङ्गवाः ।ततो निसृष्ट रामेण सर्वतो हरि यूथपाः ॥६-२२-५२॥।। ॥६-२२-५२॥
अभिपेतुर् महाअरण्यम् हृष्टाः शत सहस्रशः ।ते नगान् नग सम्काशाः शाखा मृग गण ऋषभाः ॥६-२२-५३॥।। ॥६-२२-५३॥
बभन्जुर् वानरास् तत्र प्रचकर्षुः च सागरम् ।ते सालैः च अश्व कर्णैः च धवैर् वम्शैः च वानराः ॥६-२२-५४॥।। ॥६-२२-५४॥
कुटजैर् अर्जुनैस् तालैस् तिकलैस् तिमिशैर् अपि ।बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः ॥६-२२-५५॥।। ॥६-२२-५५॥
चूतैः च अशोक वृक्षैः च सागरम् समपूरयन् ।समूलामः च विमूलामः च पादपान् हरि सत्तमाः ॥६-२२-५६॥।। ॥६-२२-५६॥
इन्द्र केतून् इव उद्यम्य प्रजह्रुर् हरयस् तरून् ।तालान् दाडिमगुल्माम्श्च नारिकेलविभीतकान् ॥६-२२-५७॥।। ॥६-२२-५७॥
करीरान् बकुलान्निम्बान् समाजह्रुरितस्ततः ।हस्तिमात्रान् महाकायाः पाषाणाम्श्च महाबलाः ॥६-२२-५८॥।। ॥६-२२-५८॥
पर्वताम्श्च समुत्पाट्य यन्त्रैः परिवहन्ति च ।प्रक्षिप्यमाणैर् अचलैः सहसा जलम् उद्धतम् ॥६-२२-५९॥।। ॥६-२२-५९॥
समुत्पतितम् आकाशम् अपासर्पत् ततस् ततः ।समुद्रम् क्षोभयामासुर्निपतन्तः समन्ततः ॥६-२२-६०॥।। ॥६-२२-६०॥
सूत्राण्यन्ये प्रगृह्णन्ति ह्यायतम् शतयोजनम् ।नलः चक्रे महासेतुम् मध्ये नद नदी पतेः ॥६-२२-६१॥।। ॥६-२२-६१॥
स तदा क्रियते सेतुर्वानरै र्घोरकर्मभिः ।दण्डनन्ये प्रगृह्णन्ति विचिन्वन्ति तथापरे ॥६-२२-६२॥।। ॥६-२२-६२॥
वानरैः शतशस्तत्र रामस्यज्ञापुरःसरैः ।मेघाभैः पर्वताभश्च तृणैः काष्ठैर्बबन्धरे ॥६-२२-६३॥।। ॥६-२२-६३॥
पुष्पिताग्रैश्च तरुभिः सेतुम् बध्नन्ति वानराः ।पाषाणाम्श्च गिरिप्रख्यान् गिरीणाम् शिखराणि च ॥६-२२-६४॥।। ॥६-२२-६४॥
दृश्यन्ते परिधावन्तो गृह्य दानवसम्निभाः ।शिलानाम् क्षिप्यमाणानाम् शैलानाम् तत्र पात्यताम् ॥६-२२-६५॥।। ॥६-२२-६५॥
बभूव तुमुलः शब्दस् तदा तस्मिन् महाउदधौ ।कृतानि प्रथमेनाह्ना योजनानि चतुर्दश ॥६-२२-६६॥।। ॥६-२२-६६॥
प्रहृष्टैजसम्काशैस्त्वरमाणैः प्लवङ्गमैः ।द्वितीयेन तथैवाह्ना योजनानि तु विशतिः ॥६-२२-६७॥।। ॥६-२२-६७॥
कृतानि प्लवगैस्तूर्णम् भीमकायैर्महाबलैः ।अह्ना तृतीयेन तथा योजनानि तु सागरे ॥६-२२-६८॥।। ॥६-२२-६८॥
त्वरमाणैर्महाकयैरेकविम्शतिरेव च ।चतुर्थेन तथा चाह्ना द्वाविम्शतिरथापि वा ॥६-२२-६९॥।। ॥६-२२-६९॥
योजनानि महावेगैः कृतानि त्वरितैस्ततः ।पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः ॥६-२२-७०॥।। ॥६-२२-७०॥
योजनानि त्रयोविम्शत्सुवेलमधिकृत्य वै ।स वानरवरः श्रीमान् विश्वकर्मात्मजो बली ॥६-२२-७१॥।। ॥६-२२-७१॥
बबन्ध सागरे सेतुम् यथा चास्य तथा पिता ।स नलेन कृतः सेतुः सागरे मकर आलये ॥६-२२-७२॥।। ॥६-२२-७२॥
शुशुभे सुभगः श्रीमान् स्वाती पथ इव अम्बरे ।ततो देवाः सगन्धर्वाः सिद्धाः च परम ऋषयः ॥६-२२-७३॥।। ॥६-२२-७३॥
आगम्य गगने तस्थुर्द्रष्टुकामास्तदद्भुतम् ।दशयोजनविस्तीर्णम् शतयोजन मायतम् ॥६-२२-७४॥।। ॥६-२२-७४॥
ददृशुर्देवगन्धर्वा नलसेतुम् सुदुष्करम् ।आप्लवन्तः प्लवन्तः च गर्जन्तः च प्लवम् गमाः ॥६-२२-७५॥।। ॥६-२२-७५॥
तम् अचिन्त्यम् असह्यम् च अद्भुतम् लोम हर्षणम् ।ददृशुः सर्व भूतानि सागरे सेतु बन्धनम् ॥६-२२-७६॥।। ॥६-२२-७६॥
तानि कोटि सहस्राणि वानराणाम् महाओजसाम् ।बध्नन्तः सागरे सेतुम् जग्मुः पारम् महाउदधेः ॥६-२२-७७॥।। ॥६-२२-७७॥
विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः ।अशोभत महासेतुः सीमन्त इव सागरे ॥६-२२-७८॥।। ॥६-२२-७८॥
ततः परे समुद्रस्य गदा पाणिर् विभीषणः ।परेषाम् अभिघत अर्थम् अतिष्ठत् सचिवैः सह ॥६-२२-७९॥।। ॥६-२२-७९॥
सुग्रीवस्तु ततः प्राह रामम् सत्यपराक्रमम् ।हनुमन्तम् त्वमारोह अङ्गदम् त्वथ लक्ष्मणः ॥६-२२-८०॥।। ॥६-२२-८०॥
अयम् हि विपुलो वीर सागरो मकरालयः ।वैहायसौ युवामेतौ वानरौ धारयिष्यतः ॥६-२२-८१॥।। ॥६-२२-८१॥
अग्रतस् तस्य सैन्यस्य श्रीमान् रामः सलक्ष्मणः ।जगाम धन्वी धर्म आत्मा सुग्रीवेण समन्वितः ॥६-२२-८२॥।। ॥६-२२-८२॥
अन्ये मध्येन गच्चन्ति पार्श्वतो अन्ये प्लवम् गमाः ।सलिले प्रपतन्ति अन्ये मार्गम् अन्ये न लेभिरे ॥६-२२-८३॥।। ॥६-२२-८३॥
केचिद् वैहायस गताः सुपर्णा इव पुप्लुवुः ।घोषेण महता घोषम् सागरस्य समुच्च्रितम् ॥६-२२-८४॥।। ॥६-२२-८४॥
भीमम् अन्तर् दधे भीमा तरन्ती हरि वाहिनी ।वानराणाम् हि सा तीर्णा वाहिनी नल सेतुना ॥६-२२-८५॥।। ॥६-२२-८५॥
तीरे निविविशे राज्ञा बहु मूल फल उदके ।तद् अद्भुतम् राघव कर्म दुष्करम् ।समीक्ष्य देवाः सह सिद्ध चारणैः ।उपेत्य रामम् सहिता महर्षिभिः ।समभ्यषिन्चन् सुशुभिअर् जलैः पृथक् ॥६-२२-८६॥।। ॥६-२२-८६॥
जयस्व शत्रून् नर देव मेदिनीम् ।ससागराम् पालय शाश्वतीः समाः ।इति इव रामम् नर देव सत्कृतम् ।शुभैर् वचोभिर् विविधैर् अपूजयन् ॥६-२२-८७॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 21
- Next: Yuddha-Kāṇḍa Sarga 23 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷