🪷 युद्धकाण्ड · Sarga 23

Yuddha-Kāṇḍa · The Book of War · Sarga 23 · 16 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.23.1
निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः ।सौमित्रिम् सम्परिष्वज्य इदम् वचनम्ब्रवीत् ॥६-२३-१॥।। ॥६-२३-१॥
Vālmīki 6.23.2
परिगृह्योदकम् शीतम् वनानि फलवन्ति च ।बलौ घम् सम्विभज्येमम् व्यूह्य तिष्ठेम लक्ष्मण ॥६-२३-२॥।। ॥६-२३-२॥
Vālmīki 6.23.3
लोकक्षयकरम् भीमम् भयम् पश्याम्युपस्थितम् ।प्रबर्हणम् प्रवीराणामृक्षवानररक्षसाम् ॥६-२३-३॥।। ॥६-२३-३॥
Vālmīki 6.23.4
वाताश्च कलुषा वान्ति कम्पते च वसुन्धरा ।पर्वताग्राणि वेपन्ते पतन्ति च महीरुःआः ॥६-२३-४॥।। ॥६-२३-४॥
Vālmīki 6.23.5
मेघाः क्रव्यादसम्काशाः परुषाः परुषस्वनाः ।क्रूराः क्रूरम् प्रवर्षन्ति मिश्रम् शोणितबिन्दुभिः ॥६-२३-५॥।। ॥६-२३-५॥
Vālmīki 6.23.6
रक्तचन्दनसम्काशा सम्ध्या परमदारुणा ।ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम् ॥६-२३-६॥।। ॥६-२३-६॥
Vālmīki 6.23.7
दीना दीनस्वराः क्रूराः सर्वतो मृगपक्षिणः ।प्रत्यादित्यम् विनर्दन्ति जनयन्तो महद्भयम् ॥६-२३-७॥।। ॥६-२३-७॥
Vālmīki 6.23.8
रजन्यामप्रकाशस्तु सम्तापयति चन्द्रमाः ।कृष्णरक्ताम्शुपर्यन्तो लोकक्षय इवोदितः ॥६-२३-८॥।। ॥६-२३-८॥
Vālmīki 6.23.9
ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषस्तु लोहितः ।आदित्ये विमले वीलम् लक्ष्म लक्ष्मण दृश्यते ॥६-२३-९॥।। ॥६-२३-९॥
Vālmīki 6.23.10
रजसा महता चापि नक्षत्राणि हतानि च ।युगान्तमिव लोकानाम् पश्य शसन्ति लक्ष्मण ॥६-२३-१०॥।। ॥६-२३-१०॥
Vālmīki 6.23.11
काकाः श्येनास्तथा नीचा गृध्राः परिपतन्ति च ।शिवाश्चाप्यशुभान्नादान्नदन्ति सुमहाभयान् ॥६-२३-११॥।। ॥६-२३-११॥
Vālmīki 6.23.12
शैलैः शूलैश्च खड्गैश्च विमुकैः कपिराक्षसैः ।भविष्यत्यावृता भूमिर्माम्सशोणितकर्दमा ॥६-२३-१२॥।। ॥६-२३-१२॥
Vālmīki 6.23.13
क्षिप्रमद्यैव दुर्धर्षाम् पुरीम् रावणपालिताम् ।अभियाम जवेनैव सर्वैर्हरिभिरावृताः ॥६-२३-१३॥।। ॥६-२३-१३॥
Vālmīki 6.23.14
इत्येवमुक्त्वा धन्वी स रामः सम्ग्रामधर्षणः ।प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः ॥६-२३-१४॥।। ॥६-२३-१४॥
Vālmīki 6.23.15
सविभीषणसुग्रीवाः सर्वे ते वानरर्षभाः ।प्रतस्थिरे विनर्दन्तो धृतानाम् द्विषताम् वधे ॥६-२३-१५॥।। ॥६-२३-१५॥
Vālmīki 6.23.16
राघवस्य प्रियार्थम् तु सुतराम् वीर्यशालिनाम् ।हरीणाम् कर्मचेष्टाभिस्तुतोष रघुनन्दनः ॥६-२३-१६॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷