🪷 युद्धकाण्ड · Sarga 24
Yuddha-Kāṇḍa · The Book of War · Sarga 24 · 45 ślokas
🪷 Devanāgarī Ślokas
सा वीरसमिती राज्ञा विरराज व्यवस्थिता ।शशिना शुभिनक्षत्रा पौर्णमासीव शारदी ॥६-२४-१॥।। ॥६-२४-१॥
प्रचचाल च वेगेन त्रस्ता चैव वसुन्धरा ।पीड्यमाना बलौ घेन तेन सागरवर्चसा ॥६-२४-२॥।। ॥६-२४-२॥
ततः शुश्रुपुराक्रुष्टम् लङ्कायाः काननौकसः ।भेरीमृदङ्गसम्घुष्टम् तुमुलम् रोमहर्षणम् ॥६-२४-३॥।। ॥६-२४-३॥
बभूवुस्तेन घोषेण सम्हृष्टा हरियूथपाः ।अमृष्यमाणास्तम् घोषम् विनेदुर्घोषवत्तरम् ॥६-२४-४॥।। ॥६-२४-४॥
राक्षसास्तम् प्लवङ्गानाम् शुश्रुवुस्तेऽपि गर्जितम् ।वर्दतामिव दृप्तानाम् मेघानामम्बरे स्वनम् ॥६-२४-५॥।। ॥६-२४-५॥
दृष्ट्वा दाशरथिर्लङ्काम् चित्रध्वजपताकिनिम्म् ।जगाम मनसा सीताम् दूयमानेन चेतसा ॥६-२४-६॥।। ॥६-२४-६॥
अत्र सा मृगशाबाक्षी रावणेनोपरुध्यते ।अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी ॥६-२४-७॥।। ॥६-२४-७॥
दीर्घमुष्णम् च निःश्वस्य समुद्वीक्ष्य च लक्ष्मणम् ।उवाच वचनम् वीरस्तत्कालहितमात्मनः ॥६-२४-८॥।। ॥६-२४-८॥
आलिखन्तीमिवाकाशमुत्थिताम् पश्य लक्ष्मण ।मन्सेव कृताम् लङ्काम् नगाग्रे विश्वकर्मणा ॥६-२४-९॥।। ॥६-२४-९॥
विमानैर्बहुभिर्लङ्क सम्कीर्णा रचिता पुरा ।विष्णोः पदमिवाकाशम् चादितम् पाण्डुभिर्घनैः ॥६-२४-१०॥।। ॥६-२४-१०॥
पुष्पितैः शोभिता लङ्का वनैश्चत्ररथोपमैः ।नानापतगसम्घुष्टफलपुष्पोपगैः शुभैः ॥६-२४-११॥।। ॥६-२४-११॥
पश्य मत्तविहङ्गनि प्रलीनभ्रमराणि च ।कोकिलाकुलखण्डानि दोधवीति शिवोऽविलः ॥६-२४-१२॥।। ॥६-२४-१२॥
इति दाशरथीरमो लक्ष्मणम् समभाषत ।बलम् च तत्र विभजच्चास्त्रदृष्टेन कर्मणा ॥६-२४-१३॥।। ॥६-२४-१३॥
शशास कपिसेमाम् ताम् बलादादाय वीर्यवान् ।अङ्गदः सह नीलेन तिष्ठे दुरपि दुर्जयः ॥६-२४-१४॥।। ॥६-२४-१४॥
तिष्ठेद्वानरवाहिन्या वानरौघसमावृतः ।आशिर्तो दक्षिणम् पार्श्वमृषभो नाम वानरः ॥६-२४-१५॥।। ॥६-२४-१५॥
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः ।तिष्ठेद्वानरवाहिन्याः सव्यम् पक्षमधिष्ठतः ॥६-२४-१६॥।। ॥६-२४-१६॥
मूर्ध्नि स्थास्याम्यहम् यत्तो लक्ष्मणेन समन्वितः ।जाम्बवाम्श्च सुषेणश्च वेगदर्शी च वानरः ॥६-२४-१७॥।। ॥६-२४-१७॥
ऋक्षमुख्या महात्मानः कुक्षिम् रक्षन्तु ते त्रयः ।जघनम् कपिसेनायाः कपिराजोऽभिरक्षतु ॥६-२४-१८॥।। ॥६-२४-१८॥
पश्चार्धमिव लोकस्य प्रचेतास्तेजपा वृतः ।सुविभक्तमहाव्यूहा महावानररक्षिता ॥६-२४-१९॥।। ॥६-२४-१९॥
अनीकिनी सा विबभौ यथाद्यौः साभ्रसम्प्लवा ।प्रऋह्य गिरिशृङ्गाणि महतश्च महीरुहान् ॥६-२४-२०॥।। ॥६-२४-२०॥
आसेदुर्वानरा लङ्काम् मिमर्दयुषवो रणे ।शिखरैर्विकिरामैनाम् लङ्काम् मुष्टिभिरेव वा ॥६-२४-२१॥।। ॥६-२४-२१॥
इति स्म दधिरे सर्वे मानाम्सि हरिपुङ्गवाः ।ततो रामो महातेजाः सुग्रीव मिदमब्रवीत् ॥६-२४-२२॥।। ॥६-२४-२२॥
सुविभक्तानि सैन्यानि शुक एष विमुच्यताम् ।रामस्य तु वचः श्रुत्वा वानरेन्द्रो महाबलः ॥६-२४-२३॥।। ॥६-२४-२३॥
मोचयामास तम् दूतम् शुकम् रामस्य शासनात् ।मोचितो रामवाक्येन वानरैश्च निपीडितः ॥६-२४-२४॥।। ॥६-२४-२४॥
शुकः परमसम्त्रस्तो रक्षोधिपमुपागमत् ।रावणः प्रहसन्नेव शुकम् वाक्यमुवाच ह ॥६-२४-२५॥।। ॥६-२४-२५॥
किमिमौ ते सितौ पक्षौ लूनपक्ष्श्च दृश्यसे ।कच्चिन्नानेकचित्तानाम् तेषाम् त्वम् वशमागतः ॥६-२४-२६॥।। ॥६-२४-२६॥
ततस्प भयसम्विग्न स्तदा राज्ञाभिचोदितः ।वचनम् प्रत्युवाचेदम् राक्षसाधिपमुत्तमम् ॥६-२४-२७॥।। ॥६-२४-२७॥
सागरस्योत्तरे तीरेऽब्रवम् ते वचनम् तथा ।यथासम्देशमक्लिष्टम् सान्त्वयन् श्लक्ष्णया गिरा ॥६-२४-२८॥।। ॥६-२४-२८॥
क्रुद्धैस्तेरहमुत्प्लुत्य दृष्टमात्रः प्लवङ्गमैः ।गृहितोऽस्म्यपि चारब्धो हन्तुम् लोप्तुम् च मुष्टिभिः ॥६-२४-२९॥।। ॥६-२४-२९॥
न ते सम्भाषितुम् शक्याः सम्प्रश्नोऽत्र न विद्यते ।प्रकृत्या कोपनास्तीक्षिणा वानरा राक्षसाधिप ॥६-२४-३०॥।। ॥६-२४-३०॥
स च हन्ता विराधस्य कबन्धस्य खरस्य च ।सुग्रीवसहितो रामः सीतायाः पदमागतः ॥६-२४-३१॥।। ॥६-२४-३१॥
स कृत्वा सागरे सेतुम् तीर्त्वा च लवणोदधिम् ।एष रक्षासि निर्धूय धन्वी तिष्ठति राघवः ॥६-२४-३२॥।। ॥६-२४-३२॥
ऋक्षवानरसम्घानामनीकानि सहस्रशः ।गिरिमेघनिकाशानाम् चादयन्ति वसुन्धराम् ॥६-२४-३३॥।। ॥६-२४-३३॥
राक्षसानाम् बलौघस्य वानरेन्द्रबलस्य च ।नैतयोर्विद्यते सम्धिर्देवदानवयोरिव ॥६-२४-३४॥।। ॥६-२४-३४॥
पुरा प्राकारमायान्ति क्षिप्रमेकतरम् कुरु ।सीताम् वास्मै प्रयच्चाशु युद्धम् वापि प्रदीयताम् ॥६-२४-३५॥।। ॥६-२४-३५॥
शुकस्य वचनम् श्रुत्वा रावणो वाक्य मब्रवीत् ।रोषसम्रक्तनयनो निर्दहन्निव चक्षुषा ॥६-२४-३६॥।। ॥६-२४-३६॥
यदि माम् प्रतियुध्येरन् देवगन्धर्वदानवाः ।नैव सीताम् प्रदास्यामि सर्वलोकभयादपि ॥६-२४-३७॥।। ॥६-२४-३७॥
कदा समभिधानन्ति मामका राघवम् शराः ।वसन्ते पुष्पितम् मत्ता भ्रमरा इव पादपम् ॥६-२४-३८॥।। ॥६-२४-३८॥
कदा शोणितदिग्धाङ्गम् दीपैः कार्मुकविच्युतैः ।शरैरादीपयिष्यामि उल्काभिरिव कुञ्जरम् ॥६-२४-३९॥।। ॥६-२४-३९॥
तच्चास्य बलमादास्ये बलेन महता वृतः ।ज्योतिषामिव सर्वेषाम् प्रभामुद्यन्दिवाकरः ॥६-२४-४०॥।। ॥६-२४-४०॥
सागरस्येव मे वेगो मारुतस्येव मे बलम् ।न च दाशरथिर्वेद तेन माम् योद्धुमिच्चति ॥६-२४-४१॥।। ॥६-२४-४१॥
न मे तूणीशयान् बाणान् सनिषानिव पन्नगान् ।रामः पश्यति सम्ग्रामे तेन माम् योद्धुमिच्चति ॥६-२४-४२॥।। ॥६-२४-४२॥
न जानाति पुरा वीर्यम् मम युद्धे स राघवः ।मम चापमयीम् वीणाम् शरकोणैः प्रवादिताम् ॥६-२४-४३॥।। ॥६-२४-४३॥
ज्याशबदतुमुलाम् घोरामार्तगीतमहास्वनाम् ।नाराचतलसम्नादाम् ताम् ममाहितवाहिनीम् ॥६-२४-४४॥।। ॥६-२४-४४॥
अवगाह्य महरङ्गम् वादयिष्यान्तगन् रणे ।न वासवेनापि स हस्रचक्षुषा ।युद्धेऽस्मि शक्यो वरुणेन वास्वयम् ।यमेव वा धर्षयितुम् शराग्निना ।महाहवे वैश्रवणेन वा स्वयम् ॥६-२४-४५॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 23
- Next: Yuddha-Kāṇḍa Sarga 25 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷