🪷 युद्धकाण्ड · Sarga 3
Yuddha-Kāṇḍa · The Book of War · Sarga 3 · 34 ślokas
🪷 Devanāgarī Ślokas
सुग्रीवस्य वचः श्रुत्वा हेतुमत् परम अर्थवित् ।प्रतिजग्राह काकुत्स्थो हनूमन्तम् अथ अब्रवीत् ॥६-३-१॥।। ॥६-३-१॥
तरसा सेतु बन्धेन सागर उच्चोषणेन वा ।सर्वथा सुसमर्थो अस्मि सागरस्य अस्य लन्घने ॥६-३-२॥।। ॥६-३-२॥
कति दुर्गाणि दुर्गाया लंकायास् तद् ब्रवीहि मे ।ज्ञातुम् इच्चामि तत् सर्वम् दर्शनाद् इव वानर ॥६-३-३॥।। ॥६-३-३॥
बलस्य परिमाणम् च द्वार दुर्ग क्रियाम् अपि ।गुप्ति कर्म च लंकाया रक्षसाम् सदनानि च ॥६-३-४॥।। ॥६-३-४॥
यथा सुखम् यथावच् च लंकायाम् असि दृष्टवान् ।सरम् आचक्ष्व तत्त्वेन सर्वथा कुशलो हि असि ॥६-३-५॥।। ॥६-३-५॥
श्रुत्वा रामस्य वचनम् हनूमान् मारुत आत्मजः ।वाक्यम् वाक्यविदाम् श्रेष्ठो रामम् पुनर् अथ अब्रवीत् ॥६-३-६॥।। ॥६-३-६॥
श्रूयताम् सर्वम् आख्यास्ये दुर्ग कर्म विधानतः ।गुप्ता पुरी यथा लंका रक्षिता च यथा बलैः ॥६-३-७॥।। ॥६-३-७॥
राक्षसाश्च यथा स्निग्धा रावणस्य च तेजसा ।पराम् समृद्धिम् लंकायाः सागरस्य च भीमताम् ॥६-३-८॥।। ॥६-३-८॥
विभागम् च बल ओघस्य निर्देशम् वाहनस्य च ।एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्ववित् ॥६-३-९॥।। ॥६-३-९॥
प्रहृष्टा मुदिता लंका मत्त द्विप समाकुला ।महती रथ सम्पूर्णा रक्षो गण समाकुला ॥६-३-१०॥।। ॥६-३-१०॥
दृढ बद्ध कवाटानि महापरिघवन्ति च ।चत्वारि विपुलान्यस्या द्वाराणि सुमहान्ति ॥६-३-११॥।। ॥६-३-११॥
तत्रेषूपयन्त्राणि बलवन्ति महान्ति च ।आगतम् पर सैन्यम् तैस् तत्र प्रतिनिवार्यते ॥६-३-१२॥।। ॥६-३-१२॥
द्वारेषु सम्स्कृता भीमाः काल आयस मयाः शिताः ।शतशो रोचिता वीरैः शतघ्न्यो रक्षसाम् गणैः ॥६-३-१३॥।। ॥६-३-१३॥
सौवर्णः च महाम्स् तस्याः प्राकारो दुष्प्रधर्षणः ।मणि विद्रुम वैदूर्य मुक्ता विचरित अन्तरः ॥६-३-१४॥।। ॥६-३-१४॥
सर्वतः च महाभीमाः शीत तोया महाशुभाः ।अगाधा ग्राहवत्यः च परिखा मीन सेविताः ॥६-३-१५॥।। ॥६-३-१५॥
द्वारेषु तासाम् चत्वारः सम्क्रमाः परम आयताः ।यन्त्रैर् उपेता बहुभिर् महद्भिर् दृढ सम्धिभिः ॥६-३-१६॥।। ॥६-३-१६॥
त्रायन्ते सम्क्रमास् तत्र पर सैन्य आगमे सति ।यन्त्रैस् तैर् अवकीर्यन्ते परिखासु समन्ततः ॥६-३-१७॥।। ॥६-३-१७॥
एकस् त्व् अकम्प्यो बलवान् सम्क्रमः सुमहादृढः ।काञ्चनैर् बहुभिः स्तम्भैर् वेदिकाभिः च शोभितः ॥६-३-१८॥।। ॥६-३-१८॥
स्वयम् प्रकृति सम्पन्नो युयुत्सू राम रावणः ।उत्थितः च अप्रमत्तः च बलानाम् अनुदर्शने ॥६-३-१९॥।। ॥६-३-१९॥
लंका पुरी निरालम्बा देव दुर्गा भय आवहा ।न अदेयम् पार्वतम् वन्यम् कृत्रिमम् च चतुर् विधम् ॥६-३-२०॥।। ॥६-३-२०॥
स्थिता पारे समुद्रस्य दूर पारस्य राघव ।नौ पथः च अपि न अस्ति अत्र निरादेशः च सर्वतः ॥६-३-२१॥।। ॥६-३-२१॥
शैल अग्रे रचिता दुर्गा सा पूर् देव पुर उपमा ।वाजि वारण सम्पूर्णा लंका परम दुर्जया ॥६-३-२२॥।। ॥६-३-२२॥
परिघाः च शतघ्न्यः च यन्त्राणि विविधानि च ।शोभयन्ति पुरीम् लंकाम् रावणस्य दुरात्मनः ॥६-३-२३॥।। ॥६-३-२३॥
अयुतम् रक्षसाम् अत्र पश्चिम द्वारम् आश्रितम् ।शूल हस्ता दुराधर्षाः सर्वे खड्ग अग्र योधिनः ॥६-३-२४॥।। ॥६-३-२४॥
नियुतम् रक्षसाम् अत्र दक्षिण द्वारम् आश्रितम् ।चतुर् अन्गेण सैन्येन योधास् तत्र अपि अनुत्तमाः ॥६-३-२५॥।। ॥६-३-२५॥
प्रयुतम् रक्षसाम् अत्र पूर्व द्वारम् समाश्रितम् ।चर्म खड्ग धराः सर्वे तथा सर्व अस्त्र कोविदाः ॥६-३-२६॥।। ॥६-३-२६॥
न्यर्बुदम् रक्षसाम् अत्र उत्तर द्वारम् आश्रितम् ।रथिनः च अश्व वाहाः च कुल पुत्राः सुपूजिताः ॥६-३-२७॥।। ॥६-३-२७॥
शतम् शत सहस्राणाम् मध्यमम् गुल्मम् आश्रितम् ।यातु धाना दुराधर्षाः साग्र कोटिः च रक्षसाम् ॥६-३-२८॥।। ॥६-३-२८॥
ते मया सम्क्रमा भग्नाः परिखाः च अवपूरिताः ।दग्धा च नगरी लंका प्राकाराः च अवसादिताः ॥६-३-२९॥।। ॥६-३-२९॥
बलैकदेशः क्षपितो राक्षसानाम् महात्मनाम् ।येन केन तु मार्गेण तराम वरुण आलयम् ॥६-३-३०॥।। ॥६-३-३०॥
हता इति नगरी लंकाम् वानरैर् अवधार्यताम् ।अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः ॥६-३-३१॥।। ॥६-३-३१॥
नीलः सेना पतिः चैव बल शेषेण किम् तव ।प्लवमाना हि गत्वा ताम् रावणस्य महापुरीम् ॥६-३-३२॥।। ॥६-३-३२॥
सप्रकाराम् सभवनाम् आनयिष्यन्ति मैथिलीम् ।सप्राकाराम् सभवनामानयुष्यन्ति राघव ॥६-३-३३॥।। ॥६-३-३३॥
एवम् आज्ञापय क्षिप्रम् बलानाम् सर्व सम्ग्रहम् ।मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥६-३-३४॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 2
- Next: Yuddha-Kāṇḍa Sarga 4 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷