🪷 युद्धकाण्ड · Sarga 2

Yuddha-Kāṇḍa · The Book of War · Sarga 2 · 25 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.2.1
तम् तु शोकपरिद्यूनम् रामम् दशरथात्मजम् ।उवाच वचनम् श्रीमान् सुग्रीवह् शोकनाशनम् ॥६-२-१॥।। ॥६-२-१॥
Vālmīki 6.2.2
किम् त्वया तप्यते वीर यथान्यः प्राकृतस्तथा ।मैवम् भूस्त्यज सतापम् कृतघ्न इव सौहृदम् ॥६-२-२॥।। ॥६-२-२॥
Vālmīki 6.2.3
सम्तापस्य च ते स्थानम् न हि पश्यामि राघव ।प्रवृत्तामुपलब्धायाम् ज्ञाते च निलये रिपोः ॥६-२-३॥।। ॥६-२-३॥
Vālmīki 6.2.4
मतिमान् शास्त्रवित्प्राज्ञः पण्डितश्चासि राघव ।त्यजेमाम् प्राकृताम् उद्धिं कृतात्मेवार्थदूषणीम् ॥६-२-४॥।। ॥६-२-४॥
Vālmīki 6.2.5
सम्द्रम् लङ्घयित्वा तु महानक्रसमाकुलम् ।लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् ॥६-२-५॥।। ॥६-२-५॥
Vālmīki 6.2.6
निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः ।सर्वार्था व्यवसीदन्ति व्यसनम् चाधिगच्छति ॥६-२-६॥।। ॥६-२-६॥
Vālmīki 6.2.7
इमे शूराः समर्थाश्च सर्वतो हरियूथपाः ।त्वत्प्रियार्थम् कृतोत्साहाः प्रवेष्टुमपि पावकम् ॥६-२-७॥।। ॥६-२-७॥
Vālmīki 6.2.8
एषाम् हर्षेण जानामि तर्कश्चापि दृढो मम ।विक्रमेण समानेष्ये सीताम् हत्वा यथा रिपुम् ॥६-२-८॥।। ॥६-२-८॥
Vālmīki 6.2.9
रावनम् पापक्र्माणम् तथा त्वम् कर्तुमर्हसि ।सेतुरत्र यथा बद्ध्येथा पश्येम ताम् पुरीम् ॥६-२-९॥।। ॥६-२-९॥
Vālmīki 6.2.10
तस्य राक्षसराजस्य तथा त्वम् कुरु राघव ।दृष्ट्वा ताम् हि पुरीम् लङ्काम् त्रिकूटशिखरे स्थिताम् ॥६-२-१०॥।। ॥६-२-१०॥
Vālmīki 6.2.11
हतम् च रावणम् उद्धे दर्शनादवधारय ।अबद्ध्वा सागरे सेतुम् घोरे च वरुणालये ॥६-२-११॥।। ॥६-२-११॥
Vālmīki 6.2.12
लङ्का न मर्दितुम् शक्या सेन्द्रैरपि सुरासुरैः ।सेतुर्बद्धः समुद्रे च यावल्लङ्कासमीपतः ॥६-२-१२॥।। ॥६-२-१२॥
Vālmīki 6.2.13
सर्वम् तीर्णम् च मे सैन्यम् जितमित्युपधारय ।इमे हि समरे वीरा हरयः कामरूपिणः ॥६-२-१३॥।। ॥६-२-१३॥
Vālmīki 6.2.14
तदलम् विक्लबाम् बुद्धिम् राजन् सर्वार्थनाशनीम् ।पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकर्षणः ॥६-२-१४॥।। ॥६-२-१४॥
Vālmīki 6.2.15
यत्तु कार्यम् मनुष्येण शौण्डीर्यमवलम्ब्यताम् ।तदलम्करणायैव कर्तुर्भवति सत्वरम् ॥६-२-१५॥।। ॥६-२-१५॥
Vālmīki 6.2.16
अस्मिन् काले महाप्राज्ञ् सत्त्वमातिष्ठ ते जसा ।शूराणाम् हि मनुष्याणाम् त्वद्विधानाम् महात्मनाम् ॥६-२-१६॥।। ॥६-२-१६॥
Vālmīki 6.2.17
विनष्टेवा रनस्स्टे वाशोकः सर्वार्थनाशनः ।तत्त्वम् बुद्धिमताम् श्रेष्ठह् सर्वशास्त्रर्थकोविदः ॥६-२-१७॥।। ॥६-२-१७॥
Vālmīki 6.2.18
मद्विधैः सचिवैः सार्धमरिम् जेतुम् समर्हसि ।न हि पश्याम्यहम् कम् चित्त्रिषु लोकेषु राघव ॥६-२-१८॥।। ॥६-२-१८॥
Vālmīki 6.2.19
गृहीतधनुषो यस्ते तिष्ठे दभिमुखो रणे ।वानरेषु समासक्तम् न ते कार्यम् विपत्स्यते ॥६-२-१९॥।। ॥६-२-१९॥
Vālmīki 6.2.20
अचिराद्द्रक्ष्यसे सीताम् तीर्त्वा सागरमक्षयम् ।तदलम् शोकमालम्ब्य क्रोधमालम्ब भूपते ॥६-२-२०॥।। ॥६-२-२०॥
Vālmīki 6.2.21
निश्चेष्टाह् क्षत्रिया मन्दाः सर्वे चण्डस्य् बिभ्यति ।लङ्घानार्थम् च घोरस्य समुद्रस्य नदीपतेः ॥६-२-२१॥।। ॥६-२-२१॥
Vālmīki 6.2.22
सहास्माभिरिहोओपेतह् सूक्ष्मबुद्धिर्विचारय ।लङ्घिते तत्र तैः सैन्यैर्जितमित्येव निश्चिनु ॥६-२-२२॥।। ॥६-२-२२॥
Vālmīki 6.2.23
सर्वम् तीर्णम् च मे सैन्यम् जितमित्यवधार्यताम् ।इमे हि हरयः शूराः समरे कामरूपिणः ॥६-२-२३॥।। ॥६-२-२३॥
Vālmīki 6.2.24
तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः ।कथम् चित्परिपश्यामि लङ्घितम् वरुणालयम् ॥६-२-२४॥।। ॥६-२-२४॥
Vālmīki 6.2.25
हतमित्येव तम् मन्ये युद्धे शत्रुनिबर्हण ।किमुक्त्वा बहुधा चापि सर्वथा विजया भवान् ॥६-२-२५॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷