🪷 युद्धकाण्ड · Sarga 1
Yuddha-Kāṇḍa · The Book of War · Sarga 1 · 19 ślokas
🪷 Devanāgarī Ślokas
श्रुत्वा हनुमतो वाक्यम् यथावद्भिभाषितम् ।रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥६-१-१॥।। ॥६-१-१॥
कृतम् हनुमता कार्यम् सुमहद्भुवि दुर्लभम् ।मनसापि यदन्येन न शक्यम् धरणीतले ॥६-१-२॥।। ॥६-१-२॥
न हि तम् परिपश्यामि यस्तरेत महोदधिम् ।अन्यत्र गुरुडाद्वायोरन्यत्र च हनूमतः ॥६-१-३॥।। ॥६-१-३॥
देवदानवयक्षाणाम् गन्धर्वोरगरक्षसाम् ।अप्रधृष्याम् पुरीम् लङ्काम् रावणेन सुरक्षिताम् ॥६-१-४॥।। ॥६-१-४॥
प्रविष्टः सत्त्वमाश्रित्य जीवन्को नाम निष्क्रमेत् ।को विशेत्सुदुराधर्षाम् राक्षसैश्च सुरक्षिताम् ॥६-१-५॥।। ॥६-१-५॥
यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः ।भृत्यकार्यम् हनुमता सुग्रीवस्य कृतम् महत् ॥६-१-६॥।। ॥६-१-६॥
एवम् विधाय स्वबलम् सदृशम् विक्रमस्य च ।यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे ॥६-१-७॥।। ॥६-१-७॥
कुर्यात्तदुनुरागेण तमहुः पुरुषोत्तमम् ।यो नियुक्तः परम् कार्यम् न कुर्यान्नऋपतेः प्रियम् ॥६-१-८॥।। ॥६-१-८॥
भृत्यो युक्तः समर्थश्च तमाहुर्मध्यम् नरम् ।नियुक्तो नृपतेः कार्यम् न कुर्याद्यः समाहितः ॥६-१-९॥।। ॥६-१-९॥
भृत्यो युक्तः समर्थश्च तमाहुः पुरुष्धमम् ।तन्नियोगे नियुक्तेन कृतम् हनूमता ॥६-१-१०॥।। ॥६-१-१०॥
न चात्मा लघताम् नीतः सुग्रीवश्चापि तोषितः ।अहम् च रघवम्शश्च लक्ष्मणश्च महाबलः ॥६-१-११॥।। ॥६-१-११॥
वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ।इदम् तु मम दीनस्य मनो भूयः प्रकर्षति ॥६-१-१२॥।। ॥६-१-१२॥
यदिहास्य प्रियाक्ष्यातुर्न कुर्मि सदृशम् प्रियम् ।एष सर्वस्वभूतस्तु परिष्वङ्गो हनुमतः ॥६-१-१३॥।। ॥६-१-१३॥
मया कालमिमम् प्राप्य दत्तस्तस्य महात्मनः ।इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तम् परिष्स्वजे ॥६-१-१४॥।। ॥६-१-१४॥
हनुमन्तम् कृतात्मानम् क्R६इतवाक्यमुपागतम् ।ध्यात्वा पुनरुवाचेदम् वचनम् रघुसत्तमः ॥६-१-१५॥।। ॥६-१-१५॥
हरीनामीश्वरस्यापि सुग्रीवस्योपशृण्वतः ।सर्वथा सुकृतम् तावत्सीतायाः परिमार्गणम् ॥६-१-१६॥।। ॥६-१-१६॥
सागरम् तु समासाद्य पुनर्नष्टम् मनो मम ।कथम् नाम समुद्रस्य दुष्पारस्य महाम्भसः ॥६-१-१७॥।। ॥६-१-१७॥
हरयो दक्षिणम् पारम् गमिष्यन्ति समागताह् ।यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम ॥६-१-१८॥।। ॥६-१-१८॥
समुद्रपारगमने हरीणाम् किमिहोत्तरम् ।इत्युक्त्वा शोकसम्भ्रान्तो रामह् शत्रुनिबर्हणः ॥६-१-१९॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 68
- Next: Yuddha-Kāṇḍa Sarga 2 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷