🪷 सुन्दरकाण्ड · Sarga 68
Sundara-Kāṇḍa · The Book of Beauty · Sarga 68 · 29 ślokas
🪷 Devanāgarī Ślokas
अथाहमुत्तरं देव्या पुनरुक्तः ससम्भ्रमः ।तव स्नेहान्नरव्याघ्र सौहार्दादनुमान्य वै ।। ५.६८.१ ।।।। ॥५-६८-१॥
एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया ।यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे ।। ५.६८.२ ।।।। ॥५-६८-२॥
यदि वा मन्यसे वीर वसैकाहमरिन्दम ।कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि ।। ५.६८.३ ।।।। ॥५-६८-३॥
मम चाप्यल्पभाग्यायाः सान्निध्यात्तव वीर्यवन् ।अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम् ।। ५.६८.४ ।।।। ॥५-६८-४॥
गते हि त्वयि विक्रान्ते पुनरागमनाय वै ।प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ।। ५.६८.५ ।।।। ॥५-६८-५॥
तवादर्शनजः शोको भूयो मां परितापयेत् ।दुःखाद्दुःखपराभूतां दुर्गतां दुःखभागिनीम् ।। ५.६८.६ ।।।। ॥५-६८-६॥
अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः ।सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ।। ५.६८.७ ।।।। ॥५-६८-७॥
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् ।तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ।। ५.६८.८ ।।।। ॥५-६८-८॥
त्रयाणामेव भूतानां सागरस्यास्य लङ्घने ।शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ।। ५.६८.९ ।।।। ॥५-६८-९॥
तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे ।किं पश्यसि समाधानं ब्रूहि कार्यविदां वर ।। ५.६८.१० ।।।। ॥५-६८-१०॥
काममस्य त्वमेवैकः कार्यस्य परिसाधने ।पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ।। ५.६८.११ ।।८.१० ।।।। ॥५-६८-११॥
बलैः समग्रैर्यदि मां हत्वा रावणमाहवे ।विजयी स्वां पुरीं रामो नयेत्तत् स्याद्यशस्करम् ।। ५.६८.१२ ।।।। ॥५-६८-१२॥
यथा ऽहं तस्य वीरस्य वनादुपधिना हृता ।रक्षसा तद्भया देव तथा नार्हति राघवः ।। ५.६८.१३ ।।।। ॥५-६८-१३॥
बलैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः ।मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ।। ५.६८.१४ ।।।। ॥५-६८-१४॥
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।भवत्याहवशूरस्य तथा त्वमुपपादय ।। ५.६८.१५ ।।।। ॥५-६८-१५॥
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।निशम्याहं ततः शेषं वाक्यमुत्तरमब्रुवम् ।। ५.६८.१६ ।।।। ॥५-६८-१६॥
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ।सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ।। ५.६८.१७ ।।।। ॥५-६८-१७॥
तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः ।मनस्सङ्कल्पसम्पाता निदेशे हरयः स्थिताः ।। ५.६८.१८ ।।।। ॥५-६८-१८॥
येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः ।न च कर्मसु सीदन्ति महत्स्वमिततेजसः ।। ५.६८.१९ ।।।। ॥५-६८-१९॥
असकृत्तैर्महाभागैर्वानरैर्बलदर्पितैः ।प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ।। ५.६८.२० ।।।। ॥५-६८-२०॥
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः ।मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ।। ५.६८.२१ ।।।। ॥५-६८-२१॥
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ।न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ।। ५.६८.२२ ।।।। ॥५-६८-२२॥
तदलं परितापेन देवि मन्युर्व्यपैतु ते ।एकोत्पातेन वै लङ्कामेष्यन्ति हरियूथपाः ।। ५.६८.२३ ।।।। ॥५-६८-२३॥
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ।त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः ।। ५.६८.२४ ।।।। ॥५-६८-२४॥
अरिघ्नं सिंहसङ्काशं क्षिप्रं द्रक्ष्यसि राघवम् ।लक्ष्मणं च धनुष्पाणीं लङ्काद्वारमुपस्थितम् ।। ५.६८.२५ ।।।। ॥५-६८-२५॥
नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् ।वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि सङ्गतान् ।। ५.६८.२६ ।।।। ॥५-६८-२६॥
शैलाम्बुदनिकाशानां लङ्कामलयसानुषु ।नर्दतां कपिमुख्यानामचिराच्छ्रोष्यसि स्वनम् ।। ५.६८.२७ ।।।। ॥५-६८-२७॥
निवृत्तवनवासं च त्वया सार्धमरिन्दमम् ।अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ।। ५.६८.२८ ।।।। ॥५-६८-२८॥
ततो मया वाग्भिरदीनभाषिणा शिवाभिरिष्टाभिरभिप्रसादिता ।जगाम शान्तिं मम मैथिलात्मजा तवापि शोकेन तदा ऽभिपीडिता ॥५-६८-२९॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 67
- Next: Yuddha-Kāṇḍa Sarga 1 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷