🪷 सुन्दरकाण्ड · Sarga 67
Sundara-Kāṇḍa · The Book of Beauty · Sarga 67 · 38 ślokas
🪷 Devanāgarī Ślokas
एवमुक्तस्तु हनुमान् राघवेण महात्मना ।सीताया भाषितं सर्वं न्यवेदयत राघवे ।। ५.६७.१ ।।।। ॥५-६७-१॥
इदमुक्तवती देवी जानकी पुरुषर्षभ ।पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम् ।। ५.६७.२ ।।।। ॥५-६७-२॥
सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता ।वायसः सहसोत्पत्य विरराद स्तनान्तरे ।। ५.६७.३ ।।।। ॥५-६७-३॥
पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज ।पुनश्च किल पक्षी स देव्या जनयति व्यथाम् ।। ५.६७.४ ।।।। ॥५-६७-४॥
पुनः पुनरुपागम्य विरराद भृशं किल ।ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः ।। ५.६७.५ ।।।। ॥५-६७-५॥
वायसेन च तेनैव सततं बाध्यमानया ।बोधितः किल देव्या त्वं सुखसुप्तः परन्तप ।। ५.६७.६ ।।।। ॥५-६७-६॥
तां तु दृष्ट्वा महाबाहो दारितां च स्तनान्तरे ।आशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः ।। ५.६७.७ ।।।। ॥५-६७-७॥
नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम् ।कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ।। ५.६७.८ ।।।। ॥५-६७-८॥
निरीक्षमाणः सहसा वायसं समवैक्षथाः ।नखैः सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम् ।। ५.६७.९ ।।।। ॥५-६७-९॥
सुतः किल स शक्रस्य वायसः पततां वरः ।धरान्तरचरः शीघ्रं पवनस्य गतौ समः ।। ५.६७.१० ।।।। ॥५-६७-१०॥
ततस्तस्मिन् महाबाहो कोपसंवर्तितेक्षणः ।वायसे त्वं कृथाः क्रूरां मतिं मतिमतां वर ।। ५.६७.११ ।।।। ॥५-६७-११॥
स दर्भं संस्तराद् गृह्य ब्रह्मास्त्रेण ह्ययोजयः ।स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम् ।। ५.६७.१२ ।।।। ॥५-६७-१२॥
क्षिप्तवांस्त्वं प्रदीप्तं हि दर्भं तं वायसं प्रति ।ततस्तु वायसं दीप्तः स दर्भो ऽनुजगाम ह ।। ५.६७.१३ ।।।। ॥५-६७-१३॥
स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः ।त्रिल्लोकान् संपरिक्रम्य त्रातारं नाधिगच्छति ।। ५.६७.१४ ।।।। ॥५-६७-१४॥
पुनरेवागतस्त्रस्तस्त्वकाशमरिन्दम ।स तं निपतितं भूमौ शरण्यः शरणागतम् ।। ५.६७.१५ ।।।। ॥५-६७-१५॥
वधार्हमपि काकुत्स्थ कृपया पर्यपालयः ।। ५.६७.१६ ।।।। ॥५-६७-१६॥
मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव ।भवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ।। ५.६७.१७ ।।।। ॥५-६७-१७॥
राम त्वां स नमस्कृत्य राज्ञे दशरथाय च ।विसृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम् ।। ५.६७.१८ ।।।। ॥५-६७-१८॥
एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्छीलवानपि ।किमर्थमस्त्रं रक्षस्सु न योजयति राघवः ।। ५.६७.१९ ।।।। ॥५-६७-१९॥
न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ।न च सर्वे रणे शक्ता रामं प्रतिसमासितुम् ।। ५.६७.२० ।।।। ॥५-६७-२०॥
तस्य वीर्यवतः कश्चिद्यद्यस्ति मयि सम्भ्रमः ।क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः ।। ५.६७.२१ ।।।। ॥५-६७-२१॥
भ्रातुरादेशमाज्ञाय लक्ष्मणो वा परन्तपः ।स किमर्थं नरवरो न मां रक्षति राघवः ।। ५.६७.२२ ।।।। ॥५-६७-२२॥
शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ।सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ।। ५.६७.२३ ।।।। ॥५-६७-२३॥
ममैव दुष्कृतं किंचिन्महदस्ति न संशयः ।समर्थो सहितौ यन्मां नावेक्षेते परन्तपौ ।। ५.६७.२४ ।।।। ॥५-६७-२४॥
वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ।पुनरप्यहमार्यां तामिदं वचनमब्रुवम् ।। ५.६७.२५ ।।।। ॥५-६७-२५॥
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ।। ५.६७.२६ ।।।। ॥५-६७-२६॥
कथंचिद्भवती दृष्टा न कालः परिशोचितुम् ।इम मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि ।। ५.६७.२७ ।।।। ॥५-६७-२७॥
तावुभौ नरशार्दूलौ राजपुत्रावनिन्दितौ ।त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।। ५.६७.२८ ।।।। ॥५-६७-२८॥
हत्वा च समरे रौद्र रावण सहबान्धवम् ।राघवस्त्वां वरारोहे स्वां पुरीं नयते ध्रुवम् ।। ५.६७.२९ ।।।। ॥५-६७-२९॥
यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ।प्रीतिसञ्जननं तस्य प्रदातुं त्वमिहार्हसि ।। ५.६७.३० ।।।। ॥५-६७-३०॥
सा ऽभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम् ।मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल ।। ५.६७.३१ ।।।। ॥५-६७-३१॥
प्रतिगृह्य मणिं दिव्यं तव हेतो रघूद्वह ।शिरसा तां प्रणम्यार्यामहमागमने त्वरे ।। ५.६७.३२ ।।।। ॥५-६७-३२॥
गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी ।विवर्धमानं च हि मामुवाच जनकात्मजा ।। ५.६७.३३ ।।।। ॥५-६७-३३॥
अश्रुपूर्णमुखी दीना बाष्पसन्दिग्धभाषिणी ।ममोत्पतनसम्भ्रान्ता शोकवेगसमाहता ।। ५.६७.३४ ।।।। ॥५-६७-३४॥
हनुमन् सिंहसङ्काशावुभौ तौ रामलक्ष्मणौ ।सुग्रीवं च सहामात्य सर्वान् ब्रूया ह्यनामयम् ।। ५.६७.३५ ।।।। ॥५-६७-३५॥
यथा च स महाबाहुर्मां तारयति राघवः ।असमाद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ।। ५.६७.३६ ।।।। ॥५-६७-३६॥
इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ।ब्रूयास्तु रामस्य गतः समीपं शिवश्च ते ऽध्वा ऽस्तु हरिप्रवीर ।। ५.६७.३७ ।।।। ॥५-६७-३७॥
एतत्तवार्या नृपराजसिंह सीता वचः प्राह विषादपूर्वम् ।एतच्च बुद्ध्वा गदितं मया त्वं श्रद्धत्स्व सीतां कुशलां समग्राम् ॥५-६७-३८॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 66
- Next: Sundara-Kāṇḍa Sarga 68 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷