🪷 सुन्दरकाण्ड · Sarga 66
Sundara-Kāṇḍa · The Book of Beauty · Sarga 66 · 15 ślokas
🪷 Devanāgarī Ślokas
एवमुक्तो हनुमता रामो दशरथात्मजः ।तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः ।। ५.६६.१ ।।।। ॥५-६६-१॥
तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः ।नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ।। ५.६६.२ ।।।। ॥५-६६-२॥
यथैव धेनुः स्रवति स्नेहाद्वत्सस्य वत्सला ।तथा ममापि हृदयं मणिरत्नस्य दर्शनात् ।। ५.६६.३ ।।।। ॥५-६६-३॥
मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे ।वधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते ।। ५.६६.४ ।।।। ॥५-६६-४॥
अयं हि जलसम्भूतो मणिः सज्जनपूजितः ।यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता ।। ५.६६.५ ।।।। ॥५-६६-५॥
इमं दृष्ट्वा मणिश्रेष्ठं यथा तातस्य दर्शनम् ।अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः ।। ५.६६.६ ।।।। ॥५-६६-६॥
अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः ।अस्याद्य दर्शनेनाहं प्राप्तां तामिव चिन्तये ।। ५.६६.७ ।।।। ॥५-६६-७॥
किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः ।पिपासुमिव तोयेन सिञ्चन्ति वाक्यवारिणा ।। ५.६६.८ ।।।। ॥५-६६-८॥
इतस्तु किं दुःखतरं यदिमं वारिसम्भवम् ।मणिं पश्यामि सौमित्रे वैदेहीमागतं विना ।। ५.६६.९ ।।।। ॥५-६६-९॥
चिरं जीवति वैदेही यदि मासं धरिष्यति ।क्षणं सौम्य न जीवेयं विना तामसितेक्षणाम् ।। ५.६६.१० ।।।। ॥५-६६-१०॥
नय मामपि तं देशं यत्र दृष्टा मम प्रिया ।न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च ।। ५.६६.११ ।।।। ॥५-६६-११॥
कथं सा मम सुश्रोणी भीरुभीरुः सती सदा ।भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् ।। ५.६६.१२ ।।।। ॥५-६६-१२॥
शारदस्तिभिरोन्मुक्तो नूनं चन्द्र इवाम्बुदैः ।आवृतं वदनं तस्या न विराजति राक्षसैः ।। ५.६६.१३ ।।।। ॥५-६६-१३॥
किमाह सीता हनुंस्तत्त्वतः कथयाद्य मे ।एतेन खलु जीविष्ये भेषजेनातुरो यथा ।। ५.६६.१४ ।।।। ॥५-६६-१४॥
मधुरा मधुरालापा किमाह मम भामिनी ।मद्विहीना वरारोहा हनुमन् कथयस्व मे ॥५-६६-१५॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 65
- Next: Sundara-Kāṇḍa Sarga 67 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷