🪷 सुन्दरकाण्ड · Sarga 43
Sundara-Kāṇḍa · The Book of Beauty · Sarga 43 · 24 ślokas
🪷 Devanāgarī Ślokas
वनं भग्नं मया चैत्यप्रसादो न विनाशितः ।तस्मात् प्रासादमप्येव भीमं विध्वंसयाम्यहम् ।इति ऽञ्चिन्त्य मनसा हनुमान् दर्शयन् बलम् ।। ५.४३.२।।।। ॥५-४३-१॥
चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम् ।आरुरोह हरिश्रेष्ठो हनुमान् मारुतात्मजः ।। ५.४३.३।।।। ॥५-४३-२॥
आरुह्य गिरिसङ्काशं प्रासादं हरियूथपः ।बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः ।। ५.४३.४।।।। ॥५-४३-३॥
संप्रधृष्य च दुर्धर्षं चैत्यप्रासादमुत्तमम् ।हनुमान् प्रज्वलन् लक्ष्म्या पारियात्रोपमो ऽभवत् ।। ५.४३.५।।।। ॥५-४३-४॥
स भूत्वा सुमहाकायः प्रभावान्मारुतात्मजः ।धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ।। ५.४३.६।।।। ॥५-४३-५॥
तस्यास्फोटितशब्देन महता श्रोत्रघातिना ।पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः ।। ५.४३.७।।।। ॥५-४३-६॥
अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः ।राजा जयति सुग्रीवो राघवेणाभिपालितः ।। ५.४३.८।।।। ॥५-४३-७॥
दासो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ।। ५.४३.९।।।। ॥५-४३-८॥
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ।। ५.४३.१०।।।। ॥५-४३-९॥
अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ।समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ।। ५.४३.११।।।। ॥५-४३-१०॥
एमुक्त्वा विमानस्थश्चैत्यस्थान् हरियूथपः ।ननाद भीमनिर्ह्रादो रक्षसां जनयन् भयम् ।।। ५.४३.१२।।।। ॥५-४३-११॥
तेन शब्देन महता चैत्यपालाः शतं ययुः ।गृहीत्वा विविधानस्त्रान् प्रासान् खड्गान् परश्वधान् ।विसृजन्तो महाकाया मारुतिं प्रर्यवारयन् ।। ५.४३.१३।।।। ॥५-४३-१२॥
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ।आजघ्नुर्वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः ।। ५.४३.१४।।।। ॥५-४३-१३॥
आवर्त इव गङ्गायास्तोयस्य विपुलो महान् ।परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः ।। ५.४३.१५।।।। ॥५-४३-१४॥
ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः ।। ५.४३.१६।।।। ॥५-४३-१५॥
प्रासादस्य महान्तस्य स्तम्भं हेमपरिष्कृतम् ।उत्पाटयित्वा वेगेन हनुमान् पवनात्मजः ।ततस्तं भ्रामयामास शताधारं महाबलः ।। ५.४३.१७।।।। ॥५-४३-१६॥
तत्र चाग्निः समभवत् प्रासादश्चाप्यदह्यत ।। ५.४३.१८।।टयित्वा वेगेन हनुमान् पवनात्मजः ।।। ॥५-४३-१७॥
दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः ।स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान् ।अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ।। ५.४३.१९।।।। ॥५-४३-१८॥
मादृशानां सहस्राणि विसृष्टानि महात्मनाम् ।बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् ।। ५.४३.२०।।।। ॥५-४३-१९॥
अटन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ।। ५.४३.२१।।।। ॥५-४३-२०॥
दशनागबलाः केचित् केचिद्दशगुणोत्तराः ।केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ।। ५.४३.२२।।।। ॥५-४३-२१॥
सन्ति चौघबलाः केचित् केचिद्वायुबलोपमाः ।अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः ।। ५.४३.२३।।।। ॥५-४३-२२॥
ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः ।शतैः शतसहस्रैश्च कोटीभिरयुतैरपि ।आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः ।। ५.४३.२४।।।। ॥५-४३-२३॥
नेयमस्ति पुरी लङ्का न यूयं न च रावणः ।यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना ॥५-४३-२४॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 42
- Next: Sundara-Kāṇḍa Sarga 44 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷