🪷 सुन्दरकाण्ड · Sarga 42
Sundara-Kāṇḍa · The Book of Beauty · Sarga 42 · 43 ślokas
🪷 Devanāgarī Ślokas
ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च ।बभूवुस्त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः ।। ५.४२.१।।।। ॥५-४२-१॥
विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः ।रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ।। ५.४२.२।।।। ॥५-४२-२॥
ततो गतायां निद्रायां राक्षस्यो विकृताननाः ।तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम् ।। ५.४२.३।।।। ॥५-४२-३॥
स ता दृष्ट्वा महाबाहूर्महासत्त्वो महाबलः ।चकार सुमहद्रूपं राक्षसीनां भयावहम् ।। ५.४२.४।।।। ॥५-४२-४॥
ततस्तं गिरिसङ्काशमतिकायं महाबलम् ।राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ।। ५.४२.५।।।। ॥५-४२-५॥
को ऽयं कस्य कुतो वा ऽयं किंनिमित्तमिहागतः ।कथं त्वया सहानेन संवादः कृत इत्युत ।। ५.४२.६।।।। ॥५-४२-६॥
आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् ।संवादमसितापाङ्गे त्वया किं कृतवानयम् ।। ५.४२.७।।।। ॥५-४२-७॥
अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गसुन्दरी ।रक्षसां भीमरूपाणां विज्ञाने मम का गतिः ।। ५.४२.८।।।। ॥५-४२-८॥
यूयमेवाभिजानीत यो ऽयं यद्वा करिष्यति ।अहिरेव ह्यहेः पादान् विजानाति न संशयः ।। ५.४२.९।।।। ॥५-४२-९॥
अहमप्यस्य भीता ऽस्मि नैनं जानामि कोन्वयम् ।वेद्मि राक्षसमेवैनं कामरूपिणमागतम् ।। ५.४२.१०।।।। ॥५-४२-१०॥
वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता दिशः ।स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम् ।। ५.४२.११।।।। ॥५-४२-११॥
रावणस्य समीपे तु राक्षस्यो विकृताननाः ।विरूपं वानरं भीममाख्यातुमुपचक्रमुः ।। ५.४२.१२।।।। ॥५-४२-१२॥
अशोकवनिकामध्ये राजन् भीमवपुः कपिः ।सीतया कृतसंवादस्तदिष्ठत्यमितविक्रमः ।। ५.४२.१३।।।। ॥५-४२-१३॥
न च तं जानकी सीता हरिं हरिणलोचना ।अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छिति ।। ५.४२.१४।।।। ॥५-४२-१४॥
वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा ।प्रेषितो वा ऽपि रामेण सीतान्वेषणकाङ्क्षया ।। ५.४२.१५।।।। ॥५-४२-१५॥
तेन त्वद्भुतरूपेण यत्तत्तव मनोहरम् ।नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् ।। ५.४२.१६।।।। ॥५-४२-१६॥
न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः ।यत्र सा जानकी सीता स तेन न विनाशितः ।। ५.४२.१७।।।। ॥५-४२-१७॥
जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते ।अथवा कः श्रमस्तस्य सैव तेनाभिरक्षिता ।। ५.४२.१८।।।। ॥५-४२-१८॥
चारुपल्लवपुष्पाढ्यं यं सीता स्वयमास्थिता ।प्रवृद्धः शिंशुपावृक्षः स च तेनाभिरक्षितः ।। ५.४२.१९।।।। ॥५-४२-१९॥
तस्योग्ररूपस्योग्र त्वं दण्डमाज्ञातुमर्हसि ।सीता संभाषिता येन तद्वनं च विनाशितम् ।। ५.४२.२०।।।। ॥५-४२-२०॥
मनःपरिगृहीतां तां तव रक्षोगणेश्वर ।कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः ।। ५.४२.२१।।।। ॥५-४२-२१॥
राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः ।हुताग्निरिव जज्वाल कोपसंवर्तितेक्षणः ।। ५.४२.२२।।।। ॥५-४२-२२॥
तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नास्रबिन्दवः ।दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ।। ५.४२.२३।।।। ॥५-४२-२३॥
आत्मनः सदृशाञ्छूरान् किङ्करान्नाम राक्षसान् ।व्यादिदेश महातेजा निग्रहार्थं हनूमतः ।। ५.४२.२४।।।। ॥५-४२-२४॥
तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम् ।। ५.४२.२५।।।। ॥५-४२-२५॥
निर्ययुर्भवनात् तस्मात्कूटमुद्गरपाणयः ।महोदरा महादंष्ट्रा घोररूपा महाबलाः ।युद्धाभिमनसः सर्वे हनुमद्ग्रहणोन्मुखाः ।। ५.४२.२६।।।। ॥५-४२-२६॥
ते कपीन्द्रं समासाद्य तोरणस्थमवस्थितम् ।अभिपेतुर्महावेगाः पतङ्गा इव पावकम् ।। ५.४२.२७।।।। ॥५-४२-२७॥
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ।आजघ्नुर्वानरश्रेष्ठं शरैश्चादित्यसन्निभैः ।। ५.४२.२८।।।। ॥५-४२-२८॥
मुद्गरैः पट्टिशैः शूलैः प्रासतोमरशक्तिभिः ।परिवार्य हनूमन्तं सहसा तस्थुरग्रतः ।। ५.४२.२९।।।। ॥५-४२-२९॥
हनुमानपि तेजस्वी श्रीमान् पर्वतसन्निभिः ।क्षितावाविध्य लांगूलं ननाद च महास्वनम् ।। ५.४२.३०।।।। ॥५-४२-३०॥
स भूत्वा सुमहाकायो हनुमान् मारुतात्मजः ।धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ।। ५.४२.३१।।।। ॥५-४२-३१॥
तस्यास्फोटितशब्देन महता सानुनादिना ।पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत् ।। ५.४२.३२।।।। ॥५-४२-३२॥
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।राजा जयति सुग्रीवो राघवेणाभिपालितः ।। ५.४२.३३।।।। ॥५-४२-३३॥
दासो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ।। ५.४२.३४।।।। ॥५-४२-३४॥
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ।। ५.४२.३५।।।। ॥५-४२-३५॥
अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ।समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ।। ५.४२.३६।।।। ॥५-४२-३६॥
तस्य सन्नादशब्देन ते ऽभवन् भयशङ्किताः ।ददृशुश्च हनूमन्तं सन्ध्यामेघमिवोन्नतम् ।। ५.४२.३७।।।। ॥५-४२-३७॥
स्वामिसन्देशनिश्शङ्कास्ततस्ते राक्षसाः कपिम् ।चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ।। ५.४२.३८।।।। ॥५-४२-३८॥
स तैः परिवृतः शूरैः सर्वतः स महाबलः ।आससादायसं भीमं परिघं तोरणाश्रितम्।स तं परिघमादय जघान रजनीचरान् ।। ५.४२.३९।।।। ॥५-४२-३९॥
स पन्नगमिवादाय स्फुरन्तं विनतासुतः ।विचचाराम्बरे वीरः परिगृह्य च मारुतिः ।। ५.४२.४०।।।। ॥५-४२-४०॥
स हत्वा राक्षसान् वीरान् किङ्करान् मारुतात्मजः ।युद्धाकाङ्क्षी पुनर्वीरस्तोरणं समुपाश्रितः ।। ५.४२.४१।।।। ॥५-४२-४१॥
ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः ।निहतान् किङ्करान् सर्वान् रावणाय न्यवेदयन् ।। ५.४२.४२।।।। ॥५-४२-४२॥
स राक्षसानां निहतं महद्बलं निशम्य राजा परिवृत्तलोचनः ।समादिदेशाप्रतिमं पराक्रमे प्रहस्त पुत्रं समरे सुदुर्जयम् ॥५-४२-४३॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 41
- Next: Sundara-Kāṇḍa Sarga 43 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷