🪷 सुन्दरकाण्ड · Sarga 41

Sundara-Kāṇḍa · The Book of Beauty · Sarga 41 · 21 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 5.41.1
स च वाग्भिः प्रशन्ताभिर्गमिष्यन् पूजितस्तया ।तस्माद्देशादपक्रम्य चिन्तयामास वानरः ।। ५.४१.१।।।। ॥५-४१-१॥
Vālmīki 5.41.2
अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा ।त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ।। ५.४१.२।।।। ॥५-४१-२॥
Vālmīki 5.41.3
न साम रक्षस्सु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते ।न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते ।। ५.४१.३।।।। ॥५-४१-३॥
Vālmīki 5.41.4
न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते ।हतप्रवीरा हि रणे राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम् ।। ५.४१.४।।।। ॥५-४१-४॥
Vālmīki 5.41.5
कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत् ।पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ।। ५.४१.५।।।। ॥५-४१-५॥
Vālmīki 5.41.6
न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः ।यो ह्यर्थं बहुधा वेद स समर्थो ऽर्थसाधने ।। ५.४१.६।।।। ॥५-४१-६॥
Vālmīki 5.41.7
इहैव तावत् कृतनिश्चयो ह्याहं यदि व्रजेयं प्लवगेश्वरालयम् ।परात्मसंमर्दविशेषतत्त्ववित् ततः कृतं स्यान्मम भर्तृशासनम् ।। ५.४१.७।।।। ॥५-४१-७॥
Vālmīki 5.41.8
कथं नु खल्वद्य भवेत् सुखागतं प्रसह्य युद्धं मम राक्षसैः सह ।तथैव खल्वात्मबलं च सारवत् संमानयेन्मां च रणे दशाननः ।। ५.४१.८।।।। ॥५-४१-८॥
Vālmīki 5.41.9
ततः समासाद्य रणे दशाननं समन्त्रिवर्गं सबलप्रयायिनम् ।हृदि स्थितं तस्य मतं बलं च वै सुखेन मत्वा ऽहमितः पुनर्व्रजे ।। ५.४१.९।।।। ॥५-४१-९॥
Vālmīki 5.41.10
इदमस्य नृशंसस्य नन्दनोपममुत्तमम् ।वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ।। ५.४१.१०।।।। ॥५-४१-१०॥
Vālmīki 5.41.11
इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः ।अस्मिन् भग्ने ततः कोपं करिष्यति दशाननः ।। ५.४१.११।।।। ॥५-४१-११॥
Vālmīki 5.41.12
ततो महत् साश्वमहारथद्विपं बलं समादेक्ष्यति राक्षसाधिपः ।त्रिशूलकालायसपट्टसायुधं ततो महद्युद्धमिदं भविष्यति ।। ५.४१.१२।।।। ॥५-४१-१२॥
Vālmīki 5.41.13
अहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरसह्यविक्रमः ।निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम् ।। ५.४१.१३।।।। ॥५-४१-१३॥
Vālmīki 5.41.14
ततो मारुतवत् क्रुद्धो मारुतिर्भीमविक्रमः ।उरुवेगेन महता द्रुमान् क्षेप्तुमथारभत् ।। ५.४१.१४।।।। ॥५-४१-१४॥
Vālmīki 5.41.15
ततस्तु हनुमान् वीरो बभञ्च प्रमदावनम् ।मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ।। ५.४१.१५।।।। ॥५-४१-१५॥
Vālmīki 5.41.16
तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः ।चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ।। ५.४१.१६।।।। ॥५-४१-१६॥
Vālmīki 5.41.17
नानाशकुन्तविरुतैः प्रभिन्नैः सलिलाशयैः ।ताम्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् ।न बभौ तद्वनं तत्र दावानलहतं यथा ।। ५.४१.१७।।।। ॥५-४१-१७॥
Vālmīki 5.41.18
व्याकुलावरणा रेजुर्विह्वला इव ता लताः ।। ५.४१.१८।। किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् ।।। ॥५-४१-१८॥
Vālmīki 5.41.19
लतागृहैश्चित्रगृहैश्च नाशितैर्महोरगैर्व्यालमृगैश्च निर्धुतैः ।शिलागृहैरुन्मथितैस्तथा गृहैः प्रनष्टरूपं तदभून्महद्वनम् ।। ५.४१.१९।।।। ॥५-४१-१९॥
Vālmīki 5.41.20
सा विह्वला ऽशोकलताप्रताना वनस्थली शोकलताप्रताना ।जाता दशास्यप्रमदावनस्य कपेर्बलाद्धि प्रमदावनस्य ।। ५.४१.२०।।।। ॥५-४१-२०॥
Vālmīki 5.41.21
स तस्य कृत्वा ऽर्थपतेर्महाकपिर्महद्व्यलीकं मनसो महात्मनः ।युयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमास्थितः कपिः ॥५-४१-२१॥

Navigation

Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷