🪷 सुन्दरकाण्ड · Sarga 40
Sundara-Kāṇḍa · The Book of Beauty · Sarga 40 · 25 ślokas
🪷 Devanāgarī Ślokas
श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः ।उवाचात्महितं वाक्यं सीता सुरसुतोपमा ।। ५.४०.१।।।। ॥५-४०-१॥
त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानर ।अर्धसञ्जातसस्येव वृष्टिं प्राप्य वसुन्धरा ।। ५.४०.२।।।। ॥५-४०-२॥
यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः ।संस्पृशेयं सकामा ऽहं तथा कुरु दयां मयि ।। ५.४०.३।।।। ॥५-४०-३॥
अभिज्ञानं च रामस्य दद्या हरिगणोत्तम ।क्षिप्तामिषीकां काकस्य कोपादेकाक्षिशातनीम् ।। ५.४०.४।।।। ॥५-४०-४॥
मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः ।त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि ।। ५.४०.५।।।। ॥५-४०-५॥
स वीर्यवान् कथं सीतां हृतां समनुमन्यसे ।वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपमः ।। ५.४०.६।।।। ॥५-४०-६॥
एष चूडामणिर्दिव्यो मया सुपरिरक्षितः ।एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ ।। ५.४०.७।।।। ॥५-४०-७॥
एष निर्यातितः श्रीमान् मया ते वारिसम्भवः ।अतः परं न शक्ष्यामि जीवितुं शोकलालसा ।। ५.४०.८।।।। ॥५-४०-८॥
असह्यानि न दुःखानि वाचश्च हृदयच्छिदः ।राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम् ।। ५.४०.९।।।। ॥५-४०-९॥
धारयिष्यामि मासं तु जीवितं शत्रुसूदन ।मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज ।। ५.४०.१०।।।। ॥५-४०-१०॥
घोरो राक्षसराजो ऽयं दृष्टिश्च न सुखा मयि ।त्वां च श्रुत्वा विषज्जनं न जीवेयमहं क्षणम् ।। ५.४०.११।।।। ॥५-४०-११॥
वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ।तथा ऽब्रवीन्महातेजा हनुमान् मारुतात्मजः ।। ५.४०.१२।।।। ॥५-४०-१२॥
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ।। ५.४०.१३।।।। ॥५-४०-१३॥
कथंचिद् भवती दृष्टा न कालः परिशोचितुम् ।इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यामि भामिनि ।। ५.४०.१४।।।। ॥५-४०-१४॥
तावुभौ पुरुषव्याघ्रौ राजपुत्रावरिन्दमौ ।त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।। ५.४०.१५।।।। ॥५-४०-१५॥
हत्वा तु समरे क्रूरं रावणं सहबान्धवम् ।राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः ।। ५.४०.१६।।।। ॥५-४०-१६॥
यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ।प्रीतिसञ्जननं तस्य भूयस्त्वं दातुमर्हसि ।। ५.४०.१७।।।। ॥५-४०-१७॥
सा ऽब्रवीद्दत्तमेवेति मया ऽभिज्ञानमुत्तमम् ।एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम् ।श्रद्धेयं हनुमन् वाक्यं तव वीर भविष्यति ।। ५.४०.१८।।।। ॥५-४०-१८॥
स तं मणिवरं गृह्य श्रीमान् प्लवगसत्तमः ।प्रणम्य शिरसा देवीं गमनायोपचक्रमे ।। ५.४०.१९।।।। ॥५-४०-१९॥
तमुत्पातकृतोत्साहमवेक्ष्य हरिपुङ्गवम् ।वर्धमानं महावेगमुवाच जनकात्मजा ।। ५.४०.२०।।।। ॥५-४०-२०॥
अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा ।। ५.४०.२१।।।। ॥५-४०-२१॥
हनुमन् सिंहसङ्काशौ भ्रातरौ रामलक्ष्मणौ ।सुग्रीवं च सहामात्वं सर्वान् ब्रूया ह्यनामयम् ।। ५.४०.२२।।।। ॥५-४०-२२॥
यथा च स महाबाहुर्मां तारयति राघवः ।अस्माद्दुःखाम्बुसंरोधात् त्वं समाधातुमर्हसि ।। ५.४०.२३।।।। ॥५-४०-२३॥
इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ।ब्रूयास्तु रामस्य गतः समीपं शिवश्च ते ऽध्वा ऽस्तु हरिप्रवीर ।। ५.४०.२४।।।। ॥५-४०-२४॥
स राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः ।अल्पावशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदिचीं मनसा जगाम ॥५-४०-२५॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 39
- Next: Sundara-Kāṇḍa Sarga 41 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷