🪷 सुन्दरकाण्ड · Sarga 39

Sundara-Kāṇḍa · The Book of Beauty · Sarga 39 · 54 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 5.39local sarga route with all Sanskrit ślokasSundara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 5.39.1
मणिं दत्त्वा ततः सीता हनुमन्तमथाब्रवीति ।अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः ।। ५.३९.१।।।।
Vālmīki 5.39.2
मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति ।वीरो जनन्या मम च राज्ञो दशरथस्य च ।। ५.३९.२।।।।
Vālmīki 5.39.3
स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम ।अस्मिन् कार्यसमारम्भे प्रचिन्तय यदुत्तरम् ।। ५.३९.३।।।।
Vālmīki 5.39.4
त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम ।हनुमन् यत्नमास्थाय दुःखक्षयकरो भव ।तस्य चिन्तयतो यत्नो दुःखक्षयकरो भवेत् ।। ५.३९.४।।।।
Vālmīki 5.39.5
स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः ।शिरसा ऽ ऽवन्द्य वैदेहीं गमनायोपचक्रमे ।। ५.३९.५।।।।
Vālmīki 5.39.6
ज्ञत्वा संप्रस्थितं देवी वानरं मारुतात्मजम् ।बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत् ।। ५.३९.६।।।।
Vālmīki 5.39.7
कुशलं हनुमन् ब्रूयाः सहितौ रामलक्ष्मणौ ।। ५.३९.७।।।।
Vālmīki 5.39.8
सुग्रीवं च सहामात्यं वृद्धान् सर्वांश्च वाररान् ।ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम् ।। ५.३९.८।।।।
Vālmīki 5.39.9
यथा स च महाबाहुर्मां तारयति राघवः ।अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ।। ५.३९.९।।।।
Vālmīki 5.39.10
जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान् ।तत्तथा हनुमन् वाच्यं वाचा धर्ममवाप्नुहि ।। ५.३९.१०।।।।
Vālmīki 5.39.11
नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा त्वयेरिताः ।वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ।। ५.३९.११।।।।
Vālmīki 5.39.12
मत्सन्देशयुता वाचस्त्वत्तः श्रुत्वैव राघवः ।पराक्रमविधिं वीरो विधिवत् संविधास्यति ।। ५.३९.१२।।।।
Vālmīki 5.39.13
सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः ।शिरस्यञ्जलिमाधाय वाक्यमुत्तरब्रवीत् ।। ५.३९.१३।।।।
Vālmīki 5.39.14
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः ।यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ।। ५.३९.१४।।।।
Vālmīki 5.39.15
नहि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा ।यस्तस्य क्षिपतो बाणान् स्थातुमुत्सहतो ऽग्रतः ।। ५.३९.१५।।।।
Vālmīki 5.39.16
अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम् ।सहि सोढुं रणे शक्तस्तव हेतोर्विशेषतः ।। ५.३९.१६।।।।
Vālmīki 5.39.17
स हि सागरपर्यन्तां महीं शासितुमीहते ।त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ।। ५.३९.१७।।।।
Vālmīki 5.39.18
तस्य तद्वचनं श्रुत्वा सम्यक् सत्यं सुभाषितम् ।जानकी बहुमेने ऽथ वचनं चेदमब्रवीत् ।। ५.३९.१८।।।।
Vālmīki 5.39.19
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ।। ५.३९.१९।।।।
Vālmīki 5.39.20
यदि वा मन्यसे वीर वसैकाहमरिन्दम ।कस्मिंश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि ।। ५.३९.२०।।।।
Vālmīki 5.39.21
मम चेदल्पभाग्यायाः सान्निध्यात्तव वानर ।अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् ।। ५.३९.२१।।।।
Vālmīki 5.39.22
गते हि हरिशार्दूल पुनरागमनाय तु ।प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ।। ५.३९.२२।।।।
Vālmīki 5.39.23
तवादर्शनजः शोको भूयो मां परितापयेत् ।दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर ।। ५.३९.२३।।।।
Vālmīki 5.39.24
अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः ।सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ।। ५.३९.२४।।।।
Vālmīki 5.39.25
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् ।तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ।। ५.३९.२५।।।।
Vālmīki 5.39.26
त्रयाणामेव भूतानां सागरस्यास्य लङ्घने ।शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ।। ५.३९.२६।।।।
Vālmīki 5.39.27
तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे ।किं पश्यसि समाधानं त्वं हि कार्यविदां वरः ।। ५.३९.२७।।।।
Vālmīki 5.39.28
काममस्य त्वमेवैकः कार्यस्य परिसाधने ।पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः ।। ५.३९.२८।।।।
Vālmīki 5.39.29
बलैः समग्रैर्यदि मां रावणं जित्यसंयुगे ।विजयी स्वपुरीं यायात् तत्तु मे स्याद्यशस्करम् ।। ५.३९.२९।।।।
Vālmīki 5.39.30
शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः ।मां येद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ।। ५.३९.३०।।।।
Vālmīki 5.39.31
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।भवेदाहवशूरस्य तथा त्वमुपपादय ।। ५.३९.३१।।।।
Vālmīki 5.39.32
तदर्थोपहितं वाक्यं सहितं हेतुसंहितम् ।निशम्य हनुमान् शेषं वाक्यमुत्तरमब्रवीत् ।। ५.३९.३२।।।।
Vālmīki 5.39.33
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ।सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ।। ५.३९.३३।।।।
Vālmīki 5.39.34
स वानरसहस्राणां कोटीभिरभिसंवृतः ।क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः ।। ५.३९.३४।।।।
Vālmīki 5.39.35
तस्य विक्रमसम्पन्नास्सत्त्ववन्तो महाबलाः ।मनस्सङ्कल्पसंपाता निदेशे हरयः स्थिताः ।। ५.३९.३५।।।।
Vālmīki 5.39.36
येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः ।न च कर्मसु सीदन्ति महत्स्वमिततेजसः ।। ५.३९.३६।।।।
Vālmīki 5.39.37
असकृत् तैर्महोत्साहैः ससागरधराधरा ।प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ।। ५.३९.३७।।।।
Vālmīki 5.39.38
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः ।मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ।। ५.३९.३८।।।।
Vālmīki 5.39.39
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ।नहि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ।। ५.३९.३९।।।।
Vālmīki 5.39.40
तदलं परितापेन देवि शोको व्यपैतु ते ।एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ।। ५.३९.४०।।।।
Vālmīki 5.39.41
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ।त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः ।। ५.३९.४१।।।।
Vālmīki 5.39.42
तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ ।आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ।। ५.३९.४२।।।।
Vālmīki 5.39.43
सगणं रावणं हत्वा राघवो रघुनन्दनः ।त्वामादाय वरारोहे स्वपुरं प्रतियास्यति ।। ५.३९.४३।।।।
Vālmīki 5.39.44
तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी ।नचिराद्द्रक्ष्यसे रामं प्रज्वलन्तिमिवानलम् ।। ५.३९.४४।।।।
Vālmīki 5.39.45
निहते राक्षसेन्द्रे ऽस्मिन् सपुत्रामात्यबान्धवे ।त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी ।। ५.३९.४५।।।।
Vālmīki 5.39.46
क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि ।रावणं चैव रामेण निहतं द्रक्ष्यसे ऽचिरात् ।। ५.३९.४६।।।।
Vālmīki 5.39.47
एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः ।गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत् ।। ५.३९.४७।।।।
Vālmīki 5.39.48
तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् ।लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम्* ।। ५.३९.४८।।।।
Vālmīki 5.39.49
नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् ।वानरान् वारणेन्द्राभान् क्षिप्र द्रक्ष्यसि सङ्गतान् ।। ५.३९.४९।।।।
Vālmīki 5.39.50
शैलाम्बुदनिकाशानां लङ्कामलयसानुषु ।नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः ।। ५.३९.५०।।।।
Vālmīki 5.39.51
स तु मर्मणि घोरेण ताडितो मन्मथेषुणा ।न शर्म लभते रामः सिंहार्दित इव द्विपः ।। ५.३९.५१।।।।
Vālmīki 5.39.52
मा रुदो देवि शोकेन मा भूत् ते मनसो ऽप्रियम् ।शचीव पत्या शक्रेण भर्त्रा नाथवती ह्यसि ।। ५.३९.५२।।।।
Vālmīki 5.39.53
रामाद् विशिष्टः को ऽन्यो ऽस्ति कश्चित् सौमित्रिणा समः ।अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ ।। ५.३९.५३।।।।
Vālmīki 5.39.54
नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषिते ऽतिरौद्रे ।न ते चिरादागमनं प्रियस्य क्षमस्व मत्सङ्गमकालमात्रम् ।। ५.३९.५४।।

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷