🪷 सुन्दरकाण्ड · Sarga 39
Sundara-Kāṇḍa · The Book of Beauty · Sarga 39 · 54 ślokas
🪷 Devanāgarī Ślokas
मणिं दत्त्वा ततः सीता हनुमन्तमथाब्रवीति ।अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः ।। ५.३९.१।।।। ॥५-३९-१॥
मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति ।वीरो जनन्या मम च राज्ञो दशरथस्य च ।। ५.३९.२।।।। ॥५-३९-२॥
स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम ।अस्मिन् कार्यसमारम्भे प्रचिन्तय यदुत्तरम् ।। ५.३९.३।।।। ॥५-३९-३॥
त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम ।हनुमन् यत्नमास्थाय दुःखक्षयकरो भव ।तस्य चिन्तयतो यत्नो दुःखक्षयकरो भवेत् ।। ५.३९.४।।।। ॥५-३९-४॥
स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः ।शिरसा ऽ ऽवन्द्य वैदेहीं गमनायोपचक्रमे ।। ५.३९.५।।।। ॥५-३९-५॥
ज्ञत्वा संप्रस्थितं देवी वानरं मारुतात्मजम् ।बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत् ।। ५.३९.६।।।। ॥५-३९-६॥
कुशलं हनुमन् ब्रूयाः सहितौ रामलक्ष्मणौ ।। ५.३९.७।।।। ॥५-३९-७॥
सुग्रीवं च सहामात्यं वृद्धान् सर्वांश्च वाररान् ।ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम् ।। ५.३९.८।।।। ॥५-३९-८॥
यथा स च महाबाहुर्मां तारयति राघवः ।अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ।। ५.३९.९।।।। ॥५-३९-९॥
जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान् ।तत्तथा हनुमन् वाच्यं वाचा धर्ममवाप्नुहि ।। ५.३९.१०।।।। ॥५-३९-१०॥
नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा त्वयेरिताः ।वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ।। ५.३९.११।।।। ॥५-३९-११॥
मत्सन्देशयुता वाचस्त्वत्तः श्रुत्वैव राघवः ।पराक्रमविधिं वीरो विधिवत् संविधास्यति ।। ५.३९.१२।।।। ॥५-३९-१२॥
सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः ।शिरस्यञ्जलिमाधाय वाक्यमुत्तरब्रवीत् ।। ५.३९.१३।।।। ॥५-३९-१३॥
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः ।यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ।। ५.३९.१४।।।। ॥५-३९-१४॥
नहि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा ।यस्तस्य क्षिपतो बाणान् स्थातुमुत्सहतो ऽग्रतः ।। ५.३९.१५।।।। ॥५-३९-१५॥
अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम् ।सहि सोढुं रणे शक्तस्तव हेतोर्विशेषतः ।। ५.३९.१६।।।। ॥५-३९-१६॥
स हि सागरपर्यन्तां महीं शासितुमीहते ।त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ।। ५.३९.१७।।।। ॥५-३९-१७॥
तस्य तद्वचनं श्रुत्वा सम्यक् सत्यं सुभाषितम् ।जानकी बहुमेने ऽथ वचनं चेदमब्रवीत् ।। ५.३९.१८।।।। ॥५-३९-१८॥
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ।। ५.३९.१९।।।। ॥५-३९-१९॥
यदि वा मन्यसे वीर वसैकाहमरिन्दम ।कस्मिंश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि ।। ५.३९.२०।।।। ॥५-३९-२०॥
मम चेदल्पभाग्यायाः सान्निध्यात्तव वानर ।अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् ।। ५.३९.२१।।।। ॥५-३९-२१॥
गते हि हरिशार्दूल पुनरागमनाय तु ।प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ।। ५.३९.२२।।।। ॥५-३९-२२॥
तवादर्शनजः शोको भूयो मां परितापयेत् ।दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर ।। ५.३९.२३।।।। ॥५-३९-२३॥
अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः ।सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ।। ५.३९.२४।।।। ॥५-३९-२४॥
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् ।तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ।। ५.३९.२५।।।। ॥५-३९-२५॥
त्रयाणामेव भूतानां सागरस्यास्य लङ्घने ।शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ।। ५.३९.२६।।।। ॥५-३९-२६॥
तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे ।किं पश्यसि समाधानं त्वं हि कार्यविदां वरः ।। ५.३९.२७।।।। ॥५-३९-२७॥
काममस्य त्वमेवैकः कार्यस्य परिसाधने ।पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः ।। ५.३९.२८।।।। ॥५-३९-२८॥
बलैः समग्रैर्यदि मां रावणं जित्यसंयुगे ।विजयी स्वपुरीं यायात् तत्तु मे स्याद्यशस्करम् ।। ५.३९.२९।।।। ॥५-३९-२९॥
शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः ।मां येद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ।। ५.३९.३०।।।। ॥५-३९-३०॥
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।भवेदाहवशूरस्य तथा त्वमुपपादय ।। ५.३९.३१।।।। ॥५-३९-३१॥
तदर्थोपहितं वाक्यं सहितं हेतुसंहितम् ।निशम्य हनुमान् शेषं वाक्यमुत्तरमब्रवीत् ।। ५.३९.३२।।।। ॥५-३९-३२॥
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ।सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ।। ५.३९.३३।।।। ॥५-३९-३३॥
स वानरसहस्राणां कोटीभिरभिसंवृतः ।क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः ।। ५.३९.३४।।।। ॥५-३९-३४॥
तस्य विक्रमसम्पन्नास्सत्त्ववन्तो महाबलाः ।मनस्सङ्कल्पसंपाता निदेशे हरयः स्थिताः ।। ५.३९.३५।।।। ॥५-३९-३५॥
येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः ।न च कर्मसु सीदन्ति महत्स्वमिततेजसः ।। ५.३९.३६।।।। ॥५-३९-३६॥
असकृत् तैर्महोत्साहैः ससागरधराधरा ।प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ।। ५.३९.३७।।।। ॥५-३९-३७॥
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः ।मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ।। ५.३९.३८।।।। ॥५-३९-३८॥
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ।नहि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ।। ५.३९.३९।।।। ॥५-३९-३९॥
तदलं परितापेन देवि शोको व्यपैतु ते ।एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ।। ५.३९.४०।।।। ॥५-३९-४०॥
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ।त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः ।। ५.३९.४१।।।। ॥५-३९-४१॥
तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ ।आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ।। ५.३९.४२।।।। ॥५-३९-४२॥
सगणं रावणं हत्वा राघवो रघुनन्दनः ।त्वामादाय वरारोहे स्वपुरं प्रतियास्यति ।। ५.३९.४३।।।। ॥५-३९-४३॥
तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी ।नचिराद्द्रक्ष्यसे रामं प्रज्वलन्तिमिवानलम् ।। ५.३९.४४।।।। ॥५-३९-४४॥
निहते राक्षसेन्द्रे ऽस्मिन् सपुत्रामात्यबान्धवे ।त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी ।। ५.३९.४५।।।। ॥५-३९-४५॥
क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि ।रावणं चैव रामेण निहतं द्रक्ष्यसे ऽचिरात् ।। ५.३९.४६।।।। ॥५-३९-४६॥
एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः ।गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत् ।। ५.३९.४७।।।। ॥५-३९-४७॥
तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् ।लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम्* ।। ५.३९.४८।।।। ॥५-३९-४८॥
नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् ।वानरान् वारणेन्द्राभान् क्षिप्र द्रक्ष्यसि सङ्गतान् ।। ५.३९.४९।।।। ॥५-३९-४९॥
शैलाम्बुदनिकाशानां लङ्कामलयसानुषु ।नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः ।। ५.३९.५०।।।। ॥५-३९-५०॥
स तु मर्मणि घोरेण ताडितो मन्मथेषुणा ।न शर्म लभते रामः सिंहार्दित इव द्विपः ।। ५.३९.५१।।।। ॥५-३९-५१॥
मा रुदो देवि शोकेन मा भूत् ते मनसो ऽप्रियम् ।शचीव पत्या शक्रेण भर्त्रा नाथवती ह्यसि ।। ५.३९.५२।।।। ॥५-३९-५२॥
रामाद् विशिष्टः को ऽन्यो ऽस्ति कश्चित् सौमित्रिणा समः ।अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ ।। ५.३९.५३।।।। ॥५-३९-५३॥
नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषिते ऽतिरौद्रे ।न ते चिरादागमनं प्रियस्य क्षमस्व मत्सङ्गमकालमात्रम् ॥५-३९-५४॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 38
- Next: Sundara-Kāṇḍa Sarga 40 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷