🪷 सुन्दरकाण्ड · Sarga 38
Sundara-Kāṇḍa · The Book of Beauty · Sarga 38 · 73 ślokas
🪷 Devanāgarī Ślokas
ततः सकपिशार्दूलस्तेन वाक्येन हर्षितः ।सीतामुवाच तच्छ्रुत्वा वाक्यं वक्यविशारदः ।। ५.३८.१।।।। ॥५-३८-१॥
युक्तरूपं त्वया देवि भाषितं शुभदर्शने ।सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ।। ५.३८.२।।।। ॥५-३८-२॥
स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम् ।मामधिष्ठाय विस्तीर्णं शतयोजनमायतम् ।। ५.३८.३।।।। ॥५-३८-३॥
द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते ।रामादन्यस्य नार्हामि संस्पर्शमिति जानकि ।। ५.३८.४।।।। ॥५-३८-४॥
एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः ।का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ।। ५.३८.५।।।। ॥५-३८-५॥
श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः ।चोष्टितं यत्त्वया देवि भाषितं मम चाग्रतः ।। ५.३८.६।।।। ॥५-३८-६॥
कारणैर्बहुभिर्देवि रामप्रियचिकीर्षया ।स्नेहप्रस्कन्नमनसा मयैतत् समुदीरितम् ।। ५.३८.७।।।।। ॥५-३८-७॥
लङ्काया दुष्प्रवेशत्वाद् दुस्तरत्वान्महोदधेः ।सामर्थ्यादात्मनश्चैव मयैतत् समुदीरितम् ।। ५.३८.८।।।। ॥५-३८-८॥
इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना ।गुरुस्नेहेन भक्त्या च नान्यथैतदुदाहृतम् ।। ५.३८.९।।।। ॥५-३८-९॥
यदि नोत्सहसे यातुं मया सार्धमनिन्दिते ।अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि तत् ।। ५.३८.१०।।।। ॥५-३८-१०॥
एवमुक्ता हनुमता सीता सुरसुतोपमा ।उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ।। ५.३८.११।।।। ॥५-३८-११॥
इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम्।शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा ।। ५.३८.१२।।।। ॥५-३८-१२॥
तापसाश्रमवासिन्याः प्राज्यमूलफलोदके ।तस्मिन् सिद्धाश्रमे देशे मन्दाकिन्या ह्यदूरतः ।। ५.३८.१३।।।। ॥५-३८-१३॥
तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु ।विहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम् ।। ५.३८.१४।।।। ॥५-३८-१४॥
ततो मांससमायुक्तो वायसः पर्यतुण्डयत् ।तमहं लोष्टमुद्यम्य वारयामि स्म वायसम् ।। ५.३८.१५।।।। ॥५-३८-१५॥
दारयन् स च मां काकस्तत्रैव परिलीयते ।न चाप्युपारमन्मांसाद्भक्षार्थी बलिभोजनः ।। ५.३८.१६।।।। ॥५-३८-१६॥
उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणि ।स्रस्यमाने च वसने ततो दृष्टा त्वया ह्यहम् ।। ५.३८.१७।।।। ॥५-३८-१७॥
त्वया ऽपहसिता चाहं क्रुद्धा संलज्जिता तदा ।भक्षगृध्रेन काकेन दारिता त्वामुपागता ।। ५.३८.१८।।.३८.१७।।।। ॥५-३८-१८॥
आसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम् ।क्रुद्ध्यन्ती च प्रहृष्टेन त्वया ऽहं परिसान्त्विता ।। ५.३८.१९।।।। ॥५-३८-१९॥
बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती ।लक्षिता ऽहं त्वया नाथ वायसेन प्रकोपिता ।। ५.३८.२०।।।। ॥५-३८-२०॥
परिश्रमात् प्रसुप्ता च राघवाङ्के ऽप्यहं चिरम् ।पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः ।स तत्र पुनरेवाथ वायसः समुपागमत् ।। ५.३८.२१।।।। ॥५-३८-२१॥
ततः सुप्तप्रबुद्धां मां रामस्याङ्कात् समुत्थिताम् ।वायसः सहसा ऽ ऽगम्य विददार स्तनान्तरे ।। ५.३८.२२।।।। ॥५-३८-२२॥
पुनः पुनरथोत्पत्य विददार स मां भृशम् ।ततः समुक्षितो रामो मुक्तैः शोणितबिन्दुभिः ।। ५.३८.२३।।।। ॥५-३८-२३॥
वायसेन ततस्तेन बलवत्क्लिश्यमानया ।स मया बोधितः श्रीमान् सुखसुप्तः परन्तपः ।। ५.३८.२४।।।। ॥५-३८-२४॥
स मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा ।आशीविष इव क्रुद्धः श्वसन् वाक्यमभाषत ।। ५.३८.२५।।।। ॥५-३८-२५॥
केन ते नागनासोरु विक्षतं वै स्तनान्तरम् ।कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ।। ५.३८.२६।।।। ॥५-३८-२६॥
वीक्षमाणस्ततस्तं वै वायसं समुदैक्षत ।नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ।। ५.३८.२७।।।। ॥५-३८-२७॥
पुत्रः किल स शक्रस्य वायसः पततां वरः ।धरान्तरगतः शीघ्रं पवनस्य गतौ समः ।। ५.३८.२८।।।। ॥५-३८-२८॥
ततस्तस्मिन् महाबाहुः कोपसंवर्तितेक्षणः ।वायसे कृतवान् क्रूरां मतिं मतिमतां वरः ।। ५.३८.२९।।।। ॥५-३८-२९॥
स दर्भं संस्तराद् गृह्य ब्राह्मेमास्त्रेण योजयत् ।स दीप्त इव कालाग्रिर्जज्वलाभिमुखो द्विजम् ।। ५.३८.३०।।।। ॥५-३८-३०॥
स तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति ।ततस्तं वायसं दर्भः सो ऽम्बरे ऽनुजगाम ह ।। ५.३८.३१।।।। ॥५-३८-३१॥
अनुसृप्तस्तदा काको जगाम विविधां गतिम् ।लोककाम इमं लोकं सर्वं वै विचचार ह ।। ५.३८.३२।।।। ॥५-३८-३२॥
स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः ।त्रील्लोकान् संपरिक्रम्य तमेव शरणं गतः ।। ५.३८.३३।।।। ॥५-३८-३३॥
स तं निपतितं भूमौ शरण्यः शरणागतम् ।वधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ।। ५.३८.३४।।।। ॥५-३८-३४॥
न शर्म लब्ध्वा तमेव शरणं गतः ।। ५.३८.३५।।।। ॥५-३८-३५॥
परिद्यूनं विषण्णं च स तमायान्तमब्रवीत् ।मोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम् ।। ५.३८.३६।।।। ॥५-३८-३६॥
हिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सो ऽब्रवीत् ।ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ।दत्त्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः ।। ५.३८.३७।।।। ॥५-३८-३७॥
स रामाय नमस्कृत्वा राज्ञे दशरथाय च ।विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ।। ५.३८.३८।।णम् ।।। ॥५-३८-३८॥
मत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम् ।कर्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते ।। ५.३८.३९।।।। ॥५-३८-३९॥
स कुरुष्व महोत्साहः कृपां मयि नरर्षभ ।त्वया नाथवती नाथ ह्यनाथा इव दृश्यते ।। ५.३८.४०।।।। ॥५-३८-४०॥
आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः ।। ५.३८.४१।।।। ॥५-३८-४१॥
जानामि त्वां महावीर्यं महोत्साहं महाबलम् ।अपारपारमक्षोभ्यं गाम्भीर्यात् सागरोपमम् ।भर्तारं ससमुद्रायाधरण्या वासवोपमम् ।। ५.३८.४२।।।। ॥५-३८-४२॥
एवमस्त्रविदां श्रेष्ठः सत्यवान् बलवानपि ।किमर्थमस्त्रं रक्षस्सु न योजयति राघवः ।। ५.३८.४३।।।। ॥५-३८-४३॥
न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ।रामस्य समरे वेगं शक्ताः प्रतिसमाधितुम् ।। ५.३८.४४।।।। ॥५-३८-४४॥
तस्य वीर्यवतः कश्चिद् यद्यस्ति मयि संभ्रमः ।किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ।। ५.३८.४५।।।। ॥५-३८-४५॥
भ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः ।कस्य हेतोर्न मां वीरः परित्राति महाबलः ।। ५.३८.४६।।।। ॥५-३८-४६॥
यदि तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ।सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ।। ५.३८.४७।।।। ॥५-३८-४७॥
ममैव दुष्कृतं किंचिन्महदस्ति न संशयः ।समर्थावपि तौ यन्मां नावेक्षते परन्तपौ ।। ५.३८.४८।।।। ॥५-३८-४८॥
वैदह्या वचनं श्रत्वा करुणं साश्रुभाषितम् ।अथाब्रवीन्महातेजा हनूमान् मारुतात्मजः ।। ५.३८.४९।।।। ॥५-३८-४९॥
त्वच्छोकविमुखो रामो देवि सत्येन मे शपे ।रामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते ।। ५.३८.५०।।।। ॥५-३८-५०॥
कथंचिद्भवती दृष्टा न कालः परिशोचितुम् ।। ५.३८.५१।।।। ॥५-३८-५१॥
इमं मुहूर्तं दुःखानां द्रक्ष्यस्यन्तमनिन्दिते ।तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ ।। ५.३८.५२।।।। ॥५-३८-५२॥
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।। ५.३८.५३।।।। ॥५-३८-५३॥
हत्वा च समरे क्रूरं रावणं सहबान्धवम् ।राघवस्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति ।ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः ।। ५.३८.५४।।।। ॥५-३८-५४॥
सुग्रीवो वापि तेजस्वी हरयो ऽपि समागताः ।इत्युक्तवति तस्मिंश्च सीता सुरसुतोपमा ।उवाच सोकसन्तप्ता हनुमन्तं प्लवङ्गमम् ।। ५.३८.५५।।।। ॥५-३८-५५॥
कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी ।तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ।। ५.३८.५६।।।। ॥५-३८-५६॥
स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः ।ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम् ।। ५.३८.५७।।।। ॥५-३८-५७॥
पितरं मातरं चैव संमान्याभिप्रसाद्य च ।अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः ।। ५.३८.५८।।।। ॥५-३८-५८॥
आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् ।अनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने ।। ५.३८.५९।।।। ॥५-३८-५९॥
संहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः ।पितृवद्वर्तते रामे मातृवन्मां समाचरन् ।। ५.३८.६०।।।। ॥५-३८-६०॥
ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ।। ५.३८.६१।।।। ॥५-३८-६१॥
वृद्दोपसेवी लक्ष्मीवान् शक्तो न बहु भाषिता ।राजपुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे ।। ५.३८.६२।।।। ॥५-३८-६२॥
मम प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः ।नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् ।। ५.३८.६३।।।। ॥५-३८-६३॥
यं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरेत् ।स ममार्थाय कुशलं वक्तव्यो वचनान्मम ।मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ।। ५.३८.६४।।।। ॥५-३८-६४॥
यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत् ।त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम ।। ५.३८.६५।।।। ॥५-३८-६५॥
राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत् ।। ५.३८.६६।।।। ॥५-३८-६६॥
इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः ।जीवितं धारयिष्यामि मासं दशरथात्मज ।। ५.३८.६७।।।। ॥५-३८-६७॥
ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते ।रावणेनोपरुद्धां मां निकृत्या पापकर्मणा ।। ५.३८.६८।।।। ॥५-३८-६८॥
त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् ।ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् ।प्रदेयो राघवायेति सीता हनुमते ददौ ।। ५.३८.६९।।।। ॥५-३८-६९॥
प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् ।अङ्गुल्या योजयामास न ह्यस्य प्राभवद्भुजः ।।। ५.३८.७०।।।। ॥५-३८-७०॥
मणिरत्नं कपिवरः प्रतिगृह्याभिवद्य च ।सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः ।। ५.३८.७१।।।। ॥५-३८-७१॥
हर्षेण महता युक्तः सीतादर्शनजेन सः ।हृदयेन गतो रामं शरीरेण तु विष्ठितः ।। ५.३८.७२।।।। ॥५-३८-७२॥
मणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात् ।गिरिरिव पवनावधूत्मुक्तः सुखितमनाः प्रतिसंक्रमं प्रपेदे ॥५-३८-७३॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 37
- Next: Sundara-Kāṇḍa Sarga 39 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷