🪷 सुन्दरकाण्ड · Sarga 37

Sundara-Kāṇḍa · The Book of Beauty · Sarga 37 · 65 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 5.37.1
सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना ।हनूमन्तमुवाचेदं धर्मार्थसहितं वचः ।। ५.३७.१।।।। ॥५-३७-१॥
Vālmīki 5.37.2
अमृतं विषसंसृष्टं त्वया वानरभाषितम् ।यच्च नान्यमना रामो यच्च शोकपरायणः ।। ५.३७.२।।।। ॥५-३७-२॥
Vālmīki 5.37.3
ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ।रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ।। ५.३७.३।।।। ॥५-३७-३॥
Vālmīki 5.37.4
विधिर्नूनमसंहार्थः प्राणिनां प्लवगोत्तम ।सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ।। ५.३७.४।।।। ॥५-३७-४॥
Vālmīki 5.37.5
शोकस्यास्य कदा पारं राघवो ऽधिगमिष्यति ।प्लवमानः परिश्रान्तो हतनौः सागरे यथा ।। ५.३७.५।।।। ॥५-३७-५॥
Vālmīki 5.37.6
राक्षसानां वधं कृत्वा सूदयित्वा च रावणम् ।लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः ।। ५.३७.६।।।। ॥५-३७-६॥
Vālmīki 5.37.7
स वाच्यः सन्त्वरस्वेति यावदेव न पूर्यते ।अयं संवत्सरः कालस्तावद्धि मम जीवितम् ।। ५.३७.७।।।। ॥५-३७-७॥
Vālmīki 5.37.8
वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम ।रावणेन नृशंसेन समयो यः कृतो मम ।। ५.३७.८।।।। ॥५-३७-८॥
Vālmīki 5.37.9
विभीषणेन च भ्रात्रा मम निर्यातनं प्रति ।अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम् ।। ५.३७.९।।।। ॥५-३७-९॥
Vālmīki 5.37.10
मम प्रतिप्रदानं हि रावणस्य न रोचते ।रावणं मार्गते सङ्ख्ये मृत्युः कालवशं गतम् ।। ५.३७.१०।।।। ॥५-३७-१०॥
Vālmīki 5.37.11
ज्येष्टा कन्या ऽनला नाम विभीषणसुता कपे ।तया ममेदमाख्यातं मात्रा प्रहितया स्वयम् ।। ५.३७.११।।।। ॥५-३७-११॥
Vālmīki 5.37.12
असंशयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः ।अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः ।। ५.३७.१२।।।। ॥५-३७-१२॥
Vālmīki 5.37.13
उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता ।विक्रमश्च प्रभावश्च सन्ति वानर राघवे ।। ५.३७.१३।।।। ॥५-३७-१३॥
Vālmīki 5.37.14
चतुर्दश सहस्राणि राक्षसानां जघान यः ।जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ।। ५.३७.१४।।।। ॥५-३७-१४॥
Vālmīki 5.37.15
न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः ।अहं तस्य प्रभावज्ञाशक्रस्येव पुलोमजा ।। ५.३७.१५।।।। ॥५-३७-१५॥
Vālmīki 5.37.16
शरजालांशुमाञ्छूरः कपे रामदिवाकरः ।शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति ।। ५.३७.१६।।।। ॥५-३७-१६॥
Vālmīki 5.37.17
इति संजल्पमानां तां रामार्थे शोककर्शिताम् ।अश्रुसम्पूर्णनयनामुवाच वचनं कपिः ।। ५.३७.१७।।।। ॥५-३७-१७॥
Vālmīki 5.37.18
कृत्वैव तु वयो मह्यं क्षिप्रमेष्यति राघवः ।चमूं प्रकर्षन् महतीं हर्यृक्षगणसङ्कुलाम् ।। ५.३७.१८।।।। ॥५-३७-१८॥
Vālmīki 5.37.19
अथवा मोचयिष्यामि त्वामद्यैव वरानने ।अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते ।। ५.३७.१९।।।। ॥५-३७-१९॥
Vālmīki 5.37.20
त्वां तु पृष्ठगतां कृत्वा सन्तरिष्यामि सागरम् ।शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् ।। ५.३७.२०।।।। ॥५-३७-२०॥
Vālmīki 5.37.21
द्रक्ष्यस्यद्यैव वैदेहि राघवं सह लक्ष्मणम् ।व्यवसायसमायुक्तं विष्णुं दैत्यवदे यथा ।। ५.३७.२२।।।। ॥५-३७-२१॥
Vālmīki 5.37.22
त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम् ।पुरन्दरमिवासीनं नाकराजस्य मूर्धनि ।। ५.३७.२३।।।। ॥५-३७-२२॥
Vālmīki 5.37.23
पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने ।योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी ।। ५.३७.२४।।।। ॥५-३७-२३॥
Vālmīki 5.37.24
कथयन्तीव चन्द्रेण सूर्येण च महार्चिषा ।मत्पृष्टमधिरुह्य त्वं तराकाशमहार्णवौ ।। ५.३७.२५।।।। ॥५-३७-२४॥
Vālmīki 5.37.25
न हि मे संप्रयातस्य त्वामितो नयतो ऽङ्गने ।अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः ।। ५.३७.२६।।।। ॥५-३७-२५॥
Vālmīki 5.37.26
यथैवाहमिह प्राप्तस्तथैवाहमसंशयः ।यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम् ।। ५.३७.२७।।।। ॥५-३७-२६॥
Vālmīki 5.37.27
मैथिली तु हरिश्रेष्ठात् श्रुत्वा वचनमद्भुतम् ।हर्षविस्मितसर्वाङ्गी हनुमन्तमथाब्रवीत् ।। ५.३७.२८।।।। ॥५-३७-२७॥
Vālmīki 5.37.28
हनुमन् दूरमध्वानं कथं मां वोढुमिच्छसि ।तदेव खलु ते मन्ये कपित्वं हरियूथप ।। ५.३७.२९।।।। ॥५-३७-२८॥
Vālmīki 5.37.29
कथं वा ऽल्पशरीरस्त्वं मामितो नेतुमिच्छसि ।सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ ।। ५.३७.३०।।।। ॥५-३७-२९॥
Vālmīki 5.37.30
सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः ।चिन्तयामास लक्ष्मीवान् नवं परिभवं कृतम् ।। ५.३७.३१।।।। ॥५-३७-३०॥
Vālmīki 5.37.31
न मे जानाति सत्त्वं वा प्रभावं वा ऽसितेक्षणा ।तस्मात् पश्यतु वैदही यद्रूपं मम कामतः ।। ५.३७.३२।।।। ॥५-३७-३१॥
Vālmīki 5.37.32
इति सञ्चिन्त्य हनुमांस्तदा प्लवगसत्तमः ।दर्शयामास वैदेह्याः स्वरूपमरिमर्दनः ।। ५.३७.३३।।।। ॥५-३७-३२॥
Vālmīki 5.37.33
स तस्मात् पादपाद्धीमानाप्लुत्य प्लवगर्षभः ।ततो वर्धितुमारेभे सीताप्रत्ययकारणात् ।। ५.३७.३४।।।। ॥५-३७-३३॥
Vālmīki 5.37.34
मेरुमन्दरसङ्काशो बभौ दीप्तानलप्रभः ।अग्रतो व्यवतस्थे च सीताया वानरोत्तमः ।। ५.३७.३५।।।। ॥५-३७-३४॥
Vālmīki 5.37.35
हरिः पर्वतसङ्काशस्ताम्रवक्त्रो महाबलः ।वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत् ।। ५.३७.३६।।।। ॥५-३७-३५॥
Vālmīki 5.37.36
सपर्वतवनोद्देशां साट्टप्रकारतोरणाम् ।लङ्कामिमां सनाथां व नयितुं शक्तिरस्ति मे ।। ५.३७.३७।।।। ॥५-३७-३६॥
Vālmīki 5.37.37
तदवस्थाप्यतां बुद्धिरलं देवि विकाङ्क्षया ।विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् ।। ५.३७.३८।।।। ॥५-३७-३७॥
Vālmīki 5.37.38
तं दृष्ट्वा भीमसङ्काशमुवाच जनकात्मजा ।पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् ।। ५.३७.३९।।।। ॥५-३७-३८॥
Vālmīki 5.37.39
तव सत्त्वं बलं चैव विजानामि महाकपे ।वायोरिव गतिं चापि तेजश्चाग्नेरिवाद्भुतम् ।। ५.३७.४०।।।। ॥५-३७-३९॥
Vālmīki 5.37.40
प्राकृतो ऽन्यः कथं चेमां भूमिमागन्तुमर्हति ।उदधेरप्रमेयस्य पारं वानरपुङ्गव ।। ५.३७.४१।।।। ॥५-३७-४०॥
Vālmīki 5.37.41
जानामि गमने शक्तिं नयने चापि ते मम ।अवश्यं संप्रधार्याशु कार्यसिद्धिर्महात्मनः ।। ५.३७.४२।।।। ॥५-३७-४१॥
Vālmīki 5.37.42
अयुक्तं तु कपिश्रेष्ठ मम गन्तुं त्वया ऽनघ ।वायुवेगसवेगस्य वेगो मां मोहयेत्तव ।। ५.३७.४३।।।। ॥५-३७-४२॥
Vālmīki 5.37.43
अहमाकाशमापन्ना ह्युपर्युपरि सागरम् ।प्रपतेयं हि ते पृष्ठाद्भयाद् वेगेन गच्छतः ।। ५.३७.४४।।।। ॥५-३७-४३॥
Vālmīki 5.37.44
पतिता सागरे चाहं तिमिनक्रझषाकुले ।भवेयमाशु विवशा यादसामन्नमुत्तमम् ।। ५.३७.४५।।।। ॥५-३७-४४॥
Vālmīki 5.37.45
न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन ।कलत्रवति सन्देहस्त्वय्यपि स्यादसंशयः ।। ५.३७.४६।।।। ॥५-३७-४५॥
Vālmīki 5.37.46
ह्रियमाणं तु मां दृष्ट्वा राक्षसा भीमविक्रमाः ।अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ।। ५.३७.४७।।।। ॥५-३७-४६॥
Vālmīki 5.37.47
तैस्त्वं परिवृतः शूरैः शूलमुद्गरपाणिभिः ।भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान् ।। ५.३७.४८।।।। ॥५-३७-४७॥
Vālmīki 5.37.48
सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः ।कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् ।। ५.३७.४९।।।। ॥५-३७-४८॥
Vālmīki 5.37.49
युद्ध्यमानस्य रक्षोभिस्तव तैः क्रूरकर्मभिः ।प्रपतेयं हि ते पृष्ठाद् भयार्ता कपिसत्तम ।। ५.३७.५०।।।। ॥५-३७-४९॥
Vālmīki 5.37.50
अथ रक्षांसि भीमानि महान्ति बलवन्ति च ।कथंचित् साम्पराये त्वां जयेयुः कपिसत्तम ।। ५.३७.५१।।।। ॥५-३७-५०॥
Vālmīki 5.37.51
अथवा युद्ध्यमानस्य पतेयं विमुखस्य ते ।पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः ।। ५.३७.५२।।।। ॥५-३७-५१॥
Vālmīki 5.37.52
मां वा हरेयुस्त्वद्धस्ताद् विशसेयुरथापि वा ।अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ ।। ५.३७.५३।।।। ॥५-३७-५२॥
Vālmīki 5.37.53
अहं वापि विपद्येयं रक्षोभिरभितर्जिता ।त्वत्प्रयत्नो हरिश्रोष्ठ भवेन्निष्फल एव तु ।। ५.३७.५४।।।। ॥५-३७-५३॥
Vālmīki 5.37.54
कामं त्वमसि पर्याप्तौ निहन्तुं सर्वराक्षसान् ।राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः ।। ५.३७.५५।।।। ॥५-३७-५४॥
Vālmīki 5.37.55
अथवा ऽ ऽदाय रक्षांसि न्यसेयुः संवृते हि माम् ।यत्र ते नाभिजानीयुर्हरयो नापि राघवौ ।आरम्भस्तु मदर्थो ऽयं ततस्तव निरर्थकः ।। ५.३७.५६।।।। ॥५-३७-५५॥
Vālmīki 5.37.56
त्वया हि सह रामस्य महानागमने गुणः ।।। ५.३७.५७।।।। ॥५-३७-५६॥
Vālmīki 5.37.57
मयि जीवितमायत्तं राघवस्य महात्मनः ।भ्रातऽणां च महाबाहो तव राजकुलस्य च ।। ५.३७.५८।।।।। ॥५-३७-५७॥
Vālmīki 5.37.58
तौ निराशौ मदर्थं तु शोकसन्तापकर्शितौ ।सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम् ।। ५.३७.५९।।।। ॥५-३७-५८॥
Vālmīki 5.37.59
भर्तृमक्तिं पुरस्कृत्य रामादन्यस्य वानर ।न स्पृशामि शरीरं तु पुंसो वाररपुङ्गवः ।। ५.३७.६०।।।। ॥५-३७-५९॥
Vālmīki 5.37.60
यदहं गात्रसंस्पर्शं रावणस्य बलाद्गता ।अनीशा किं करिष्यामि विनाथा विवशा सती ।। ५.३७.६१।।।। ॥५-३७-६०॥
Vālmīki 5.37.61
यदि रामो दशग्रीवमिह हत्वा सबान्धवम् ।मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् ।। ५.३७.६२।।।। ॥५-३७-६१॥
Vālmīki 5.37.62
श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः ।न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे ।। ५.३७.६३।।।। ॥५-३७-६२॥
Vālmīki 5.37.63
समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम् ।सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम् ।। ५.३७.६४।।।। ॥५-३७-६३॥
Vālmīki 5.37.64
सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम् ।सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम् ।। ५.३७.६५।।।। ॥५-३७-६४॥
Vālmīki 5.37.65
स मे हरिश्रेष्ठ सलक्ष्मणं पतिं सयूथपं क्षिप्रमिहोपपादय ।चिराय रामं प्रति शोककर्शितां कुरुष्व मां वानरमुख्य हर्षिताम् ॥५-३७-६५॥

Navigation

Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷