🪷 सुन्दरकाण्ड · Sarga 36

Sundara-Kāṇḍa · The Book of Beauty · Sarga 36 · 47 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 5.36.1
भूय एव महातेजा हनुमान् मारुतात्मजः ।अब्रवीत् प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ।। ५.३६.१।।।। ॥५-३६-१॥
Vālmīki 5.36.2
वानरो ऽहं महाभागे दूतो रामस्य धीमतः ।रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ।। ५.३६.२।।।। ॥५-३६-२॥
Vālmīki 5.36.3
प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना ।समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ।। ५.३६.३।।।। ॥५-३६-३॥
Vālmīki 5.36.4
गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् ।भर्तारमिव सम्प्राप्ता जानकी मुदिता ऽभवत् ।। ५.३६.४।।।। ॥५-३६-४॥
Vālmīki 5.36.5
चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ।अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ।। ५.३६.५।।।। ॥५-३६-५॥
Vālmīki 5.36.6
ततः सा ह्रीमती बाला भर्तृसन्देशहर्षिता ।परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम् ।। ५.३६.६।।।। ॥५-३६-६॥
Vālmīki 5.36.7
विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम ।येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ।। ५.३६.७।।।। ॥५-३६-७॥
Vālmīki 5.36.8
शतयोजनविस्तीर्णः सागरो मकरालयः ।विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः ।। ५.३६.८।।।। ॥५-३६-८॥
Vālmīki 5.36.9
नहि त्वां प्राकृतं मन्ये वानरं वानरर्षभ ।यस्य ते नास्ति संत्रासो रावणान्नापि सम्भ्रमः ।। ५.३६.९।।।। ॥५-३६-९॥
Vālmīki 5.36.10
अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् ।यद्यपि प्रेषितस्तेन रामेण विदितात्मना ।। ५.३६.१०।।।। ॥५-३६-१०॥
Vālmīki 5.36.11
प्रेषयिष्यति दुर्धषो रामो न ह्यपरीक्षितम् ।पराक्रममविज्ञाय मत्सकाशं विशेषतः ।। ५.३६.११।।।। ॥५-३६-११॥
Vālmīki 5.36.12
दिष्ट्या च कुशली रामो धर्मात्मा सत्यसङ्गरः ।लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ।। ५.३६.१२।।।। ॥५-३६-१२॥
Vālmīki 5.36.13
कुशली यदि काकुत्स्थः किन्नु सागरमेखलाम् ।महीं दहति कोपेन युगान्ताग्निरिवोत्थितः ।। ५.३६.१३।।।। ॥५-३६-१३॥
Vālmīki 5.36.14
अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे ।ममैव तु न दुःखानामस्ति मन्ये विपर्ययः ।। ५.३६.१४।।।। ॥५-३६-१४॥
Vālmīki 5.36.15
कच्चिन्न व्यथितो रामः कच्चिन्न परितप्यते ।उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः ।। ५.३६.१५।।।। ॥५-३६-१५॥
Vālmīki 5.36.16
कच्चिन्न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति ।कच्चित् पुर्षकार्याणि कुरुते नृपतेः सुतः ।। ५.३६.१६।।।। ॥५-३६-१६॥
Vālmīki 5.36.17
द्विविधं त्रिविधोपायमुपायमपि सेवते ।विजिगीषुः सुहृत् कच्चिन्मित्रेषु च परन्तपः ।। ५.३६.१७।।।। ॥५-३६-१७॥
Vālmīki 5.36.18
कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते ।कच्चित् कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः ।। ५.३६.१८।।।। ॥५-३६-१८॥
Vālmīki 5.36.19
कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः ।कच्चित् पुरुषकारं च दैवं च प्रतिपद्यते ।। ५.३६.१९।।।। ॥५-३६-१९॥
Vālmīki 5.36.20
कच्चिन्न विगतस्नेहः प्रसादान्मयि राघवः ।कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानर ।। ५.३६.२०।।।। ॥५-३६-२०॥
Vālmīki 5.36.21
सुखानामुचितो नित्यमसुखानामनूचितः ।दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति ।। ५.३६.२१।।।। ॥५-३६-२१॥
Vālmīki 5.36.22
कौसल्यायास्तथा कच्चित् सुमित्रायास्तथैव च ।अभीक्ष्णं श्रुयते कच्चित् कुशलं भरतस्य च ।। ५.३६.२२।।।। ॥५-३६-२२॥
Vālmīki 5.36.23
मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः ।कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति ।। ५.३६.२३।।।। ॥५-३६-२३॥
Vālmīki 5.36.24
कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः ।ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते ।। ५.३६.२४।।।। ॥५-३६-२४॥
Vālmīki 5.36.25
वानराधिपतिः श्रीमान् सुग्रीवः कच्चिदेष्यति ।मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः ।। ५.३६.२५।।।। ॥५-३६-२५॥
Vālmīki 5.36.26
कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः ।अस्त्रविच्छरजालेन राक्षसान् विधमिष्यति ।। ५.३६.२६।।।। ॥५-३६-२६॥
Vālmīki 5.36.27
रौद्रेण कच्चिदस्त्रेण ज्वलता निहतं रणे ।द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् ।। ५.३६.२७।।।। ॥५-३६-२७॥
Vālmīki 5.36.28
कच्चिन्न तद्धेमसमानवर्णं तस्याननं पद्मसमानगन्धि ।मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन ।। ५.३६.२८।।।। ॥५-३६-२८॥
Vālmīki 5.36.29
धर्मापदेशात्त्यजतश्च राज्यं मां चाप्यरण्यं नयतः पदातिम् ।नासीद्व्यथा यस्य न भीर्न शोकः कच्चिच्च धैर्यं हृदये करोति ।। ५.३६.२९।।।। ॥५-३६-२९॥
Vālmīki 5.36.30
न चास्य माता न पिता च नान्यः स्नेहाद्विशिष्टो ऽस्ति मया समो वा ।तावत्त्वहं दूत जिजीविषेयं यावत् प्रवृत्तिं श्रृणुयां प्रियस्य ।। ५.३६.३०।।।। ॥५-३६-३०॥
Vālmīki 5.36.31
इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा ।श्रोतुं पुनस्तस्य वचो ऽभिरामं रामार्थयुक्तं विरराम रामा ।। ५.३६.३१।।।। ॥५-३६-३१॥
Vālmīki 5.36.32
सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः ।शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ।। ५.३६.३२।।।। ॥५-३६-३२॥
Vālmīki 5.36.33
न त्वामिहस्थां जानीते रामः कमललोचने ।तेन त्वां नानयत्याशु शचीमिव पुरन्दरः ।। ५.३६.३३।।।। ॥५-३६-३३॥
Vālmīki 5.36.34
श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः ।चमूं प्रकर्षन् महतीं हर्यृक्षगणसङ्कुलाम् ।। ५.३६.३४।।।। ॥५-३६-३४॥
Vālmīki 5.36.35
विष्टम्भयित्वा बाणौधैरक्षोभ्यं वरुणालयम् ।करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् ।। ५.३६.३५।।।। ॥५-३६-३५॥
Vālmīki 5.36.36
तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः।स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति ।। ५.३६.३६।।।। ॥५-३६-३६॥
Vālmīki 5.36.37
तवादर्शनजेनार्ये शोकेन स परिप्लुतः ।न शर्म लभते रामः सिंहार्दित इव द्विपः ।। ५.३६.३७।।।। ॥५-३६-३७॥
Vālmīki 5.36.38
मलयेन च विन्ध्येन मेरुणा मन्दरेण च ।दर्दुरेण च ते देवि शपे मूलफलेन च ।। ५.३६.३८।।।। ॥५-३६-३८॥
Vālmīki 5.36.39
यथा सुनयनं वल्गु बिम्बोष्ठं चारुकुण्डलम् ।मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् ।। ५.३६.३९।।।। ॥५-३६-३९॥
Vālmīki 5.36.40
क्षिप्रं द्रक्ष्यासि वैदेहि रामं प्रस्रवणे गिरौ ।शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि ।। ५.३६.४०।।।। ॥५-३६-४०॥
Vālmīki 5.36.41
न मांसं राघवो भुङ्क्ते न चापि मधु सेवते ।वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ।। ५.३६.४१।।।। ॥५-३६-४१॥
Vālmīki 5.36.42
नैव दंशान्न मशकान् न कीटान्न सरीसृपान् ।राघवो ऽपनयेद्गात्रात् त्वद्गतेनान्तरात्मना ।। ५.३६.४२।।।। ॥५-३६-४२॥
Vālmīki 5.36.43
नित्यं ध्यानपरो रामो नित्यं शोकपरायणः ।नान्यच्चिन्तयते किञ्चित् स तु कामवशं गतः ।। ५.३६.४३।।।। ॥५-३६-४३॥
Vālmīki 5.36.44
अनिद्रः सततं रामः सुप्तो ऽपि च नरोत्तमः ।सीतेति मधुरां वाणीं व्याहरन् प्रतिबुद्ध्यते ।। ५.३६.४४।।।। ॥५-३६-४४॥
Vālmīki 5.36.45
दृष्ट्वा फलं वा पुष्पं वा यद्वा ऽन्यत् सुमनोहरम् ।बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते ।। ५.३६.४५।।।। ॥५-३६-४५॥
Vālmīki 5.36.46
स देवि नित्यं परितप्यमानस्त्वामेव सीतेत्यभिभाषमाणः ।दृढव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः ।। ५.३६.४६।।।। ॥५-३६-४६॥
Vālmīki 5.36.47
सा रामसङ्कीर्तनवीतशोका रामस्य शोकेन समानशोका ।शरन्मुखे साम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव ॥५-३६-४७॥

Navigation

Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷